________________ 138 प्रसन्नपदापरिभूषितम्- [2 अध्याये. १आह्निकेनाध्वव्यङ्गयः कालः, किं तर्हि ?, क्रियाव्यङ्गय = पततीति यदा पतनक्रिया व्युपरता भवति स कालः पतितकालः, यदोत्पत्स्यते स पतितव्यकालः, यदा द्रव्ये वर्तमाना क्रिया गृह्यते स वर्तमानः कालः, यदि चायं द्रव्ये वर्तमानं पतनं न गृह्णाति कस्य उपरमम् उत्पत्स्यमानतां वा प्रतिपद्यते ? / पतितः काल इति भूता क्रिया, पतितव्यः काल इति चोत्पत्स्यमाना क्रिया, उभयोः कालयोः क्रियाहीनं द्रव्यम्, अधः पततीति क्रियासंबद्धम्, सोयं क्रियाद्रव्ययोः संबन्धं गृह्णाति वर्तमानः कालः तदाश्रयो चेतरौ कालौ तदभावे न स्यातामिति // 40 // अथापि नातीतानागतयोरितरेतरापेक्षा सिद्धिः // 41 // यद्यऽतीतानागतौ इतरेतरापेक्षौ सिध्येताम् ? प्रतिपद्येमहि वर्तमानविलोपम्. नाऽतीतापेमाश्रित्यैव तत्पूर्वकालस्य भूतत्वं तत्परस्य च कालस्य भविष्यत्त्वमुपपद्यते नान्यथेति सिद्धो वर्तमानः काल इतिसूत्रार्थः / व्याचष्टे- नाध्वेति, यद्युक्तरीत्या कालोध्वव्यङ्ग्यः स्यात् तदा तृतीयस्याध्वनोऽभावाद् वर्तमानकालस्याभावः स्यादपि न च कालोऽध्वव्यङ्गय इत्यर्थः / कालव्यञ्जकं जिज्ञासते- किं तहीति, यदि कालो नाध्वव्यङ्गयस्तर्हि किंव्यङ्गयः ? इत्यर्थः। कालव्यञ्जकमाह-- क्रियेति / कालस्य क्रियाव्यङ्यत्वमुपपादयति- पततीति, यदा पततीतिशब्दबोध्या पतनक्रिया व्युपरता= समाप्ता भवति तदा सः= समाप्तपतनक्रियावच्छिन्नः= वर्तमानापेक्षया पूर्वः कालः पतितकालः= भूतकाल इत्युच्यते इति वर्तमानमपेक्ष्यैव भूतत्वं संभवतीति सिद्धो वर्तमानः काल इत्यर्थः, भविष्यत्कालमाह- यदेति, यदा पत. तीतिशब्दबोध्या पतनक्रिया उत्पत्स्यते तदा सः= भविष्यत्पतनक्रियावच्छिन्नः कालः पतितव्यकालःभविष्यत्काल इत्युच्यते इति वर्तमानमपेक्ष्यैव भविष्यत्त्वं संभवतीति सिद्धो वर्तमानः काल इत्यर्थः, अनेन कालस्य क्रियाव्यङ्गयत्वमप्युपपादितं वेदितव्यम्. भूतक्रियाव्यङ्मयो भूतकालः भविष्यक्रियाव्यङ्गयो भविष्यत्कालः वर्तमानक्रियाव्यङ्गयश्च वर्तमानकाल इत्यर्थः / विपक्षे बाधकमाह- यदीति, यदि पतनं वर्तमानं न स्यात्तदा कस्य= कथं तस्योपरमं भविष्यत्त्वं च जानीयात् ? तथा च वर्तमाने पतने सिद्धे तदवच्छिन्नो वर्तमानोपि कालः सिद्ध इत्यर्थः / पतितः= भूतः काल इत्युक्ते भूता क्रियेति बुध्यते. पतितव्यः काल इत्युक्ते उत्पत्स्यमाना क्रियेति बुध्यते क्रियाया एव भूतभविष्यत्त्वसंभवात् कालस्य सदा वर्तमानत्वादिति वार्तिकाशयः / उभयोरिति- उभयोरपि भूतभविष्यत्कालयोर्द्रव्यं क्रियाहीनं भवतितयोः कालयोः क्रियासत्त्वासंभवस्योक्तत्वादिति वर्तमानकाले एव क्रिया संभवतीति क्रियाश्रयः काल वर्तमानकाल एवेति सिद्धो वर्तमानकाल इत्यर्थः / वर्तमानकाले क्रियासंबन्धमाह- अध इति, वर्तमानकाले द्रव्यं क्रियासंबद्धं भवतीति तादृशवर्तमानक्रियावच्छिन्नस्य वर्तमानकालस्य ग्रहणं स्पष्टमेति सिद्धो वर्तमानः काल इत्यर्थः / उपसंहरति- सोयमिति, सोयं वर्तमानः कालः क्रियाद्रव्ययोः आधाराधेयभावं संबन्धं समवायसंबधं वा गृह्णाति= ग्राहयतीति तद्ग्राहकत्वादेव सिद्धः. वस्तुतस्तु पदार्थमात्रस्य ग्राहको वर्तमान एव कालः, इतरौ= अतीतानागतौ कालौ तदाश्रयौ= वर्तमानकालाधीनौ- वर्तमानकालसापेक्षत्वादिति तदभावे= वर्तमानकालाभावे अतीतानागतौ कालौ न सिध्येतामिति तत्सिद्धयर्थमपि वर्तमानः कालः स्वीकार्य एवेत्यर्थः // 40 // अग्रिमसूत्रमवतारयति- अथापीति, किं चेत्यर्थः / नेति-- अतीतानगतयोः कालयोः सिद्धिः इतरेतरापेक्षा= परस्परापेक्षया वर्तमानकालं विना न संभवति- इतरेतरापेक्षायामन्योन्याश्रयदोषादिति अतीतानागतकालयोः सिद्धिर्वर्तमानकालेनैव संभवतीति सिद्धो वर्तमानः काल इतिसूत्रार्थः / ब्याचष्टेयदीति, यद्यतीतानागतौ कालौ इतरेतरापेक्षौ= वर्तमानकालं विना सेध्येताम् = अतीतेनाऽनागतः अनागतेन चातीतः सिध्येत तदा वर्तमानविलोपम्= वर्तमानकालाभावं प्रतिपद्यमहि. न चैवमस्ति