________________ 142 प्रसन्नपदापरिभूषितम्- [2 अध्याये. १आह्निकेक्रियासंतानोऽनारब्धश्चिकीर्षितोऽनागतः कालः 'पक्ष्यति' इति. प्रयोजनावसानः क्रियासंतानोपरमोऽतीतः कालः 'अपाक्षीत्' इति. आरब्धक्रियासंतानो वर्तमानः कालः 'पचति' इति, तत्र या उपरता सा कृतता या चिकीर्षिता सा कर्तव्यता या विद्यमाना सा क्रियमाणता. तदेवं क्रियासंतानस्थः त्रैकाल्यसमाहारः 'पचति पच्यते' इति वर्तमानग्रहणेन गृह्यते- क्रियासंतानस्य ह्यत्राविच्छेदो विधीयते नारम्भो नोपरम इति / सोयमुभयथा वर्तमानो गृह्यते- अपवृक्तो व्यपक्तश्च अतीतानागताभ्याम्. स्थितिव्यङ्गया- 'विद्यते द्रव्यम्' इति. क्रियासंतानाऽविच्छेदाभिधायी च त्रैकाल्यान्वितः- 'पचति छिनत्ति' इति / अन्यश्च प्रत्यासत्तिप्रभृतेरर्थस्य विवक्षायां तदभिधायी बहुप्रकारो लोकेषूत्लेक्षितव्यः, तस्मादस्ति वर्तमानः काल इति // 43 // ___ व्याचष्टे- क्रियेति, उक्तः क्रियासंतानो यत्राऽनारब्धः चिकीर्षितः= भविष्यत्काले कर्तुमिष्टो भवति तत्राऽनागत: भविष्यत्कालः प्रतीयते यथा 'पक्ष्यति' इत्यत्र, यत्र क्रियासंतानस्य प्रयोजनावसानः फलनिष्पत्त्या उपरमः समाप्तिर्भवति तत्राऽतीतः= भूतः काल: प्रतीयते यथा 'अपाक्षीत् / इत्यत्र. यत्र च क्रियासंतान मारब्धो वर्तमानः अनुपरतश्च भवति तत्र वर्तमानः कालः प्रतीयते यथा'पचति' इत्यत्रेति त्रयाणामपि कालानां प्रतीयमानत्वेन सिद्धिर्जातेत्यन्वयः। अतीतानागतकालयोः क्रियाया उपरमानारम्भयोरेव संभवात् क्रियासत्त्वस्य चासंभवात् क्रियासत्त्वविशिष्टः कालो वर्तमानकाल इति सिद्धमित्याशयः / पचतीत्यत्र विशेषमाह- तत्रेति, तत्र पचतीतिक्रियासंताने या उपरता= उपरतता समाप्तता सा कृतता या चिकीर्षिता= चिकीर्षितता= भविष्यत्काले कर्तुमिष्टता सा कर्तव्यता या च विद्यमाना= विद्यमानता सा क्रियमाणता वर्तमानता अवान्तरक्रियाणामितिशेष इत्यन्वयः, वाक्यमिदमसंगतमिति अत्र 'या उपरतता सा कृतता या चिकीर्षितता सा कर्तव्यता या विद्यमानता सा क्रियमाणता' इत्येवं किं वा 'या उपरता सा कृता या चिकीर्षिता सा कर्तव्या या विद्यमाना सा क्रियमाणा' इत्येवं वक्तव्यमासीत् / उपसंहरति- तदेवमिति, एवम् उक्तरीत्या क्रियासंतानस्याऽवन्तरकृतकर्तव्यवर्तमानक्रियाविशिष्टत्वेन पचति / 'पच्यते' इत्यादौ क्रियासंतानस्थस्यैकाल्यसमाहारः- त्रिकालसमुच्चयो वर्तमानकालग्रहणेनैव गृह्यते इति सिद्धो वर्तमानकालः, वर्तमानकालं विना कालत्रित्वासंभवेन गृह्यमाणस्य त्रैकाल्यस्यासंभवात् , अत्र वर्तमानकालग्रहणे हेतुमाह-क्रियासंतानस्येति, अत्र 'पचति' इत्यादौ क्रियासंतानस्य= स्थाल्यधिश्रयणादिलक्षणक्रियासमुदायस्याऽविच्छेदः= वर्तमानता विधीयते= अभिधीयते इत्यत्र वर्तमानकालो गृह्यते न आरम्भः= भविष्यत्त्वं येन क्रियासंतानस्य भविष्यत्त्वेन भविष्यत्कालबोधः स्यात् नाप्युपरमो येनाऽतीतकालबोधः स्यादित्यन्वयः, अत्र "नारम्भः" इत्यत्र 'न अनारम्भः' इतिवक्तव्यमासीत्- अनारम्भे एव भविष्यत्कालबोधात् / सूत्रार्थमुपपादयतिसोयमिति, सोयम्= पचतीत्यादौ गृह्यमाणो वर्तमानकालो द्विधा गृह्यते यथा- अतीतानागतकालाभ्यामपवृक्तः= संबद्धः. अपवृक्तो न भवतीति व्यपवृक्तः असंबद्धश्चेति / व्यपवृक्तमुदाहरति-विद्यते इति, 'विद्यते द्रव्यम् / इत्यत्र द्रव्यस्थित्या वर्तमानकालो व्यज्यते स्थितिश्च नावान्तरक्रियाविशिष्टा क्रियासंतानरूपा येनात्रातीतानागतकालयोः प्रवेशः स्यादित्यत्र अतीतानागताभ्यामसंबद्ध एव शुद्धो वर्तमानकालो गृह्यते, अपवृक्तमुदाहरति-क्रियेति, क्रियासंतानस्याऽविच्छेदाभिधायी यः पचति' 'छिनत्ति' इत्यादिप्रयोगस्तत्र त्रैकाल्यान्वितो वर्तमानकालो गृह्यते- अत्र कासां चिदवान्तरक्रियाणां कृतत्वात् कासांचित् कर्तव्यत्वात् एकस्या वर्तमानत्वाञ्च त्रैकाल्यसमाहार इत्यतीतानागतकालाभ्यां संबद्ध एवात्र वर्तमानकालो गृह्यते इत्यर्थः, यथा 'पचति' इत्यादावऽवान्तरक्रियाद्वारा त्रैकाल्यसमाहारः संभवति तथा 'विद्यते' इत्यादौ न संभवति- अवान्तरक्रियाणामभावादिति 'विद्यते ' इत्यादि.