________________ अनुमानपरीक्षा] न्यायभाष्यम्। 135 एकसमुदाये प्रतीयमानेऽर्थभेदैः। एवं च सति योऽणुसमुदायो वृक्ष इति प्रतीयते तत्र वृक्षबहुत्वं प्रतीयेत= यत्र यत्र ह्यणुसमुदायस्य भागे वृक्षत्वं गृह्यते स स वृक्ष इति, तस्मात् समुदिताणुसमवस्थानस्यार्थान्तरस्य जातिविशेषाभिव्यक्तिविषयत्वाद् अवयव्यर्थान्तरभूत इति // 36 // // परीक्षितं प्रत्यक्षम् // अनुमानमिदानीं परीक्षते रोधोपघातसादृश्येभ्यो व्यभिचारादनुमानमऽप्रमाणम् // 37 // त्याशङ्कते- यावदिति / अत्र दोषमुपक्रमते- तावत इति, एवं हि यावति भागे जात्यभिव्यक्तिर्भवतीन्द्रियसंनिकृष्टे तावतोऽणुसमवस्थानस्य- परमाणुसमूहभागस्य जात्यधिकरणत्वं प्राप्तमित्यन्वयः / उक्तं विशदयति- यावतीति, यावति भागे प्राप्ते= इन्द्रियसंनिकृष्टे, तावत्= तावानेव भागः, अस्य= वृक्षत्वादिजातिविशेषस्याधिकरणमितिप्राप्तम् / अत्र दोषबोधकवाक्यमवतारयति- तत्रेति / ___ उक्तपक्षे दोषमाह- एक इति, एकस्मिन् परमाणुसमूहे प्रतीयमाने सति अर्थभेदः- प्रतीयमानपदार्थानेकत्वं स्यादित्यन्वयः, यथा वृक्षावयवसमूहे प्रतीयमाने तादृशवृक्षावयवेषु पूर्वभागानामिन्द्रियसंनिकर्षे सति तत्र वृक्षत्वजात्यभिव्यक्त्या तादृशपूर्वभाग एको वृक्षः परभागैरिन्द्रियसंनिकर्षे तत्रापि वृक्षत्वजात्यभिव्यक्त्या तादृशपरभागोऽपरो वृक्ष इत्येवं एकस्मिन्नेव वृक्षे वृक्षानेकत्वं स्यात्- वृक्षस्वाधिकरणस्यैव वृक्षपदार्थत्वात् यत्र वृक्षत्वाभिव्यक्तिस्तस्यैव च वृक्षत्वाधिकरणत्वात्. वृक्षत्वाभिव्यक्तेश्च प्रतिभागं स्वीकारात्. न चैकस्मिम् वृक्षे वृक्षानेकत्वं लोकसंमतमस्तीति दोष इत्यर्थः / ब्याचष्टे- एवं चेति, तत्र= वृक्षत्वेनाभिमते परमाणुसमूहे / उक्तं विशदयति- यत्रेति / वृक्षत्वेनाभिमतपरमाणुसमुदायस्य यस्मिन् यस्मिन् भागे इन्द्रियसंनिकृष्ट वृक्षत्वं गृह्येतोक्तरीत्या स स भागो वृक्षः स्यादित्येकस्मिन् वृक्षे वृक्षबहुत्वं प्राप्तं न चैवमस्तीति नायमपि पक्षो युक्तः / उपसंहरति- तस्मादिति, उक्तरीत्या परमाणुसमूहस्य जात्याश्रयत्वानुपपत्तेः, समुदिताणुसमवस्थानस्य= एकत्रीभूतावयवसमवेतस्य अर्थान्तरस्य अवयवसमुदायातिरिक्तस्य तत्रोत्पन्नस्यावयविन एव जातिविशेषाभिव्यक्तिविषयत्वात्= जात्यभिव्यक्त्याश्रयत्वात्= जात्याश्रयत्वसंभवात् जातिप्रत्ययेनाप्यर्थान्तरभूतः= अवयवसमुदायातिरिक्तोऽवयवी सिद्धः, तस्य चैकत्वात् समग्रस्य च जात्याश्रयत्वात् तदवयवानां तज्जात्याश्रयत्वाननीकाराच्च नोक्तदोषाणामा. पत्तिरित्यर्थः, तथा चावयविनः सत्त्वात् न तदेकदेशमात्रस्योपलब्धिर्भवति येन तदेकदेशेनावयविनोऽनुमानात् प्रत्यक्षस्यानुमानेऽन्तर्भावः स्यात् किं त्वऽवयविनोपि प्रत्यक्षमेव भवतीति प्रत्यक्षं प्रमाणान्तरमेव-प्रमाणान्तरत्वबाधकदोषाणां तत्र तत्र निराकृतत्वादित्यर्थ इत्येवम् "न प्रत्यक्षेण 31 // "नैकदेशोपलब्धिः 32" इतिसूत्राभ्यामुपसंहारो योजनीय इत्यलम् // 36 // ॥इति प्रत्यक्षप्रमाणपरीक्षा समाप्ता // अनुमानपरीक्षामारभते- अनुमानमिति / रोधेति- अत्रानुमानलक्षणावसरे उक्तान्युदारणान्यनुसंधेयानि / नद्याः पूर्णत्वेन लिनेन वृष्टेर्भूतत्वानुमानमुक्तं तत्राप्रभागे निरोधेनापि नद्याः पूर्णत्वं संभवतीति व्यभिचारि जातम्. पिपीलिकाण्डसंचारेण वृष्टेभविष्यत्त्वानुमानमुक्तं तत्र उपघातेनापि पिपीलिकाण्डसंचारो भवतीति स व्यभिचारी जातः, द्वितीयाध्यायप्रथमाहिकपञ्चदशसूत्रभाष्ये शब्देन वाद्यानुमानमुक्तं तत्र तच्छब्दसदृशोपि शब्दो भवति न च तत्सदृशशब्देन तदनुमानं संभवतीति शब्दो व्यभिचारी जात इति तत्र तत्र यथायथं रोधोपघातसादृश्येभ्योऽनया रीत्या व्यभिचारादनुमानमप्रमाणम्-साध्यासाधकत्वा