________________ अवयविसाधनम् ] न्यायभाष्यम् / 133 प्रत्ययविषयश्चाऽर्थान्तरं तत्प्रतिषेधो वौं / 'कुण्डली गुरु: अकुण्डलश्छात्रः' इति संयोगबुद्धेश्च यद्यर्थान्तरं न विषयः ? अर्थान्तरप्रतिषेधस्तर्हि विषयस्तत्र प्रतिषिध्यमानवचन / 'संयुक्ते द्रव्ये' इति यदर्थान्तरमन्यत्र दृष्टमिह प्रतिषिध्यते तद् वक्तव्यमिति / द्वयोर्महतोराश्रितस्य ग्रहणाद् नाऽण्वाश्रय इति // जातिविशेषस्य प्रत्ययानुवृत्तिलिङ्गस्याप्रत्याख्यानम्. प्रत्याख्याने वा प्रत्ययव्यवस्थानुपपत्तिः। तत्तत्पदार्थसंयोगस्य हेतुत्वं विज्ञेयम्. तस्मात् संयोगो गुणान्तरम् अर्थान्तरम्= प्रत्यासत्त्यतिरिक्तः प्रत्ययविषयश्चेति संयोगप्रत्ययेन संयोगाश्रयत्वेनावयवी सिद्ध इत्याह- तस्मादिति // ___ संयुक्त इत्यादिसंयोगबुद्धेर्यदि संयोगलक्षणमर्थान्तरं न विषयस्तदा तत्प्रतिषेधः= अर्थान्तरप्रतिषेधो विषयः स्यात् तत्र तादृशप्रतिषेधेन प्रतिषेध्यं वक्तव्यं स्यादित्याह- प्रत्ययविषय इति / व्याचष्टेकुण्डलीति, कुण्डली= कुण्डलसंयोगवान् , अकुण्डल:= अकुण्डलसंयोगरहितश्छात्रः / अर्थान्तरम्= मदभिमतो गुणभूतः संयोगः / अर्थान्तरप्रतिषेधस्य संयोगबुद्धिविषयत्वे दोषप्रतिपादकवाक्यमवतारयति-तत्रेति / ___किं वा संयोगतदभावयोः प्रत्यक्षं प्रमाणयति- प्रत्ययेति, अर्थान्तरम्= उक्तप्रत्यासत्त्यतिरिक्त एव संयोगः 'कुण्डली गुरु:' इत्यादिप्रत्ययविषयो भवति- प्रत्यासत्तेः सामीप्यरूपत्वेन संयोगातिरिक्तत्वादित्यर्थः / संयोगाभावप्रत्यक्षमाह- तदिति, तत्प्रतिषेधः= संयोगप्रतिषेधोपि गृह्यते यथा- अकुण्डलश्छात्र इति तत्र प्रतिषेधस्य सप्रतियोगिकत्वनियमेन संयोग विना संयोगप्रतिषेधो नोपपद्यते इति प्रत्यासत्त्यतिरिक्तः संयोगः स्वीकार्य इत्येवमर्थो व्याख्येयः, अत्र पक्षे 'कुण्डली गुरुरकुण्डलश्छात्रः' इत्युदाहरणं मन्तव्यम् , संयोगबुद्धेश्वेत्यादिकं च वाक्यमग्रिमप्रधानवाक्यस्यावतरणभूतं विज्ञेयम् / . प्रतिषिध्येति- यदि संयोगबुद्धेरर्थान्तरप्रतिषेधो विषयस्तदा तादृशप्रतिषेधेन प्रतिषिध्यमानं वक्तव्यम्- प्रतिषेध्यं विना प्रतिषेधानुपपत्तेरित्यर्थः / व्याचष्टे- संयुक्ते इति, अन्यत्र दृष्टस्यैवान्यत्र प्रतिषेधो भवतीत्यभिप्रायेण " यदर्थान्तरमन्यत्र दृष्टम् " इत्युक्तम् , 'संयुक्ते द्रव्ये' इतिसंयोगबुद्धरर्थान्तरप्रतिषेधविषयकत्वे यदिह प्रतिषिध्यते तत् प्रतिषेध्यं वक्तव्यं न चात्र प्रतिषेध्यं वक्तुं शक्यम्- प्रतिषेधबोधकशब्दस्यात्राभावादिति न संयोगबुद्धेरर्थान्तरप्रतिषेधो विषय इत्यर्थः / अत्र संयोगबुद्धिर्व्यवधानप्रतिषेधविषयापि संभवति यथा 'सयुक्तौ घटौ' इत्यस्य 'व्यवधानरहितो घटौ' इत्यर्थसंभवादिति एतादृशार्थान्तरप्रतिषेधस्य संयोगबुद्धिविषयत्वम् “प्रतिषिध्यमानवचनम्" इत्यनेन निराक्रियते इत्याशयः प्रतीयते / स्वाभिप्रायमाह- द्वयोरिति, द्वयोर्महतोः= स्थूलयोर्द्रव्ययोराश्रितस्य= समवेतस्य संयोगस्य ग्रहणात् न संयोगो गृह्यमाणः परमाणुद्वयाश्रितः- परमाणोर्महत्त्वाभावेन ग्रहणासंभवात् . आश्रयिग्रहणं विना च तदाश्रितग्रहणासंभवादिति गृह्यमाणसंयोगाश्रयिभूतं तादृशद्रव्यं चावयव्येवेति सिद्धोऽवयवीत्यर्थः / प्रत्त्यासत्तेरपि संयोगत्वस्वीकारे न कश्चिद् दोष:- तादृशप्रत्यासत्तेरपि स्थूलद्रव्यद्वयनिष्ठाया एव ग्रहणसंभवेन तादृशप्रत्यासत्तिबुद्धधाप्यवयविसिद्धिसंभवादित्यनुसंधेयम् // ___ संप्रति गोत्वादिजातिप्रत्ययेनावयविसिद्धयर्थं प्रथमं जातिं साधयति- जातीति, * अयमपि गौरयमपि गौः' इत्येवं खण्डमुण्डादिगोव्यक्तिष्वनुगतं यद् गोत्वज्ञानं तदेव प्रत्ययानुवृत्तिः सा लिङ्गं साधकं यस्य तस्य प्रत्ययानुवृत्त्यभिव्यज्यमानस्य जातिविशेषस्येत्यन्वयः, गवां सकलासु व्यक्तिषु यद् ‘गौः /