________________ 146 प्रसन्नपदापरिभूषितम्- [2 अध्याये. १आह्निकेशब्दोऽनुमानं न प्रमाणान्तरम् , कस्मात 1. शब्दार्थस्यानुमेयत्वात, कथमनुमेयत्वम् ? प्रत्यक्षतोऽनुपलब्धेः, यथाऽनुपलभ्यमानो लिङ्गी मितेन लिङ्गेन पश्चाद् मीयते इत्यनुमानम् एवं मितेन शब्देन पश्चाद् मीयतेऽर्थोऽनुपलभ्यमान इत्यनुमानं शब्दः // 49 // इतश्चानुमानं शब्दः उपलब्धेरदिप्रवृत्तित्वात् // 50 // प्रमाणान्तरभावे द्विप्रवृत्तिरुपलब्धिः= अन्यथा ह्युपलब्धिरनुमाने अन्यथोपमाने तद् व्याख्यातम् , शब्दानुमानयोस्तूपलब्धिरद्विपत्तिः यथाऽनुमाने प्रवर्तते तथा शब्देपि, विशेषाभावादनुमानं शब्द इति // 50 // संबन्धाच // 51 // "शब्दोनुमानम्" इति वर्तते, संबद्धयोश्च शब्दार्थयोः संबन्धप्रसिद्धौ शब्दोपलब्धेरथग्रहणं यथा संबद्धयोलिङ्गलिङ्गिनोः संवन्धप्रतीतौ लिङ्गोपलब्धौ लिङ्गिग्रहणमिति // 51 // व्याचष्टे- शब्द इति, शब्दः= शब्दप्रमाणम् / शब्दस्यानुमानेऽन्तर्भावस्य कारणं जिज्ञासते- कस्मा. दिति, उत्तरमाह- शब्दार्थस्येति, शब्दार्थस्य वाक्यार्थस्य अनुमेयत्वकारणं जिज्ञासते- कथमिति / उत्तरमाह- प्रत्यक्षत इति, अत्र दृष्टान्तमाह- यथेति, लिङ्गी= साध्या, मितेन- ज्ञातेन / अनुपलभ्यमानः= अप्रत्यक्षः / प्रकृतमाह- एवमिति, मितेन= श्रवणगृहीतेन, प्रमेयस्य. वाक्यार्थस्य अनुमेयत्वे शब्दप्रमाणस्यानुमानविधया बोधकत्वेनानुमानेन्तर्भावः सिद्ध इत्यर्थः स्पष्टमन्यत् // 49 // अग्रिमसूत्रमवतारयति- इतश्चेति, इतः= वक्ष्यमाणसूत्रोक्तकारणादित्यर्थः। उपलब्धेरिति- शब्दानुमानयोरुपलब्धेः= प्रमेयबोधस्य अद्विप्रवृत्तित्वात्= एकप्रकारत्वात्= समानरूपत्वात्- शब्दस्य लिङ्गविधया बोधकत्वाद् यथा चैत्रो घटविषयकाभिप्रायवान् उच्चारकत्वसंबन्धेन घटमानयेतिवाक्यविशिष्टत्वाद् मैत्रवत् इत्येवं वाक्यार्थस्यानुमेयत्वेन वाक्यस्य चानुमापकत्वेन शब्दानुमानयोः, प्रमेयबोधस्यैकप्रकारत्वं सिद्धं तेन शब्दानुमानयोरेकत्वं सिद्धं तेन शब्दप्रमाणस्यानुमानेन्तर्भावः सिद्ध इति सूत्रार्थः / ब्याचष्टेप्रमाणेति, शब्दस्य प्रमाणान्तरभावे= अनुमानापेक्षया पृथक् प्रमाणत्वे शब्दानुमानयोः प्रमेयोपलब्धिः द्विप्रवृत्तिः= द्विप्रकारा= भिन्नभिन्नस्वरूपा स्यात् यथानुमाने प्रमेयोपलब्धिरन्यथा= अन्यप्रकारा= अनुमितिरूपास्ति उपमाने चाऽन्यथा= अन्यप्रकारा= उपमितिस्वरूपास्ति तथा चोपलब्धेः स्वरूपभेदादनुमानोपमानयो दः तत्= एतत् उपमानपरीक्षायां तथेत्युपसंहारादित्यादिना व्याख्यातमित्यन्वयः / प्रकृतमाह- शब्देति, शब्दानुमानयोस्तु प्रमेयोपलब्धिः अद्विप्रवृत्तिः= एकस्वरूपैवास्ति- अनुमितिरूपत्वात् शब्दस्योक्तरीत्या लिङ्गविधया बोधकत्वात्. तदाह- यथेति, अनुमाने यथा लिनेन प्रमेयस्यानुमित्यर्थ प्रवर्तते पुरुषस्तथैव शब्देपि तादृशशब्देन शब्दार्थस्यानुमित्यर्थमेव प्रवर्तते नान्यथा तस्मादनुमानापेक्षया विशेषाभावादनुमानमेव शब्दो न तु प्रमाणान्तरमित्यन्वयः // 50 // शब्दस्यानुमानेन्तर्भावे हेत्वन्तरमाह- संबन्धादिति, यथानुमाने हेतुः संबन्धादेव साध्यबोधको भवति तथा शब्दोपि स्वार्थेन संबन्धादेव स्वार्थबोधको भवति तथा चानुमानतुल्यत्वादनुमानमेव शब्दो न प्रमाणान्तरमिति सूत्रार्थः / संबन्धाचोपलब्धेरित्येवं पूर्वसूत्रेणान्वयः / व्याचष्टे- शब्द इति, वर्ततेपूर्वपूर्वसूत्रादनुवर्तनीयमित्यर्थः / यथा परस्परं संबद्धयोलिङ्गलिमिनोः व्याप्यव्यापकभावसंबन्धस्य प्रतीतौ सत्यामेव लिङ्गोपलब्धौ जातायां लिङ्गिग्रहणं भवति तथा शब्दार्थयोरपि परस्परं संबद्धयोरेव संबन्ध. प्रसिद्धौ= संबन्धज्ञाने जाते एव शब्दोपलब्धेः= शब्दप्रत्यक्षेण तदर्थस्य ग्रहणं भवतीत्यनुमानतुल्यत्वादनुमानमेव शब्दो न प्रमाणान्तरमित्यन्वयः / अत्र शब्दार्थयोः संबन्धो गम्यगमकभावरूपो विज्ञेयः॥५१॥