________________ 134 प्रसन्नपदापरिभूषितम्- [2 अध्याये. १आह्निकेव्यधिकरणस्याऽनभिव्यक्तरधिकरणवचनमें / अणुसमवस्थानं विषय इतिचे? प्राप्ताप्राप्तसामर्थ्यवचनरें / किमप्राप्ते अणुसमवस्थाने तदाश्रयो जातिविशेषो गृह्यते ? अथ प्राप्ते? इति / अप्राप्ते ग्रहणमितिचेत् ? व्यवहितस्याणुसमवस्थानस्याप्युपलब्धिप्रसङ्गः= व्यवहितेऽणुसमवस्थाने तदाश्रयो जातिविशेषो गृह्यत / प्राप्ते ग्रहणमितिचेत् ? मध्यपरभागयोरप्राप्तौ अनभिव्यक्तिः / यावत् प्राप्तं भवति तावत्यभिव्यक्तिरितिचेत् ? तावतोऽधिकरणत्वमणुसमवस्थानस्ययावति प्राप्ते जातिविशेषो गृह्यते तावदस्याऽधिकरणमिति प्राप्तं भवति तत्रइतिज्ञानं जायते तद् गोत्वं विना न संभवति- व्यक्तीनां परस्परं भेदात् ‘गौः / इत्याकारकानुवृत्तज्ञानकारणत्वासंभवादिति प्रत्ययानुवृत्तिलिङ्गस्य जातिविशेषस्य गोत्वादेरप्रत्याख्यानम्= प्रत्यख्यानं न संभवति / विपक्षे बाधकमाह- प्रत्याख्याने वेति, यदि गोत्वादिजातिन स्वीक्रियेत तदा प्रस्ययस्य 'अयं गौः' इत्यादिज्ञानस्य व्यवस्था नोपपद्यते- गोत्वातिरिक्तस्य व्यवस्थापकधर्मस्यानुपलब्धेः, गव्येव 'गौः' इति ज्ञानं जायते न घटादौ इत्यत्र गोवृत्तिगोत्वमेव कारणम् उक्तं च- " गौः न स्वरूपेण गौर्नाम्यगौः गोत्वाभिसंबन्धात्तु गौः" इति, एवं घटादिष्वपि योज्यं तदनेन गोत्वादिजातिः सिद्धा तस्या अधिकरणत्वेनावयवी सिध्यति- परमाणूनां गोत्वाद्याश्रयत्वानुपपत्तेरित्यर्थः, गोत्वादिप्रतीतौ गोत्वाद्याश्रयस्य प्रत्यक्षं स्वीकार्य स्वातन्त्र्येण गोत्वादेः प्रत्यक्षानहत्वात् तत्र परमाणूनां प्रत्यक्षानहत्वात् गोत्वाद्याश्रयत्वेन प्रत्यक्षविषयत्वमवयविन एव स्वीकार्यमित्याशयः / जात्यावयविसिद्धिमाह- व्यधिकरणस्येति, गोव्यक्तिषु गोत्वस्यैवाभिव्यक्तिर्भवति न तु व्यधिकरणस्य घटत्वादेरपीति अभिव्यज्यमानगोत्वादेरधिकरणं वक्तव्यम्= स्वीकार्य यच्च गोत्वाद्यधिकरणं तदेवावयवीत्यर्थः / यदि व्यधिकरणस्यापि जातिविशेषस्य व्यक्तिष्वभिव्यक्तिः स्यात्तदा सर्वासां जातीनां * सर्वासु सजातीयाऽसजातीयासु व्यक्तिष्वभिव्यक्त्या 'अयं गौरेव' इत्येषा प्रत्ययव्यवस्था न स्यात् ततश्च जातिसिद्धिरपि न स्यात् न चैवमस्तोत्याशयेन व्यधिकरणस्यानभिव्यक्तेरित्युक्तम् / ननु अणुसमवस्थानम्= परमाणुसमूह एव विषयः= जात्याश्रयः किं वा जात्याश्रयप्रत्ययविषयो न त्ववयवी येनाऽवयवी सिध्येदित्याशङ्कते- अणुसमवस्थानमिति / अत्र चोद्यति- प्राप्तेति, अणुसमवस्थाने प्राप्ते= इन्द्रियसंनिकृष्टे सति किं वाऽप्राप्ते= इन्द्रियासंनिकृष्टेपि इन्द्रियस्य जातिग्रहणसामर्थ्यमस्तीति वक्तव्यमित्यर्थः / व्याचष्टे-किमिति / तदाश्रयः= परमाणुसमूहाश्रितः, स्पष्टमन्यत् / ____उक्तं प्रथमकल्पमनुवदति- अप्राप्ते इति, अणुसमूहे अप्राप्ते= इन्द्रियासंनिकृष्टे सति जातिग्रहणमितिचेदित्यर्थः / अत्र दोषमाह-व्यवहितस्येति, एवं हि व्यवहितस्यापि= इन्द्रियासंनिकृष्टस्यापि परमाणुसमूहस्योपलब्धिप्रसङ्गः= प्रत्यक्षं स्यात् . न चैवं संभवतीत्यर्थः / उक्तमेव विशदयति- व्यवहिते इति, व्यवहितस्य परमाणुसमूहस्य प्रत्यक्षे प्राप्ते तदाश्रयः= तदाश्रितो वृक्षत्वादिजातिविशेषोपि गृह्येत न चैवं व्यवधाने सति गृह्यते इत्यर्थः / द्वितीयकल्पमनुबदति-प्राप्ते इति, परमाणुसमूहे प्राप्ते= इन्द्रियसंनिकृष्ठे सति तदाश्रिता जातिह्यते इति नोक्तदोष इति चेदित्यर्थः / अत्र दोषमाह- मध्येति, इन्द्रियसंनिकों हि स्वाभिमुखभागेनैव संभवति न तु मध्यपरभागाभ्यामपि तथा च मध्यपरभागयोः अप्राप्ती= इन्द्रियसंनिकर्षाभावेन वृक्षत्वादिजातेरभिव्यक्तिर्न स्यात्- वृक्षत्वाभिव्यत्त्यर्थे वृक्षत्वाश्रयीभूतानां सर्वेषामवयवानामिन्द्रियेण ग्रहणस्यावश्यकत्वात् . सर्वेषां ग्रहणस्य चासंभवाजात्यभिव्यक्तिरनुपपन्नेत्यर्थः / ननु यावत्= यावान् वृक्षभागः प्राप्तः= इन्द्रियसंनिकृष्टस्तावत्येव जात्यभिव्यक्तिर्भवती