________________ अवयविसाधनम् ] न्यायभाष्यम्। 131 'अणुः शब्दोऽल्पो मन्दः' इत्येतस्य ग्रहणम् 'महान् शब्दः पटुस्तीवः' इत्येतस्य ग्रहणम् , कस्मात् ? इयत्तानवधारणात्= न ह्ययम् 'महान् शब्दः' इतिव्यवस्यन् 'इयानयम् / इत्यवधारयति यथा बदरामलकबिल्वादोनि / 'संयुक्ते इमे' इति च द्वित्वसमानाश्रयप्राप्तिग्रहणम् // द्वौ समुदायावाऽऽश्रयः संयोगस्येतिचेत् ?. कोयं समुदायः ? प्राप्तिरनेकस्य ? अनेका वा प्राप्तिरेकस्य समुदाय इतिचेत् ? प्राप्तेरग्रहणं प्राप्त्याश्रितार्योः / / 'संयुक्ते इमे वस्तुनी' इति नात्र द्वे प्राप्ती संयुक्ते गृह्यते // 'अणुः शब्दो महान् शब्दः' इत्यन्वयः / एतत् प्रत्याचष्टे- नेति / परिहारहेतुमाह- मन्देति, यथा द्रव्ये= द्रव्यस्य दूराद् इयत्तायाः= तत्परिमाणस्यानवधारणात् ' अणुरयम्' किं वा 'महानयम्' इति प्रत्ययो जायते तथा शब्दस्यापीयत्ताया अनवधारणादेव मन्दतीव्रताग्रहणम्- ' अणुः शब्दो महान् शब्दः' इति प्रत्ययो भवति तथा च शब्दविषयकमहत्त्वप्रत्ययस्यापीयत्तानवधारणमूलकत्वेनाऽतस्मिंस्तदितिप्रत्ययरूपत्वमेव प्राप्तं ततश्च नायं प्रधानं भवितुमर्हति किं त्ववयविषयक एव महत्वप्रत्ययः प्रधानं स्यात् तेन चावयवी सिद्ध एवेत्यर्थः / उत्तरवाक्येत्र मन्दशब्दोणुत्वपरस्तीत्रशब्दो महत्त्वपरः, तीव्रता महत्त्वम् / मन्दतीव्रताग्रहणम्= शब्देऽणुत्वमहत्त्वग्रहणम्- ' अणुः शब्दो महान शब्दः' इति / व्याचष्टेअणुरिति, अणुः= अल्पः= मन्द इति पर्यायशब्दाः। महान् पटुः= तीव्रः, इति च, अणुत्वादीनां शब्देऽसंभवात् मन्दस्तीत्रइत्यादिव्याख्यानम् / शब्दे महत्त्वादिग्रहणकारणं जिज्ञासते- कस्मादिति / तादृशकारणमाह- इयत्तेति / इयत्तानवधारणमाह- नहीति, अयम्= महत्त्वादिवेत्ता, यथा बदरादिकम् 'इयत् / इत्यवधारयति तथा 'महान् शब्दः' इति व्यवस्यन्नपि ' इयानयं शब्दः' इति नावधारयतीति इयत्तानवधारणादेव शब्दे महत्त्वादिप्रत्ययो जायते इतीयत्तानवधारणमूलकत्वान्नायं प्रधानं भवितुमर्हतीति अवयविविषयकमहत्त्वप्रत्यय एव प्रधानं स्यात् तेन चावयवी सिद्ध इत्यर्थः / संयोगप्रत्ययेनावयविसिद्धि प्रदर्शयति- संयुक्ते इति, 'संयुक्ते इमे' इति द्वित्वसमानाश्रयायाः द्वित्वसमानाधिकरणायाः प्राप्तेःसंयोगस्य ग्रहणमस्ति तत्र द्वित्त्वं द्वयोरेव भवति परमाणुद्वयस्य च प्रत्यक्षं न संभवतीत्येतादृशसंयोगप्रत्ययविषयत्वमवयविद्वयस्यैव स्वीकार्यम्- प्रत्यक्षयोग्यत्वादिति संयोगप्रत्ययेनाप्यवयवी सिद्ध इत्यर्थः / ननूक्तस्य द्वित्वसमानाधिकरणसंयोगस्य द्वौ परमाणुसमूहावाश्रयो नावयवी येन तादृशसंयोगप्रत्ययेनावयवी सिध्येदित्याशङ्कते- द्वाविति / उक्तवाक्यस्य स्पष्टार्थत्वात् व्याख्यानं परित्यज्य समुदायपदार्थ पृच्छति- कोयमिति, भाष्यमिदमसंगतमशुद्धं वा जातमिति विज्ञेयम् / अनेकस्य प्राप्तिः= संयोग एव समुदायः किं वा एकस्यानेका प्राति:= संयोगः समुदाय इत्यन्वयः / अत्र- " कोयं समुदायः ? किमनेकः समुदायी ? उताऽनेकस्य प्राप्तिः? इति, अनेकस्य प्राप्तिः समुदाय इतिचेत्, 'प्राप्ती प्राप्ते' इति प्रत्ययः स्यादिति, किं कारणम् ? समुदायस्य प्राप्तित्वेनाभ्युपगमात् , 'इमे वस्तुनी संयुक्ते' इति च न स्यात् / अथाऽनेकः समुदायी समुदायः ? द्वित्वेन सामानाधिकरण्यं, न स्यात्= 'संयुक्ते इमे वस्तुनी' इति द्वित्वसमानाधिकरण: प्रत्ययो न स्यात् " इति वार्तिकम् / पूर्वत्र प्राप्तेरेव समुदायत्वात् प्राप्ती इति द्विवचनम् , उत्तरत्र समुदायस्यैकत्वेन द्वित्वासंभव इतिविभावनीयम् / . द्वयोरपि कल्पयोर्दोषमाह- प्राप्तेरिति, उक्तकल्पद्वयेन प्राप्तिः= संयोग एव समुदाय इति प्राप्तं तत्र समुदायस्य संयोगाश्रयत्वे प्राप्तेरेव संयोगाश्रयत्वं प्राप्तं न च प्रात्याश्रिताया:= संयोगाश्रितायाः प्राप्तेः= संयोगस्य ग्रहणं भवति- संयोगस्य संयोगवृत्तित्त्वाभावादित्यर्थः / व्याचष्टे- संयुक्ते इति, 'संयुक्ते इमे वस्तुनी ' इत्यत्र द्वे प्राप्ती संयुक्ते= द्वौ संयोगौ संयुक्तौ न गृह्यते इत्यन्वयः, 'संयुक्ते'