________________ 130 . प्रसन्नपदापरिभूषितम् / [2 अध्याये. १आह्निकेएकत्वबुद्धिस्तस्मिंस्तदितिप्रत्यय इति विशेषहेतुः- महदिति प्रत्येन सामानाधिकरण्यात् / 'एकमिदं महच्च' इत्येकविषयौ प्रत्ययौ समानाधिकरणौ भवतस्तेन विज्ञायते- यन्महत् तदेकमिति / अणुसमूहातिशयग्रहणं महत्प्रत्यय इतिचेत् ? सोयमऽमहत्स्वणुषु महत्प्रत्ययोऽतस्मिंस्तदितिप्रत्ययो भवतीति / किं चातः 1 अतस्मिंस्तदितिप्रत्ययस्य प्रधानापेक्षित्वात् प्रधानसिद्धिरिति= भवितव्यं महत्येव महत्मत्ययेनेति // अणुः शब्दो महानिति च व्यवसायात् प्रधानसिद्धिरितिचेत् ? न- मन्दतीव्रताग्रहणमियत्तानवधारणाद् यथा ;व्ये / णुष्वेकत्वप्रत्ययस्य तस्मिंस्तदितिप्रत्ययत्वसाधने गन्धादयः= गन्धादिविषयकैकत्वप्रत्यय उदाहरणं न संभवति- तस्मिंस्तदितिप्रत्ययत्वाभावादित्याह- कुम्भवदिति / उक्तमन्यत्रातिदिशति- एवमिति, महत्परिमाणं संयोगः स्पन्दो गोत्वादिजातिश्च प्रत्येकं परमाणुषु न संभवतीति तदाश्रयोऽवयवी स्वीकार्य इत्याशयः, स्पन्दग्रहणाथै स्पन्दाश्रयग्रहणमावश्यकम्- धर्मिग्रहणं विना धर्मग्रहणानुपपत्तेस्तत्र परमाणोस्तु प्रत्यक्षं न संभवतीति 'स्पन्दते' इतिस्पन्दप्रत्यये स्पन्दाश्रयत्वेनाऽवयविनः प्रत्ययः प्राप्त इति स्पन्दप्रत्ययेनाऽवयविसिद्धिर्विज्ञेया अन्यदग्रिमभाष्ये स्पष्टमेव, पूर्वपक्षी एवम्= एकत्वप्रत्ययवत् परिमाणादिविशेषप्रत्ययान् प्रत्यपि अनुयोक्तव्यः= प्रष्टव्यः- महत्परिमाणादिप्रत्ययविषयः क इति, तेषु= परिमाणादिप्रत्ययेष्वपि एवम्= एकत्वप्रत्यये इव अवयविसिद्धेः प्रसङ्गः= आपत्तिरस्ति वक्ष्यमाणरीत्येत्यन्वयः // ____ परिमाणप्रत्ययेनाऽवयविसिद्धिं प्रदर्शयति- एकत्वेति, 'एकमिदम् ' इत्येकत्वप्रत्ययो नाऽतस्मिस्तदितिप्रत्ययः किं तु तस्मिस्तदितिप्रत्यय एव महदितिप्रत्ययेन= महत्त्वप्रत्ययेन= 'एकमिदं महत इतिसामानाधिकरण्यात्= एकत्वप्रत्ययस्य महत्त्वप्रत्ययस्य चैकविषयकत्वात् तत्र परमाणुषु महत्त्वासंभवात् अवयविनि च संभवात् अवयव्येव ‘एकमिदं महत्' इतिप्रत्ययस्य विषयस्तस्यैकत्वाच्चैकत्वप्रत्ययस्तस्मिस्तदितिप्रत्यय एवेत्ययमवयविसिद्धौ विशेषहेतुरित्यर्थः / व्याचष्टे- एकमिदमिति, एकत्वप्रत्ययस्य महत्त्वप्रत्ययस्य चैकविषयकत्वाभावे सामानाधिकरण्यं न स्यात् / स्वाभिप्रायमाह- तेनेति, तेन= सामानाधिकरण्येन / ननु परमाणुसमूहस्य यदतिशयग्रहणम्= आधिक्यग्रहणं तदेव महत्त्वप्रत्ययो न त्ववयविग्रहणं येनावयविसिद्धिः स्यात्. आधिक्यग्रहणेपि महत्त्वप्रत्ययो भवति यथा वृष्टावित्याशङ्कतेअणुसमूहेति / उत्तरमाह- सोयमिति, यदि महत्त्वप्रत्ययः परमाणुविषयकस्तदा परमाणुषु महत्त्वाभावात् महत्त्वप्रत्ययोऽतस्मिंस्तदितिप्रत्ययो जात इत्यन्वयः / अत्र पूर्वपक्षी स्वानिष्टं जिज्ञासते- किं चात इति / उत्तरमाह- अतस्मिन्निति, प्रधानसिद्धिः= प्रधानमहत्त्वप्रत्ययसिद्धिर्जाता. प्रधानसिद्धिस्वरूपमाह- भवितव्यमिति, अतस्मिंस्तदितिप्रत्ययरूपस्य परमाणुविषयकमहत्त्वप्रत्ययस्य प्रधानं हि महद्विषयो महत्त्वप्रत्ययस्तस्य सिद्धिर्जाता- यतस्तेन विना परमाणुविषयको महत्त्वप्रत्ययो न संभवति- अतस्मिस्तदितिप्रत्ययरूपत्वात् तत्र महद्विषयकमहत्त्वप्रत्ययेन महान पदार्थः सिद्धः महत्त्वं च परमाणुषु न संभवत्तीति अवयव्येव महान् वक्तव्य इत्येवं महत्परिमाणप्रत्ययविशेषेणावयवी सिद्ध इत्यर्थः // ननु परमाणुविषयकोऽतस्मिंस्तदितिप्रत्ययरूपो यो महत्वप्रत्ययः प्रदर्शितस्तस्यावयविविषयको महत्त्वप्रत्यय एव प्रधानम्= प्रधानप्रत्ययोस्तीति राजाज्ञा नास्ति येन तस्मादवयवी सिध्येत् किं तु 'अणुः शब्दः 'महान् शब्दः' इति व्यवसाय: प्रत्ययो भवतीति 'महान् शब्दः' इतिप्रत्यय एव प्रधानमिति सिद्धम् अयं च प्रत्ययो नाऽवयविविषयको येनावयवी सिध्येदित्याशङ्कते- अणुरिति,