________________ 147 शब्दप्रमाणपरीक्षा ] न्यायभाष्यम् यत्तावत् 'अर्थस्यानुमेयत्वात्' इति तन्न आप्तोपदेशसामर्थ्यात् शब्दादर्थसंप्रत्ययः // 52 // 'स्वर्गः अप्सरसः उत्तराः कुरवः सप्त द्वीपाः समुद्रो लोकसंनिवेशः' इत्येवमादेरसत्यक्षस्यार्थस्य न शब्दमात्रात् प्रत्ययः, किं तर्हि 1. 'आप्तैरयमुक्तः शब्दः' इत्यतः संप्रत्ययःविपर्ययेण संप्रत्ययाभावात् न त्वेवमनुमानमिति / यत् पुनः- “उपलब्धेरद्विषटत्तित्वात् 2-1-50" इति. अयमेव शब्दानुमानयोरुपलब्धेः प्रवृत्तिभेदः तत्र विशेष सत्यऽहेतु:- 'विशेषाभावात्' इति / यत् पुनरिदम्- "संवन्धाच्च" इति, अस्ति च शब्दार्थयोः संबन्धोऽनुज्ञातः अस्ति च प्रतिषिद्धा= 'अस्येदम्' इतिषष्ठीविशिष्टस्य वाक्यस्यार्थविशेषोऽनुज्ञातः प्राप्तिलक्षणस्तु शब्दार्थयोः शब्दस्य प्रमाणान्तरत्वव्यवस्थापनाय उक्तपूर्वपक्षस्य प्रत्याख्यानमारभते- यत्तावदित्यादिना यदेकोनपञ्चाशत्सूत्रे " अर्थस्य- अनुमेयत्वात्" इत्येवं वाक्यार्थस्यानुमेयत्वमुक्तं तन्न संभवति, अत्र सूत्रेण हेतुमाह- आप्तेति, शब्दात्= वाक्याद् योऽर्थसंप्रत्ययः= वाक्यार्थबोधो जायते स नानुमानविधया जायते- शब्दार्थयोाप्यव्यापकभावसंबन्धासंभवात् किं तु आप्तोपदेशसामर्थ्यात्= अयं शब्दोऽस्यार्थस्य वाचक इत्याद्याप्तोपदेशमूलकशक्तिग्रहसामर्थ्यात् योग्यताकाङ्क्षादिज्ञानसहकृताज्जायते न चैवमनुमानस्य प्रकारः न हनुमानस्थले धूमज्ञानस्य वह्नौ शक्तिग्रहो भवति- असंभवादित्यनुमानापेक्षया शब्दप्रमाणस्य विलक्षणत्वान्नानुमानत्वं संभवति किं तु प्रमाणान्तरत्वमेवेति सूत्रार्थः / व्याचष्टे- स्वर्ग इति, स्वर्ग इत्यादिलक्षणो लोकसंनिवेशः, पुराणेषु प्रसिद्ध एव इत्येवमादेः= स्वर्गादिरूपस्याऽप्रत्यक्षस्यार्थस्य न स्वर्गादिशब्दमात्रात् बोधो भवति येनानुमानेऽन्तर्भावः स्यादित्साक्षेपः, यदि शब्दमात्रात् शब्दार्थबोधः स्यात् तदा धूमेन वह्नरिव शब्दार्थस्यानुमेयत्वं स्यादपि न चैवमस्तीत्यर्थः / शब्देन शब्दार्थबोधप्रकारं जिज्ञासते- किमिति / उत्तरमाह- आप्तैरिति, अयं घटशब्द आप्नैर्घटबोधनार्थमुक्तः= प्रयुक्त इत्यतः= इतिज्ञानात् किं वा 'घटशब्दः कम्बुग्रीवादिमत्पदार्थवाचकः' इति यदाप्तैरुक्तं तत्सामर्थ्यादेव घटशब्दाद् घटपदार्थबोधो भवति न तु तादृशोपदेशरहितात् श्रुतात् शब्दमात्रादिति शब्दः प्रमाणान्तरमेवेत्यर्थः / विपक्षे बाधकमाह- विपर्ययेणेति, विपर्ययेण= उक्ताप्तोपदेशं विना शब्दार्थबोधाभावादाप्तोपदेशसामर्थ्यादेव शब्दस्यार्थबोधकत्वं भवतीत्यर्थः / पर्यवसितमाह- नेति, न त्वेवमाप्तोपदेशसामदिनुमाने लिङ्गस्य वाच्यवाचकभावसंबन्धेन साध्यबोधकत्वं भवतीति शब्दस्यानुमानापेक्षया विलक्षणत्वात् प्रमाणान्तरत्वं स्वीकार्यमित्यर्थः। उपलब्धेरित्यादिसूत्रोक्तं परिहर्तुमनुवदति- यत्पुनरिति, यद् उपलब्धेरिति सूत्रेण शब्दानुमानयोरुपलब्धेरेकस्वरूपत्वमुक्तं तत्परिहरति- अयमेवेति अयम्= अत्रोक्तः, प्रवृत्तिभेदः= प्रकारभेदः, अनुमाने व्यात्यऽनुसंधानेन लिङ्गस्य लिङ्गिबोधकत्वं भवति शाब्दस्थले च शब्दस्याप्तोपदेशसामर्थ्यादर्थबोधकत्वं भवतीति शब्दानुमानयोः प्रमेयोपलब्धेः प्रकारभेदः= स्वरूपभेदोस्ति तत्र सत्यपि प्रमेयोपलब्धेः विशेषे= स्वरूपभेदे यः “विशेषाभावात् " इति शब्दस्यानुमानेऽन्तर्भावे हेतुरुक्तः सोऽहेतुरेव- विशेषस्य सत्त्वेन उक्तहेतोर्बाधितत्वादित्यर्थः / / ___ संबन्धादितिसूत्रोक्तं परिहर्तुमनुवदति- यत्पुनरिदमित्यादिना, यत्पूर्व सूत्रेण शब्दस्य लिङ्गविधयार्थबोधकत्वमुक्तं तस्योत्तरमाह- अस्तीति, शब्दार्थयोर्वाच्यवाचकभावः संबधोऽनुज्ञातः= स्वीकृतोस्ति. संयोगादिलक्षणश्च संबन्धः प्रतिषिद्धोस्ति तस्मान्न शब्दस्य लिङ्गविधयार्थबोधकत्वमुपपद्यते इत्यर्थः / उक्तं विशदयति- अस्येति 'अस्य शब्दस्येदं वाच्यमस्ति यथा घटशब्दस्य घटः' इत्यादिरूपस्य षष्ठी