________________ अवयविसाधनम्] न्यायभाष्यम् / - इन्द्रियान्तरविषयेष्वभेदप्रत्ययः प्रधानमितिचेत् ? न- विशेषहेत्वभावाद् दृष्टान्ताव्यवस्था / श्रोत्रादिविषयेषु शब्दादिष्वभिन्नेषु एकपत्ययः प्रधानमऽनेकस्मिन्नेकप्रत्ययस्येति / एवं च सति दृष्टान्तोपादानं न व्यवतिष्ठते- विशेषहेत्वभावात् , अणुषु संचितेष्वेकप्रत्ययः किमतस्मिंस्तदितिप्रत्ययः स्थाणौ पुरुषप्रत्ययवत् ? अथार्थस्य तथाभावात् तस्मिंस्तदितिप्रत्ययो यथा शब्दस्यैकत्वादेकः शब्द इति ?, विशेषहेतुपरिग्रहमन्तरेण दृष्टान्तौ संशयमापादयत इति / कुम्भवत् संचयमानं गन्धादयोपीत्यनुदाहरणं गन्धादय इति / एवं परिमाणसंयोगस्पन्दजातिविशेषप्रत्ययानप्यनुयोक्तव्यः तेषु चैवं प्रसङ्ग इति // ऽयम् अभेदप्रत्ययः= प्रधानभूत एकत्वप्रत्ययः स्वीकार्य:- अयवविनः स्थूलत्वेनेन्द्रियग्राह्यत्वात् तस्मिन् एकत्वप्रत्ययस्यानुपपत्तिर्नास्तीत्येवं रीत्याऽवयवी सिद्ध इत्यर्थः // नन्ववयवभूतेषु परमाणुष्वनेकेषु यदेकत्वज्ञानम् अतस्मिंस्तदितिप्रत्ययभूतं तस्यावयविन्येकत्वप्रत्यय एव प्रधानमिति राजाज्ञा नास्ति येन तस्मादवयवी सिध्येत् किं तु इन्द्रियान्तरविषयेषु= चक्षुरतिरिक्तश्रोत्रवाणादिविषयेषु शब्दगन्धादिषु अभिन्नेषु योऽभेदप्रत्ययः= एकत्वप्रत्ययः स एव प्रधान तथा चानेकेषु परमाणुष्वेकत्वप्रत्ययसिद्धयर्थमप्युक्तरीत्या प्रधानापेक्षायामवयविन्येकत्वप्रत्ययापेक्षा नास्ति येनावयवी सिध्येत् किं तु शब्दादिविषयकैकत्वप्रत्ययेनैव प्रकृतैकत्वप्रत्ययस्य सिद्धिसंभव इत्याशङ्कतेइन्द्रियान्तरेति / परिहरति- नेति, परिहारहेतुमाह- विशेषेति, प्रधानप्रत्ययो हि अतस्मिंस्तदितिप्रत्ययस्य दृष्टान्तः= साधको भवति तत्र परमाणुष्वेकत्वप्रत्ययस्य किं शब्दादिविषयक एकत्वप्रत्ययो दृष्टान्तः किं वा स्थाणौ पुरुषत्वप्रत्ययो दृष्टान्त इति दृष्टान्तव्यवस्था न संभवति- विशेषहेतोः= दृष्टान्तव्यवस्थापकहेतोरभावात् तथा च स्थाणौ पुरुषत्वप्रत्ययस्य दृष्टान्तत्वे तद्वत् परमाणुष्वेकत्वप्रत्ययोऽतस्मिंस्तदिति प्रत्ययः स्यात् तत्र हि प्रधानप्रत्ययापेक्षा प्राप्ता प्रधानप्रत्ययेन चावयवी सिध्यतीति पूर्वोक्तदोषस्तदवस्थ एव, शब्दादिविषयकैकत्वप्रत्ययस्य दृष्टान्तत्वे चाऽवयविन्येकत्वप्रत्ययस्याऽपेक्षा न संभवति तस्याऽतस्मिंस्तदितिप्रत्ययत्वाभावात् किं तु शब्दादिविषयकैकत्वप्रत्यय एव दृष्टान्त इत्यत्र विशेषहेतुः= प्रमाणं नास्तीति नावयविप्रत्याख्यानमुपपद्यते इत्यर्थः / पूर्वपक्षं ब्याचष्टे- श्रोत्रादीति, अनेकस्मिन्नेकप्रत्ययस्य= अनेकेषु परमाणुष्वेकत्वप्रत्ययस्य शब्दादिविषयक एकत्वप्रत्ययः प्रधानम्= साधको न त्ववयविन्येकत्वप्रत्ययो येन तस्मादवयविसिद्धिः स्यादित्यर्थः / अत्र दृष्टान्ताव्यवस्थादोषमाह- एवं चेति, एवम् शब्दादिष्वेकत्वप्रत्ययस्य प्रधानत्वस्वीकारे / दृष्टान्ताव्यवस्थायां हेतुमाह-विशेषेति / दृष्टान्ताव्यवस्था प्रदर्शयति- अणुष्विति, य एकत्वप्रत्ययः स किमित्येवमन्वयः। द्वितीयकल्पमाह- अथेति, अर्थस्यप्रकृतैकत्वप्रत्ययविषयस्य, तथाभावात्= एकत्वात् , तथा च प्रथमकल्पे प्रधानप्रत्ययापेक्षायामुक्तरीत्याऽवयविसिद्धिः, द्वितीयकल्पेपि च प्रकृतैकत्वप्रत्ययविषयस्यैकत्वं प्राप्तम् एकत्वं चानेकेषु परमाणुषु न संभवतीति प्रकृतैकत्वप्रत्ययविषयत्वमेकत्वविशिष्टस्यावयविन एव स्वीकार्यमित्यवयविसिद्धिर्जातेति दृष्टान्तकल्पद्वयेप्यवयवी सिध्यत्यवेत्यर्थः / पूर्वपक्षिमतासिद्धिमाह-विशेषेति, विशेषहेतोः= दृष्टान्तव्यवस्थापकहेतोः परिग्रहम्= प्रदर्शनं विना, यथा वह्निमानित्यत्र जलहृदमहानसयोर्द्वयोरपि दृष्टान्तत्वापत्तौ वह्निसंशयो जायते तथा प्रकृतेपि प्रदर्शितदृष्टान्तद्वयेन संचितपरमाणुविषयकैकत्वप्रत्यये तस्मिंस्तदितिप्रत्ययत्वस्य संशयो जायते न तु व्यवस्थेत्यर्थः / किं च शब्दगन्धादीनामप्यणुभूतानामिन्द्रियग्राह्यत्वासंभवादिन्द्रियग्राह्याणामणुसमुदायभूतत्वमेव वक्तव्यं तथा च गन्धादीनामपि घटादिवत् परमाणुसंचयरूपत्वं प्राप्तं तथा च गन्धादिष्वपि योऽभेदप्रत्ययः= एकत्वप्रत्ययः सोऽनेकस्मिन्नेकत्वप्रत्यय एवेति अतस्मिंस्तदितिप्रत्यय एव संजातस्तथा च तत्रापि उक्तप्रधानप्रत्ययापेक्षा प्राप्तेत्यवयवी सिध्यत्येव, तत्र परमा