________________ वर्तमानकालसाधनम् ] न्यायभाष्यम् / 137 वाशितं तत्सदृशोयं शब्दः' इतिविशेषापरिज्ञानाद् मिथ्यानुमानमिति, यस्तु विशिष्टाच्छब्दाद् विशिष्टमयूरवाशितं गृह्णाति तस्य विशिष्टोऽर्थो गृह्यमाणो लिङ्गं यथा सर्पादीनामिति / सोयमनुमातुरपराधो नानुमानस्य योऽर्थविशेषेणानुमेयमर्थम् अविशिष्टार्थदर्शनेन बुभुत्सते इति // 38 // त्रिकालविषयमनुमानम्- त्रैकाल्यग्रहणादित्युक्तम् अत्रच वर्तमानाभावः- पततः पतितपतितव्यकालोपपत्तेः // 39 // वृन्तात् प्रच्युतस्य फलस्य भूमौ प्रत्यासीदतो यद् ऊर्ध्वं स पतितोऽध्वा तत्संयुक्तः पतितकालः, योऽधस्तात् स पतितव्योऽध्वा तत्संयुक्तः कालः पतितव्यकालः, नेदानीं तृतीयोऽध्या विद्यते यत्र पततीति वर्तमानः कालो गृह्यत. तस्माद् वर्तमानः कालो न विद्यते इति // 39 // तयोरप्यभावो वर्तमानाभावे- तदपेक्षत्वात् // 40 // मयूरशब्दत्वज्ञानं जायते 'नायं मयूरशब्दः' इतिविशेषज्ञानं च न जायते इतिहेतोस्तत्र मयूरसत्तानुमानस्य व्यभिचारो भवति न तु वस्तुतो मयूरशब्देन मयूरसत्तानुमानस्येति प्रमाणमेवानुमानं तदाहयस्त्विति, विशिष्टाच्छब्दात्= ध्वनिविशेषात् विशिष्टम्= वास्तविकं मयूरवाशितं गृह्णाति- इदं मयूरवाशितमेवेति तस्य पुरुषस्य विशिष्टोर्थः= वास्तविकमयूरशब्दो गृह्यमाणो लिङ्गम्= मयूरसत्तानुमापक भवति यथा सर्पादीनामिति- सर्पमयूरयोः परस्परं वैरात् सर्पस्य वास्तविकमयूरशब्दज्ञानं भवति न मयूरशब्दसदृशशब्दे मयूरशब्दत्वभ्रान्तिर्भवति सर्पश्च तादृशमयूरशब्देन तत्र मयूरसत्तामनुमाय ततोऽपसर्पति न तत्रानुमानव्यभिचारो भवतीति प्रमाणमेवानुमानमित्यर्थः / उपसंहरति- सोयमिति, सोयम्= पूर्वसूत्रप्रदर्शितो हेत्वाभासैरनुमानव्यापारोऽनुमातुरेवापराधो नानुमानस्याऽपराधः= व्यभिचारः / अनुमातुरपराधमाह- य इति, योऽनुमाता अर्थविशिषेण= विशिष्टेन नदीपूर्णत्वादिना हेतुनाऽनुमेयमर्थम् अविशिष्टार्थदर्शनेन= सामान्यनदीपूर्णत्वादिदर्शनेन बुभुत्सते= अनुमातुमिच्छति= अनुमिनोतीति अनुमातुरेवापराधः- सामान्यस्य नदीपूर्णत्वादेर्वृष्ट्याद्यनुमित्त्यऽहेतुत्वादित्यर्थः / नदीपूर्णत्वादेविशिष्टत्वं चोक्तमेव / तथा च प्रमाणमेवानुमाननमिति सिद्धम् // 38 // ___ अग्रिमसूत्रमवतारयति- त्रिकालेति, भूतभविष्यद्वर्तमानविषयकमनुमानमिति अस्याह्निकस्यैकादशसूत्रस्य समाधिभाष्ये उक्तं तत्र दोषमाह पूर्वपक्षी- वर्तमानेति, पततः पतनादिक्रियाविशिष्टस्य पतितकाल:= भूतकालः पतितव्यकाल:= भविष्यत्कालञ्चोपपद्यते न तु वर्तमानकालोपि येनानुमानस्य त्रिकालविषयत्वमुपपद्यतेत्यर्थः, अत्रानुमानस्य त्रिकालविषयत्वानुपपत्तिप्रदर्शनार्थं वर्तमानकालस्याभावः प्रतिपाद्यते- भूतभविष्यत्कालयोरेव ग्राह्यत्वाद् वर्तमानकालाभाव इति सूत्रार्थः / ब्याचष्टे- वृन्तादिति, " वृन्तं प्रसवबन्धनम् " इत्यमरः, वृन्तात्= स्वमूलभागात् प्रच्युतस्य भूमौ प्रत्यासीदतः= सामीप्यं गच्छतः= भूमिं पततः फलस्य यदूर्ध्वम् य ऊर्श्वभागः स पतितोऽध्वा तत्संयुक्तः= तादृशोर्ध्वाध्वसंयोगावच्छिन्नः काल: पतितकाल:= भूतकाल इत्युच्यते, यश्च तस्य फलस्य अधस्तात्= अधोभागः स पतितव्यः= गन्तव्योऽध्वा भवति तत्संयुक्तः= तादृशाधोध्वसंयोगावच्छिन्नः कालः पतितव्यकाल: भविष्यत्काल इत्युच्यते. एवमन्यत्राप्युदाहार्यम् / इत्येवं भूतभविष्यत्कालद्वयं प्रतिपाद्य वर्तमानकालाभावमाहनेदानीमिति, इदानीम्= एवमध्वनो द्वैविध्यमात्रसंभवात् तृतीयोऽध्वा न विद्यते यत्र पततीतिक्रियासंबन्धेन तत्संयुक्तो वर्तमानः कालो गृह्यतेत्यन्वयः / उपसंहरति- तस्मादिति, तथा चैवं वर्तमानकालाभावः सिद्ध इति कालत्रित्वासंभवादनुमानस्य त्रिकालविषयत्वमुक्तं नोपपद्यते इत्यनुमानदोष इत्यर्थः // 39 // ___ वर्तमानकालाभावं प्रत्याचष्टे- तयोरिति, वर्तमानाभावे= वर्तमानकालाभावे तयोः= प्रतिपादितयोर्भूतभविष्यत्कालयोरप्यभाव एव स्यात्- तयोस्तदपेक्षत्वात्= वर्तमानकालसापेक्षत्वात् वर्तमानकाल