________________ 132 प्रसन्नपदापरिभूषितम्- [2 अध्याये. १आहिकेअनेकसमूहः समुदाय इतिचेत् ? न- द्वित्वेन सामानाधिकरण्यस्य ग्रहणात् / 'द्वाविमौ संयुक्तावौँ' इति ग्रहणे सति नाऽनेकसमूहाश्रयः संयोगो गृह्यते न च दुयोरण्वोहणमस्ति तस्मान्महती द्वित्वाश्रयभूते द्रव्ये संयोगस्य स्थानमिति // प्रत्यासत्तिः प्रतीघातावसाना संयोगो नार्थान्तरमितिचेत् ? न- अर्थान्तरहेतुत्वात् संयोगस्य / / शब्दरूपादिस्पन्दानां हेतुः संयोगः- न च द्रव्ययोर्गुणान्तरोपजननमन्तरेण शब्दे रूपादिषु स्पन्दे च कारणत्वं गृह्यते तस्माद् गुणान्तरम् / इति द्विवचनान्तम् , यदि संयोगरूपा प्राप्तिरेव समुदायस्तदा संयोगस्य संयोगवृत्तित्वं प्राप्तं तेन संयोगयोः संयोग इति प्राप्तं न च द्वौ संयोगी संयुक्तो गृह्यते संयोगस्य संयुक्तद्रव्यमात्रवृत्तित्वेन संयोगवृत्तित्वाभावादिति न संयोगरूपा प्राप्तिः समुदायस्तथा च संयोगस्य समुदायद्वयवृत्तित्वासंभवादवयविद्वयवृत्तित्वमेव वक्तव्यमिति संयोगप्रत्ययेनाप्यवयवी सिद्ध इत्यर्थः // . नन्वनेकेषां परमाणूनां समूह एव समुदायस्तस्य च संयोगाश्रयत्वसंभवान्न पूर्वोक्तदोषापत्तिरित्याशङ्कते- अनेकेति / एतत् परिहरति-नेति / परिहारहेतुमाह- द्वित्वेनेति, 'द्वौ इमौ संयुक्तो' इत्येवं द्वित्वसामानाधिकरण्यस्य प्रतीयमानत्वादित्यन्वयः, द्वित्वं च नाऽनेकेषु परमाणुषु संभवति- तेषां बहुत्वात् नापि परमाणुसमूहे- तस्यैकत्वादिति न परमाणुसमूहस्य संयोगाश्रयत्वमुपपद्यते इति संयोगाश्रयभूतमवयविद्वयं स्वीकार्यमित्यर्थः / व्याचष्टे-द्वाविति, यदा 'द्वाविमौ संयुक्तौ पदार्थों ' इतिग्रहणं भवति तदा नाऽनेकपरमाणुसमूहाश्रयः संयोगो गृह्यते- अत्र संयोगाश्रयस्य द्वित्वबोधनात् परमाणुसमुहे च द्वित्वासंभवात्- तस्यैकत्वात् / न चापि 'द्वाविमौ ' इत्यत्र द्वयोः परमाण्वोर्ग्रहणं संभवतिपरमाणुद्वये द्वित्वसंभवेपि परमाणुद्वयस्य प्रत्यक्षासंभवादित्याह- न चेति / उपसंहरति- तस्मादिति, 'द्वाविमौ ' इत्यत्र महत्त्वविशिष्टे द्वित्वाश्रयभूते च द्रव्ये= अवयविनावेव संयोगस्य स्थानम्= आश्रयः संभवत इति संयोगप्रत्ययेनाप्यवयवी सिद्ध इत्यर्थः // ननु न भवदभिमतः संयोगो येन स परमाणुसमूहे नोपपद्येत परमाणुसमूहस्य च संयोगाश्रयत्वं न स्यात् किं तु प्रतीघातावसाना= आघातनाश्या द्वैधीभावनाश्या वा प्रत्यासत्तिः= अव्यवहितसामीप्यमेव संयोगो न त्वर्थान्तरम्= भवदभिमतो गुणस्वरूपः, एतादृशा प्रत्यासत्तिश्च परमाणुसमूहेपि संभवतीति न संयोगाश्रयत्वेनावयविस्वीकारापत्तिरित्याशङ्कते- प्रत्त्यासत्तिरिति / परिहरति- नेति / परिहारहेतुमाह- अर्थान्तरेति, मदभिमतस्य संयोगस्य गुणभूतस्य पदार्थान्तरहेतुत्वात् यथा भेरीदण्डसंयोगेन शब्दो जायते पटरूपादिकमपि तन्तुसंयोगं विना न संभवति वृक्षस्पन्दे च वायुसंयोगः कारणमस्ति तत्र संयोगं विना शब्दाद्युत्पत्तिर्न स्यात् अस्ति च शब्दागुत्पत्तिरिति प्रत्यासत्त्यऽतिरिक्तो गुणभूतः संयोगः स्वीकार्यस्तथा च तादृशसंयोगाश्रयत्वेनावयंव्यपि स्वीकार्य:- प्रत्यासत्तिमात्रेण शब्दाद्युत्पत्तेरदर्शनादित्यर्थः / व्याचष्टे- शब्देति, संयोगस्य शब्दादिहेतुत्वं प्रतिपादितमेव / विपक्षे बाधकमाह- न चेति, द्वयोर्द्रव्ययोर्गुणान्तरस्य= संयोगस्य उपजननमन्तरेण= उत्पत्ति विना शब्दादिकारणत्वं न गृह्यते इत्यन्वयः, शब्द रूपादिषु स्पन्दे चेति सप्तम्यर्थों निरूपितत्वं शब्दादिनिरूपितं कारणत्वमित्यर्थः, यदि भेरीदण्डयोरेव शब्दकारणत्वं स्यात्तदा भेरीदण्डसंयोगं विनापि प्रत्यासत्तिमात्रेण शब्दो जायेत न चैव आयते शब्दः प्रत्यासत्तिमात्रेणेति मेरीदण्डसंयोगेनैव मेरीशब्दो जायते एवं रूपादिकं प्रत्यपि