________________ 136 प्रसन्नपदापरिभूषितम- [2 अध्याये. १आह्निकेअप्रमाणमिति= एकदाप्यर्थस्य न प्रतिपादकमिति / रोधादपि नदी पूर्णा गृह्यते तदा च 'उपरिष्ठाद् वृष्टो देवः' इति मिथ्यानुमानम्. नीडोपघातादपि पिपीलिकाण्डसंचारो भवति तदा च 'भविष्यति दृष्टिः' इति मिथ्यानुमानमिति, पुरुषोपि मयूरवाशितमनुकरोति तदापि शब्दसादृश्याद् मिथ्यानुमानं भवति // 37 // __न- एकदेशवाससादृश्येभ्योऽर्थान्तरभावात् // 38 // नायमनुमानव्यभिचारः अननुमाने तु खल्वयमनुमानाभिमानः / कथम् ?. नाऽविशिष्टो लिङ्गं भवितुमर्हति, पूर्वोदकविशिष्टं खलु वर्षोदकं शीघ्रतरत्वं स्रोतसो बहुतरफेनफलपर्णकाष्ठादिवहनं चोपलभमानः पूर्णत्वेन नद्याः 'उपरि दृष्टो देवः' इत्यनुमिनोति नोदकद्धिमात्रेण / पिपीलिकाप्रायस्याण्डसंचारे 'भविष्यति वृष्टिः' इत्यनुमीयते न कासां चिदिति / ' नेदं मयूरदिति सूत्रार्थः / पूर्वपक्षसूत्रमिदम् / व्याचष्टे- अप्रमाणमिति, प्रतिपादकम्= साधकम् , अर्थस्य= साध्यस्य, यद्येकदाप्यनुमानं साध्यसाधकं स्यात्तदा प्रमाणं स्यादपि न चैवमस्तीत्यर्थः / सर्वदाऽर्थासाधकत्वमुपपादयति- रोधादित्यादिना, रोधात्= प्रवाहाभिमुखान्निरोधात् , उपरिष्टात्= पश्चाद्भागे, वृष्टेभूतत्वानुमानं मिथ्या भवतीत्यप्रमाणं भवतीत्यर्थः / नीडस्य= पिपीलिकानिवासस्थानस्योपघातादपि पिपीलिकाण्डसंचारो भवतीति तत्र वृष्टेभविष्यत्त्वानुमानं मिथ्या भवति तेन चाऽप्रमाणं भवतीत्यर्थः / वाशितमिति"तिरश्चां वाशितं रुतम्" इत्यमरः, पुरुषोपि मयूरशब्दसदृशशब्दं कदाचित् करोति तत्र तेनमयूरसत्तानुमानं शब्दसादृश्याजायमानं मिथ्या भवति तेनाप्रमाणं भवति- मिथ्याभूतस्य प्रामाण्यानुपपत्तेरिति नानुमानस्य प्रामाण्यं संभवति- उदाहृतस्थलेषु व्यभिचारस्य प्रदर्शनादित्यर्थः // 37 // उक्तपूर्वपक्षं परिहरति-नेति, अनुमानमप्रमाणं न किं तु प्रमाणमेवेत्यर्थः / परिहारहेतुमाहएकदेशेति, एकदेशरोधकृतपूर्णत्वापेक्षया नीडोपघातजत्रासकृतपिपीलिकाण्डसंचारापेक्षया सादृश्यानुयोगिभूतशब्दापेक्षया च अनुमितिहेतुत्वेनोक्तानां नदीपूर्णत्वपिपीलिकाण्डसंचारशब्दानाम् अर्थान्तरभावात्= भिन्नत्वादित्यन्वयस्तत्र रोधकृतपूर्णत्वापेक्षया वर्षाकृतं नद्याः पूर्णत्वं बहुदेशव्यापकत्वादिना विलक्षणं भवति तेनैष वृष्टेभूतत्त्वमनुमीयते न च तत्र व्यभिचारो भवति, बांसकृतपिपीलिकाण्डसंचारापेक्षया दृष्टिपूर्वकालिकः पिपीलिकाण्डसंचारः बाहुल्यधैर्यादिना विलक्षणो भवति तेनैव वृष्टभविष्यत्त्वमनुमीयते न च तत्र व्यभिचारो भवति, सदृशशब्दापेक्षया प्रधानः शब्दः किंचिद्विलक्षणो भवति तेनैव प्रधानशब्दकारिसत्त्वमनुमीयते न च तत्र व्यभिचारो भवतीति नानुमानमात्रस्याऽप्रामाण्यापत्तिः, प्रदर्शितपूर्णत्वादीनां हेत्वाभासत्वेन तत्र व्यभिचारेपि सर्वत्र दोषासंभवात्. नेदमुक्तं हेत्वाभासा न भवन्तीत्यर्थः / व्याचष्टे- नायमिति, अयम् पूर्वसूत्रप्रदर्शितः, किं त्वनुमानाभासस्य व्यभिचारः स च युक्त एवेत्यर्थः / स्वाभिप्रायमाह- अननुमाने इति, अननुमाने हेत्वाभासभूते रोधकृतपूर्णत्वादौ अनुमानाभिमानः= हेतुत्वाभिमान इतिहेतोस्तत्र व्यभिचार इति न स दोषायेत्यर्थः / उक्तं जिज्ञासते- कथमिति / उत्तरमाह- नेति, अविशिष्टः= विशेषरहितः पदार्थों हेतुर्न भवति न हि वह्नयनुमितौ धूममात्रं हेतुर्भवति किं त्वधोदेशसंलग्नो धूमस्तथा प्रकृतेपि विशिष्टानामेव पूर्णत्वादीनां हेतुत्वं भवति / वृष्टिभूतत्वानुमापकं विशिष्टं पूर्णत्वमाह- पूर्वेति, यदा पूर्वोदके वर्षोदकं प्राप्नोति स्रोतस:प्रवाहस्य शीघ्रतरत्वं बहुतरफेनादियुक्तत्वं चोपलभ्यते तदा नद्या एतादृशविशिष्टपूर्णत्वेन ‘उपरि वृष्टो देवः' इत्येवं वृष्टेभूतत्वमनुमिनोति नोदकवृद्धिमात्रेण तत्र च न व्यभिचार इति प्रमाणमनुमानम् / वृष्टिभविष्यत्त्वानुमापकं विशिष्टं पिपीलिकाण्डसंचारमाह- पिपीलिकेति, पिपीलिकाप्रायस्य= बहुत्रपिपीलिकासमुदायस्याण्डसंचारेण 'भविष्यति वृष्टिः' इत्यनुमीयते न तु कासांचित् पिपीलिकानामण्डसंचारेण तत्र च न व्यभिचार इति प्रमाणमनुमानम् / नेदमिति- प्रदर्शितस्थले पुरुषकृतशब्दे सादृश्यदोषात्