________________ वर्तमानकालसाधनम् ] न्यायभाष्यम् / 139 क्षाऽनागतसिद्धिः नाप्यनागतापेक्षाऽतीतसिद्धिः / कया युक्त्या= केन कल्पेन अतीतः. कथमतीतापेक्षाऽनागतसिद्धिः? केन च कल्पेनाऽनागतः ? इति. नैतच्छक्यं निर्वक्तुम्= अव्याकरणीयमेतद् वर्तमानलोपे इति / ___ यच्च मन्येत- ह्रस्वदीर्घयोः स्थलनिम्नयोः छायातपयोश्च यथेतरेतरापेक्षया सिद्धिरेवम् अतीतानागतयोरिति, तन्नोपपद्यते- विशेषहेत्वभावात्. दृष्टान्तवत् प्रतिदृष्टान्तोपि प्रसज्यतेयथा रूपस्पर्शी गन्धरसौ नेतरेतरापेक्षौ सिध्यतः एवमतीतानागताविति नेतरेतरापेक्षा कस्य चित् सिद्धिरिति / यस्मादेकाभावेऽन्यतराभावादुभयाभावः। .. योकस्याऽन्यतरापेक्षा सिद्धिः? अन्यतरस्येदानी किमपेक्षा?. यद्यन्यतरस्यैकापेक्षा सिद्धिः? एकस्येदानी किमपेक्षा ?, एवमेकस्याभावे अन्यतरन्न सिध्यतीति उभयाभावः अतीतानागतयोर्वर्तमानाधीनत्वादित्यन्वयः / अतीतानागतयोरितरेतरापेक्षया सिद्धयभावमाह- नेति, अनागतकालसिद्धिरतीतापेक्षा= अतीतकालमात्रेण न संभवति. अतीतकालसिद्धिश्च अनागतापेक्षा अनागतकालमात्रेण न संभवति किं तु मध्यवर्तिनं वर्तमानकालमपेक्ष्येति सिद्धो वर्तमानकाल इत्यन्वयः / अतीतानागतकालसिद्ध्यर्थं वर्तमानकालापेक्षां किं वा वर्तमानकालं विनाऽतीतानागतयोरनुपपत्तिमाहकयेति, अस्यार्थमाह- केनेति, किं वा प्रकारजिज्ञासापरं पृथगेव वाक्यमिदम्। यथा हि मध्यगतपदाथै विना परापरभावो न निरूपयितुं शक्यते तथा वर्तमानलोपे= वर्तमानकालाभावे योऽतीत इत्युच्यते स केन प्रकारेणाऽतीत इत्युच्यते. अनागतसिद्धिश्च कथं तादृशातीतापेक्षेति. यश्चानागत इत्युच्यते स केन प्रकारेणानागत इत्युच्यते. कथं चातीतसिद्धिरनागतापेक्षेति सर्व न निर्वक्तुं शक्यमित्यन्वयः, उक्तं व्याचष्टेअव्याकरणीयमिति, व्याख्यातुमशक्यमित्यर्थः। यथा च मध्यस्थपदार्थेन परापरभावो निरूपयितुं शक्यते अन्यथा परस्पराश्रयदोषः स्यात् तथा मध्यगतवर्तमानकालेनैवातीतानागतयोनिरूपणं शक्यमित्यर्थः / ननु यथा ह्रस्वदीर्घयोः स्थलनिम्नयोः= उच्चनीचयोः छायातपयोः= तमःप्रकाशयोश्च परस्परापेक्षया सिद्धिर्भवति- एतस्माद् दीर्घादिदं ह्रस्वं ह्रस्वाच्चेदं दीर्घमित्यादि तथाऽतीतानागतयोरपि परस्परापेक्षया सिद्धिः संभवतीति न मध्यगतवर्तमानकालस्य स्वीकारापत्तिरिति चोदयति- यच्चेति / परिहरति- तन्नेति, परिहारहेतुमाह- विशेषेति, अतीतानागतयोः परस्परापेक्षया सिद्धौ विशेषहेतोरभावात. विशेषहेतुं विना दृष्टान्तमात्रेण साध्यसिद्धेरसंभवादित्यन्वयः, दृष्टान्तवत्= प्रदर्शित-हस्वदीर्घादिष्टान्तवत प्रतिदृष्टान्तः= परस्परापेक्षसिद्धेरभावबोधकोपि दृष्टान्तः प्रसज्यते= संभवति. तदेवाहयथेति. यथा रूपस्पशौं गन्धरसौ परस्परापेक्षया न सिध्यतः= न हि रूपेण रसस्य रसेण वा रूपस्य सिद्धिः संभवति तथाऽतीतानागतावपि परस्परापेक्षया न सिध्यत इति कस्यचित्= अतीतानागतयोर्मध्ये कस्यचिदपि परस्परापेक्षया सिद्धिर्न संभवतीति तत्सिद्धयर्थं वर्तमानकालः स्वीकार्य इत्यर्थः / वस्तुतस्तु नायं प्रतिदृष्टान्तो युक्तः- रूपादीनां किंचिन्निरूपितत्वाभावात् / इतरेतरापेक्षसिद्धरसंभवमाह- यस्मादिति, इतरेतरापेक्षसिद्धौ परस्पराश्रयदोषादवीतं विनाऽनागतम् अनागतं विना चातीतं न सिष्यतीति एकाभावे= अन्यतराभावेऽन्यतराभावादतीतानागतयोरुभयोरपि कालयोरभावः प्रसज्यते इत्यर्थः / उक्तं व्याचष्टे- यदीति, यद्येकस्य= अतीतस्य अन्यतरापेक्षा= अनागतापेक्षा सिद्धिः इदानीम्= तदा अन्यतरस्य= अनागतस्य किमपेक्षा सिद्धिरिति वक्तव्यं न चाऽतीतापेक्षा- अनागतसिद्धेः पूर्वमतीतस्याभावात्- अतीतस्य अनागताधीनत्वात् , यदि चान्यतरस्य= अनागतस्य एकापेक्षा= अतीतापेक्षा सिद्धिः इदानीम्= तदा एकस्य= अतीतस्य सिद्धिः