________________ 140 प्रसन्नपदापरिभूषितम्- [2 अध्याये. १आह्निकेप्रसज्यते / अर्थसद्भावव्यङ्ग्यश्चायं वर्तमानः काल:- 'विद्यते द्रव्यम्' 'विद्यते गुणः' 'विद्यते कर्म' इति // 41 // यस्य चायं नास्ति तस्य वर्तमानाभावे सर्वाग्रहणम्- प्रत्यक्षानुपपत्तेः॥ 42 // प्रत्यक्षम् इन्द्रियार्थसंनिकर्षजं. न चाऽविद्यमानम्= असद् इन्द्रियेण संनिकृष्यते, न चायं विद्यमानम्= सत् किंचिदनुजानातीति प्रत्यक्षनिमित्तं प्रत्यक्षविषयः प्रत्यक्षज्ञानं सर्व नोपपद्यते. प्रत्यक्षानुपपत्तौ तत्पूर्वकत्वाद् अनुमानागमयोरनुपपत्तिः सर्वप्रमाणविलोपे सर्वग्रहणं न भवतीति / उभयथा च वर्तमानः कालो गृह्यते-कचिदर्थसद्भावव्यङ्गयो यथा 'अस्ति द्रव्यम्' इति. कचित् क्रियासंतानव्यङ्गयो यथा 'पचति छिनत्ति' इति. नानाविधा चैकार्था क्रिया किमपेक्षेति वक्तव्यं न चाऽनागतापेक्षा- अतीतसिद्धेः पूर्वमनागतस्याभावात् अनागतसिद्धेरतीताधीनत्वादित्येवं विशेषरूपेण व्याख्येयम् / उपसंहरति- एवमिति, एवम्= उक्तरीत्याऽतीतानागतयोर्मध्ये एकस्याभावेऽन्यतरत् अन्यतराभावे एकश्च न सिध्यतीति वर्तमानकालं विना अतीतानागतयोरुभयोरपि कालयोरभावः प्रसज्यते / वर्तमानकालसिद्धिमाह- अर्थेति, अर्थस्य= पदार्थमात्रस्य सद्भावः= सत्ता वर्तमानकाले एव गृह्यते न त्वतीतानागतयोरपीति अर्थसद्भावव्यङ्गयोयं वर्तमानकाल इत्यर्थसद्भावस्वीकारे वर्तमानकालस्वीकारापत्तिरावश्यकी। उदाहरति- विद्यते इति, 'द्रव्यं विद्यते' इतिद्रव्यसत्ताऽतीतानागतयोर्न ज्ञायते किं तु वर्तमानकाले इति सिद्धो वर्तमानकाल इत्यर्थः / एवमन्यत्रापि योज्यम् // 41 // अग्रिमसूत्रमवतारयति- यस्येति, यस्य मते अयम्= वर्तमानकालो नास्ति तस्य मते पदार्थग्रहणमेव नोपपद्यते इत्येवं सूत्रार्थेनान्वयः / वर्तमानेति- वर्तमानकालाभावे प्रत्यक्षं नोपपद्यते- प्रत्यक्षस्य वर्तमानमात्रग्राहकत्वात् उक्तं च “संबद्धं वर्तमानं च गृह्यते चक्षुरादिना" इति, प्रत्यक्षाभावे च सर्वग्रहणानुपपत्तिः- अनुमानादीनामपि प्रमाणानां प्रत्यक्षपूर्वकत्वेन प्रत्यक्षं विनानुपपत्तेरिति सूत्रार्थः, सर्वग्रहणाभावे प्रत्यक्षानुपपत्तिः प्रत्यक्षानुपपत्तौ च वर्तमानकालाभावो हेतुरिति सूत्रान्वयः / व्याचष्टेप्रत्यक्षमिति, प्रत्यक्षं हीन्द्रियार्थसंनिकर्षजन्यं भवति इन्द्रियसंनिकर्षश्च विद्यमानमात्रेण संभवति न त्वविद्यमानेन= अवर्तमानेन= असता, अयं च पूर्वपक्षी विद्यमानम्= सत= वर्तमानं किंचिदपि न स्वीकरोति-वर्तमानकालास्वीकारात् तथा च वर्तमानकालाभावेन पदार्थस्य विद्यमानत्वासंभवात् प्रत्यक्षनिमित्तम्= इन्द्रियार्थसंनिकों नोपपद्यते- वर्तमानेनैवेन्द्रियसंनिकर्षसंभवात्. प्रत्यक्षविषयोपि नोपपद्यते- वर्तमानस्यैव प्रत्यक्षविषयत्वसंभवात्. प्रत्यक्षज्ञानमपि नोपपद्यते- प्रत्यक्षज्ञानस्य वर्तमानमात्रविषयकत्वादिति सर्व प्रत्यक्षनिमित्तादिकं नोपपद्यते, प्रत्यक्षानुपपत्तौ च अनुमानादीनामप्यनुपपत्तिःतेषां तत्पूर्वकत्वात्= प्रत्यक्षपूर्वकत्वात् ततश्चैवं प्रत्यक्षादिसर्वप्रमाणानामभावे प्राप्ते सर्वग्रहणम्= कस्यापि पदार्थस्य ग्रहणं न संभवतीति वर्तमानाभावे सर्वग्रहणाभावः प्राप्तः न चैवमस्तीति सर्वोपपत्त्यर्थ वर्तमानः कालः स्वीकार्य इत्यर्थः। .. ___ ग्रहणं विना पदार्थस्वीकारासंभवाद् वर्तमानकालग्रहणप्रकारमाह- उभयथेति, उभयथा= अर्थसद्भावेन क्रियासंतानेन च वर्तमानकालो गृह्यते, प्रथमप्रकारमाह- कचिदिति, उदाहरति- यथेति, 'अस्ति द्रव्यम्' इत्यत्र अस्तिपदबोध्यया द्रव्यसत्तया वर्तमानकालो व्यज्यते= गृह्यते- उक्तसत्ताया वर्तमानकालमात्रे संभवाद् अतीतानागतयोश्चासंभवादितिभावः / द्वितीयप्रकारमाह- कचिदिति, उदाहरति- यथेति, 'पचति' इत्यत्र क्रियासंतानेन= पाकक्रियापरम्परया वर्तमानकालो गृह्यते-- अत्रातीता