________________ 15 उपमानपरीक्षा] न्यायभाष्यम्। ( अथोपमानपरीक्षा) अत्यन्तप्रायैकदेशसाधादुपमानाऽसिद्धिः // 44 // अत्यन्तसाधादुपमानं न सिध्यति- न चैवं भवति 'यथा गौरेवं गौः' इति, प्रायस्साधापमानं न सिध्यति-न हि भवति 'यथाऽनडानेवं महिषः' इति, एकदेशसाधादुपमानं न सिध्यति- न हि सर्वेण सर्वमुपमीयते इति // 44 // प्रसिद्धसाधादुपमानसिद्धेर्यथोक्तदोषानुपपत्तिः॥४५॥ न साधर्म्यस्य कृत्स्नपायाल्पभावमाश्रित्योपमानं प्रवर्तते, किं तर्हि ?. प्रसिद्धसाधर्म्यात् स्थले अतीतानागतसंबन्धरहित एवं वर्तमानकालः प्रतीयते इतिविभावनीयम्। वर्तमानकालस्यान्यप्रकारानपि सूचयति- अन्य इति, प्रत्यासत्तिप्रभृते:= वर्तमानकालस्य सामीप्यसंबन्धमाश्रित्य पदार्थविवक्षायां सत्यां तदभिधायी प्रत्यासत्तिसंबद्धो बहुप्रकारो वर्तमानकालोऽस्ति स तु लोकेषु= व्यवहारात उत्प्रेक्षितव्यः= ज्ञातव्यः अत्र विस्तरभयानोच्यते इत्यन्वयः / अत्र- " अन्यश्च लोके प्रत्यासत्तिप्रभृते. रर्थस्य विवक्षायामनेकप्रकारो वर्तमानस्य प्रयोगः- कदाचिदयं वर्तमानमतीते प्रयुङ्क्ते आगतः सन् ब्रवीति- 'एष आगच्छामि ' इति, कदाचिदनागते प्रयुङ्क्ते यथा स्थितः सन् ब्रवीति- 'एष आगच्छामि। इति, एवमन्येषु प्रयोगेपूप्रेक्षितव्यमिति " इतिवार्तिकम् , एते च प्रयोगा वर्तमानसमीप्ये विज्ञेयाः तदेतत् " वर्तमानसामीप्ये " इति पाणिनिसूत्रे द्रष्टव्यम् / उपसंहरति- तस्मादिति, उक्तरीत्या वर्तमानकालः सिद्धस्तेन त्रैकाल्यं सिद्धम्- अतीतानागतयोः पूर्वपक्षिणा स्वीकृतत्वादेव तथा चानुमानस्य त्रैकाल्यविषयत्वमुक्तं सिद्धं पूर्वपक्षिकृता चानुमानस्य त्रैकाल्यविषयत्वानुपपत्तिः परास्तेत्यर्थः // 43 // . . // इत्यनुमानपरीक्षा समाप्ता // उपमानानुपपत्तिमाशङ्कते- अत्यन्तेति, उपमानप्रमाणमूलं हि साधर्म्यमेव तच्च साधर्म्य त्रिविधं संभवति- अत्यन्तसाधर्म्य प्रायस्साधर्म्यम् एकदेशसाधय च तदनेनत्रिविधेनापि साधम्र्येणोपमानं न सिध्यति- यतोऽत्यन्तसाधर्म्य हि गोर्गवैव संभवति तत्र नोपमानं प्रवर्तते न हि 'यथा गौस्तथा गौः। इत्येवं प्रयुज्यते, प्रायस्साधर्म्य तु वृषभमहिषयोरपि संभवति तत्रापि नोपमानं प्रवर्तते न हि 'यथा वृषभस्तथा महिषः' इत्येवं प्रयुज्यते, एकदेशसाधम्य तु सर्वस्य सर्वेण संभवति तत्रापि नोपमानं प्रवर्तते न हि सर्वेण सर्वमुपमीयते. न हि 'यथा गजस्तथा गवयः' इत्येवं प्रयुज्यते, गजगवययोश्च पशुत्वादिनैकदेशसाधर्म्य विज्ञेयं तथा च त्रिविधस्यापि साधर्म्यस्य उपमानप्रयोजकत्वाभावात् प्रयोजकान्तरासंभवाच्चोपमानप्रमाणं न सिध्यतीति सूत्रार्थः / व्याचष्टे- अत्यन्तेति, अत्यन्तसाधये हि सर्वावयवसाधर्म्यमेव तच्च तज्जात्यवच्छिन्नस्य तज्जात्यवच्छिन्नेनैव संभवति यथा गोर्गवा. गोगवययोश्च नात्यन्तसाधर्म्य येन तत्रोपमानं प्रवर्तेत / अत्यन्तसाधर्म्यस्योपमानाप्रयोजकत्वेनाऽत्यन्तसदृशयोरुपमित्यसंभवमुदाहरतिन चेति / प्रायस्साधये हि केषांचिदवयवानां साधर्म्यमेव तच्च महिषवृषभयोरपि संभवति-पुच्छविषाणाद्यनेकावयवसाम्यात् न च महिषवृषभयोरुपमितिः संभवतीत्याह-न हीति, एकदेशसाधय॑ च किंचित साधर्म्यमेव तच्च सर्वस्य सर्वेण संभवति न च सर्व सर्वेणोपमीयते इत्याह- एकेति, उपमानप्रमाणस्य साधर्म्यमेव प्रयोजकं वक्तव्यं तच्च त्रिविधमपि नोपमानप्रयोजकं संभवतीत्युपमानप्रमाणासिद्धिरित्यर्थः // 44 // उक्ताशङ्कां प्रत्याचष्टे- प्रसिद्धति, लोकप्रसिद्धात् साधर्म्यात् उपमानसिद्धिः संभवतीति यथोक्तदोषस्य= पूर्वसूत्रोक्तदोषस्योपपत्तिर्नास्ति- यतोऽत्यन्तप्रायैकदेशसाधाणामुपमानप्रयोजकत्वं नाश्रीयते किं तु सामान्यतः प्रसिद्धसाधर्म्यस्य तच्चास्त्येव गोगवययोरिति सिद्धमुपमानमपि प्रमाणमिति सूत्रार्थः। व्याचष्टे- नेति, येनोक्तदोषेणोपमानस्यानुपपत्तिः स्यादिति शेषः / उपमानप्रयोजकसाधर्म्य जिज्ञासते