________________ शब्दप्रमाणपरीक्षा] न्यायभाष्यम्। 145 तदर्य प्रसिद्धोपमेयेन क्रियते इति / परार्थमुपमानमितिचेत् ? न- स्वयमध्यवसायात्= भवति च भोः स्वयमध्यवसाय:- यथा गौरेवं गवय इति / नाध्यवसायः प्रतिषिध्यते उपमानं तु तन्न भवति- "प्रसिद्धसाधात् साध्यसाधनमुपमानम् 1-1-6" न च यस्योपमेयं प्रसिद्धं तं प्रति साध्यसाधनभावो विद्यते इति // 47 // अथापि तथेत्युपसंहारादुपमानसिद्ध विशेषः // 48 // तथेतिसमानधर्मोपसंहारादुपमानं सिध्यति नानुमानम्- अयं चानयोविशेष इति // 48 // (अथ शब्दप्रमाणपरीक्षा-) शब्दोऽनुमानम्-अर्थस्यानुपलब्धेरनुमेयत्वात् // 49 // भवतीत्यनुमानाद् भिन्नमेवोपमानं प्रमाणमित्यन्वयः / भेदस्य कारणान्तरमाह- परार्थमिति, अनुमानं स्वार्थमपि भवति उपमानं च न स्वार्थ किं तु परार्थमेव भवतीत्यनुमानाद् मिन्नमेवेत्यर्थः, हेतुमाहयस्येति, यस्य ह्युपमेयं गवयाद्यऽप्रसिद्धम्= अज्ञातं भवति तदर्थम् = अज्ञातोपमेयाय प्रसिद्धोपमेयेन= ज्ञातोपमेयेन गवयादिशब्दशक्तिग्रहाय उपमानं क्रियते= प्रयुज्यते न तु स्वार्थमिति परार्थत्वं सिद्धम् / उपमानस्योक्तं परार्थत्वमानं पूर्वपक्षी प्रत्याचष्टे- परार्थमिति, उपमानं परार्थमेव भवतीति न वक्तव्यम् , उक्ते हेतुमाह- स्वयमिति, स्वयमध्यवसायसत्तामाह- भवतीति, अध्यवसायस्वरूपमाह- यथेति, एवं ह्युपमानस्य स्वार्थत्वमपि सिद्धं तेन चानुमानतुल्यत्वमित्यर्थः / अस्योत्तरमाह-नाध्यवसाय इति, 'यथा गौस्तथा गवयः' इत्याकारकः स्वयमध्यवसायो न प्रतिषिध्यते किं तु स उपमानप्रमाणं न भवति- ज्ञातविषयकत्वात् उक्ताध्यवसायविषयस्याध्यवसायका ज्ञातत्वादेव. प्रमाणानां चाज्ञातविषयकत्वस्वीकारात् , परेण चाऽज्ञातत्वात् तं प्रति प्रयुक्तस्योपमानस्य प्रामाण्यं संभवति- अज्ञातज्ञापकत्वादित्यर्थः / उक्ते उपमानलक्षणसूत्रं प्रमाणयति- प्रसिद्धति, उपमानेनात्र साध्यसाधनमुक्तं प्रसिद्धोपमेयस्य च साध्यभूतो गवयशब्दशक्तिग्रहः सिद्ध एवेति न तस्य साधनं संभवति, एनमेवाभिप्रायमुद्घाटयति- न चेति, प्रसि. द्धोपमेयं प्रति साध्यसाधनभावः= गवयशब्दशक्तिग्रहस्य साध्यत्वम् उपमानस्य च साधनत्वं न विद्यते= न संभवति- सिद्धत्वादेवेति परार्थमेवोपमानं भवति न स्वार्थमपीत्यनुमानाद्, भेदः सिद्धः- अनुमाने स्वार्थत्वस्यापि सत्त्वादित्युपमानस्यानुमानेऽन्तर्भावो न संभवतीत्यर्थः // 47 / / __ अग्रिमसूत्रमवतारयति- अथापीत. किं चेत्यर्थः। उपमानस्यानुमानाद् भेदे कारणान्तरमाहतथेति, 'यथा गौस्तथा गवयः' इत्येवमुपमाने तथादिशब्दैरुपसंहारो भवति न चैवमनुमाने तथादिशब्दैरुपसंहारो भवतीति नोपमानस्याऽनुमानादविशेषः= अभेदः संभवतीत्यनुमानादुपमानं प्रमाणान्तरमेवेति सिद्धमिति सूत्रार्थः / व्याचष्टे- तथेति, अनुमानं तु तथेतिसादृश्योपसंहारान्न सिध्यतीत्यन्वयः / अनयोः= उपमानानुमानयोरयमपि विशेषो यदुपमाने तथेत्युपसंहारो भवति अनुमाने च न भवति तस्माद् द्वयोर्भेदः सिद्ध इत्यर्थः / 48 // // इत्युपमानपरीक्षा समाप्ता // संप्रति शब्दप्रमाणपरीक्षामारभते, शब्दप्रमाणस्यानुमानेऽन्तर्भावमाशङ्कते- शब्द इति, शब्दः= शब्दप्रमाणम् अनुमानमेव- वाक्यप्रतिपाद्यस्यार्थस्याऽनुपलब्धेः= अप्रत्यक्षत्वेन अनुमेयत्वात् तस्मात् शब्दप्रमाणस्यानुमानेन्तर्भावः स्वीकार्यों न तु पृथकू प्रमाणत्वमिति सूत्रार्थः / एषा च वैशेषिकमतेनाशङ्का /