________________ वर्तमानकालसाधनम् ] न्यायभाष्यम् / 141 क्रियासंतानः क्रियाभ्यासश्च, नानाविधा चैकार्था क्रिया 'पचति' इति= स्थाल्यधिश्रयणम् उदकासेचनं तण्डुलावपनम् एधोपसर्पणम् अग्न्यभिज्वालनं दीघट्टनं मण्डस्रावणम् अधोवतारणमिति. छिनत्तीति क्रियाभ्यासः- उद्यम्योद्यम्य परशुं दारुणि निपातयन् छिनत्तीस्युच्यते // 42 // यच्चेदं पच्यमानं छिद्यमानं च तत् क्रियमाणं तस्मिन् क्रियमाणे कृतताकर्तव्यतोपपत्तेस्तूभयथा ग्रहणम् // 43 // नागतयोरप्रतीयमानत्वात् / क्रियासंतानपदार्थमाह-नानेति, नानाविधा= विविधावान्तरक्रियाविशिष्टा एकार्था= एकपदार्थविषया क्रिया क्रियासंतान इति क्रियाभ्यासश्चेत्युच्यते, प्रथमं क्रियासंतानमुदाहरतिपचतीति, पचतीतिक्रियासंतानस्यावान्तरक्रियाः आह- स्थालीत्यादिना, स्थाल्या अधिश्रयणम्= चुल्युपरिस्थापनम् उदकासेचनम्= स्थाल्यामुदकनिक्षेपः तण्डुलावपनम्= स्थाल्यां तण्डुलनिक्षेपः एधोप सर्पणम्- चुल्लो इन्भनसंयोजनम् अग्न्यभिज्वालनम् दीघट्टनम् स्थाल्यां दा परिभ्रामणम् मण्डनिस्सा रणम् ततः स्थाल्या अधोवतारणम् इत्याद्यवान्तरक्रियाः पाके भवन्तीति पचतीति क्रियासंतान इत्युच्यते सा च पाकक्रिया एकपदार्थविषयेति स्पष्टमेव- 'तण्डुलं पचति' इति / क्रियाभ्यासमुदाहरति- छिनत्तीति, अभ्यासः= पौनःपुन्यं तदाह- उद्यम्येति, परशोः पुनः पुनः दारुणि निपातनेन क्रियाभ्यासः प्राप्तः स एव 'छिनत्ति' इत्यनेन बोध्यते, निपातयन् चैत्रः 'छिनत्ति' इत्युच्यते इत्यन्वयः, तथा च क्रियासंतानेन क्रियाभ्यासेन च वर्तमान एव कालो गृह्यते नातीतोऽनागतो वा- उक्तक्रियासंतानक्रियाक्रियाभ्यासयोरपि वर्तमानकालमात्रे एव संभवादतीतानागतयोश्चासंभवादिति सिद्धो वर्तमानकाल इत्यर्थः / क्रियाभ्यासोप्येकार्थविषयक इति स्पष्टमेव अवान्तरक्रियाश्चात्र उद्यमननिपातनाद्या ग्राह्याः, पचतीत्यत्र अधिश्रयणाद्यवान्तरक्रियाणां पौनःपुन्यं नास्ति क्रियाभ्यासे छिनत्तीत्यत्र चोद्यमननिपातनाद्यवान्तरक्रियाणां पौनःपुन्यमस्तीति क्रियासंतानक्रियाभ्यासयोः परस्परं भेदः, लक्षणं चोक्तमुभयत्रैव समन्वेतीति विभावनीयम् // 42 // ___ अग्रिमसूत्रमवतारयति- यच्चेति, यत् पच्यमानं तण्डुलं यच्च छिद्यमानं काष्ठं तत् क्रियमाणम्= वर्तमानक्रियाविशिष्टमित्युच्यते तस्मिन् क्रियमाणे= क्रियाविशिष्टे सति= तत्कर्मकपाकादिक्रियायां प्रवृत्तायाम्= वर्तमानायां वर्तमानकालस्योभयथा ग्रहणं भवतीत्येवं सूत्रेण सहान्वयः / कृततेतिवर्तमाना हि पाकादिक्रिया क्रियासंतानः क्रियाभासश्चोच्यते तत्र काश्चित् स्थाल्यधिश्रयणादिरूपाः क्रियाः कृताः= जाता इति तासां कृतता काश्चित् दर्वीघट्टनादिरूपाः क्रियाः कर्तव्या इति तासां कर्तव्यतास्ति तथा चावान्तरक्रियाणां कृतत्वात् कर्तव्यत्वाञ्च तत्संतानरूपायाः वर्तमानपाकक्रियाया अपि कृतत्वम्= भूतत्वं कर्तव्यत्वम् भविष्यत्त्वं चोपपन्नं तादृशोपपत्तेस्तादृशवर्तमानक्रियाव्यङ्गयस्य वर्तमानकालस्य उभयथा= अतीतानागतकालाभ्यां संबद्धस्य असंबद्धस्य च ग्रहणं भवति तत्र ‘पचति / इत्यत्र संबद्धस्य ग्रहणं भवति- उक्तरीत्याऽत्र पाकक्रियाया वर्तमानाया अपि अवान्तरक्रियाद्वारा भूतत्वभविष्यत्त्वयोः संभवेन तत्संबन्धात् तद्व्यज्यमानस्य वर्तमानकालस्यापि भूतभविष्यत्त्वसंबन्धेनातीतानागतकालसंबद्धत्वं प्राप्तम् , एवमेव क्रियाभ्यासस्थलेपि बोध्यम्- तत्राप्यवान्तरक्रियाणामुद्यमननिपातनादीनां भूतभविष्यत्त्वसंभवात् / 'विद्यते द्रव्यम्' इत्यत्रातीतानागतकालयोः संबन्धाभावादतीतानागतकालाभ्यामसंबद्धः शुद्ध एव वर्तमानकालः प्रतीयते इति वर्तमानकालस्योभयथा ग्रहणं सिद्धमिति सूत्रार्थः / अत्र-"क पुनर्व्यपवृक्तस्य ? 'विद्यते द्रव्यम् / इत्यत्र हि केवलः शुद्धो वर्तमानोऽभिधीयते, 'पचति छिनत्ति' इत्यत्र संपृक्तः, कथम् ? काश्चिदत्र क्रिया व्यतीताः काश्चिदनागताः एका च वर्तमानेति // इतिवार्तिकम्।