________________ 144 प्रसन्नपदापरिभूषितम्- [2 अध्याये. १आह्निकेसाध्यसाधनभावमाश्रित्य प्रवर्तते. यत्र चैतदस्ति न तत्रोपमानं प्रतिषेधुं शक्यं तस्माद् यथोक्तदोषो नोपपद्यते इति // 45 // ., अस्तु तर्युपमानमनुमानम् प्रत्यक्षेणाऽप्रत्यक्षसिद्धेः // 46 // यथा धूमेन प्रत्यक्षेणाऽप्रत्यक्षस्य वह्नर्ग्रहणमनुमानम् एवं गवा प्रत्यक्षेणाऽप्रत्यक्षस्य गवयस्य ग्रहणमिति नेदमनुमानाद् विशिष्यते // 46 // विशिष्यते इत्याह, कया युक्त्या ? नाप्रत्यक्षे गवये प्रमाणार्थमुपमानस्य पश्याम इति // 17 // यदा ह्ययमुपयुक्तोपमानो गोदर्शी गवा समानमर्थ पश्यति तदा अयं गवय इत्यस्य संज्ञाशब्दस्य व्यवस्था प्रतिपद्यते न चैवमनुमानमिति / परार्थ चोपमानम्- यस्य छुपमेयमप्रसिद्ध किमिति / उत्तरमाह- प्रसिद्धति, प्रसिद्धात् साधाद् यः साध्यसाधनभावस्तमाश्रित्योपमानं प्रवर्तते तत्र साध्यं गवयगवयशब्दयोर्वाच्यवाचकभावज्ञानम् = गवयशब्दशक्तिप्रहः तस्य साधनमुपमानप्रमाणम् एतादृशसाध्यसाधनभावमाश्रित्योपमानप्रमाणं प्रवर्तते, उक्तसाध्यसाधनभावाश्रयणे च प्रसिद्धसाधये हेतुः न्यायनये उपमानस्य गवयादिपदशक्तिग्राहकत्वस्वीकारादित्यन्वयः / उपमानसिद्धिमाह- यत्रेति, यत्र गोगवययोरेतत्= प्रसिद्ध साधर्म्यमस्ति तत्र उपमानप्रवृत्तिप्रतिषेधो नोपपद्यते तस्मात् पूर्वोक्तदोषानुपपत्तेः सिद्धमुपमानमपि प्रमाणमित्युपसंहरति- तस्मादिति // 45 // __उपमानस्यानुमानेऽन्तर्भावमाशङ्कते- अस्त्विति / उपमानस्यानुमानेऽन्तर्भावस्य कारणं सूत्रेणाहप्रत्यक्षेणेति, यथानुमाने प्रत्यक्षेण धूमेनाप्रत्यक्षस्य वह्नः सिद्धिर्भवति तथोपमानेऽपि प्रत्यक्षेण गवा गवयपदवाच्यत्वरूपेणाप्रत्यक्षस्य गवयस्य सिद्धिर्भवति किं वा प्रत्यक्षेण गोसादृश्येनाऽप्रत्यक्षस्य गवये गवयपदवाच्यत्वस्य सिद्धिर्भवतीति उपमानस्यानुमानतुल्यत्वादनुमानेऽन्तर्भावः स्वीकार्य इति नोपमानं प्रमाणान्तरमिति सूत्रार्थः / व्याचष्टे- यथेति / प्रकृतमाह- एवमिति, ग्रहणम्= गवयपदवाच्यत्वेन रूपेण ग्रहणमित्यर्थः / तथा चेदम् = उपमानमनुमानाद् न विशिष्यते इति नानुमानातिरिक्तं प्रमाणान्तरमित्यन्वयः, स्पष्टमन्यत् // 46 // ____ उपमानस्यानुमानेन्तर्भावासंभवमाह- विशिष्यते इति, उपमानमनुमानाद् विशिष्यते= भिन्नमेव प्रमाणमित्याह= इत्युच्यते इत्यर्थः / उपमानस्यानुमानाद् भेदकारणं जिज्ञासते- कयेति, युक्त्या= कारणेन प्रकारेणेति यावत् / अस्य सूत्रेणोत्तरमाह- नेति, अप्रत्यक्षे गवये उपमानस्य प्रमाणस्यार्थम्प्रयोजनं न पश्याम इतिहेतोरनुमानाद् भेद उपमानस्येत्यन्वयः, यदि प्रत्यक्षेण गवा गवयोऽप्रत्यक्षो गृह्येत धूमेन वहिरिव तदानुमानसादृश्यादुपमानस्यानुमानेन्तर्भावः स्यादपि न चैवमस्ति किं तूपमानेन गवये गवयशब्दशक्तिर्गृह्यते न चानुमानं शक्तिग्राहकं भवति, गवयसादृश्यं च गोनिष्ठं गोदर्शनकाले ग्रहीतुं न शक्यते प्रत्यक्षेण तदानीं गवयस्यादृष्टत्वात् गवयप्रतियोगिकस्य गोनिष्ठसादृश्यस्य ग्रहणासंभवात गवयदर्शनकाले च गोरेवाप्रत्यक्षत्वेन तन्निष्ठसादृश्यस्याप्रत्यक्षत्वादिति नोपमाने प्रत्यक्षेणाप्रत्य. क्षप्रतिपत्तिः संभवति येनानुमानेन्तर्भावः स्यात् , नापि शब्देन्तर्भावः- उपमानप्रमेयस्य वाच्यवाचकभावस्य शब्देनानुक्तत्वादिति सूत्रार्थः / अत्र 'नाप्रमिते गवये सामर्थ्यमनुमानस्य पश्यामः' इत्येवं सूत्रं वक्तव्यमासीत् / व्याचष्टे- यदेति, उपयुक्तम्= प्रयुक्तम् ‘गोसदृशो गवयः' इत्युपमानं यं प्रति स उपयुक्तोपमानो गोदशी गां दृष्ट्वा यदाऽरण्ये गवा समानम्= गोदृशम् अर्थम्= गवयव्यक्तिं पश्यति तदाऽयं पुरुषः गवय इत्यस्य संज्ञाशब्दस्य व्यवस्थां प्रतिपद्यते= शक्तिं गृह्णाति न चैवमनुमाने शक्तिग्रहो