________________ 148 प्रसन्नपदापरिभूषितम्- [2 अध्याये. १आह्निकेसंबन्धः प्रतिषिद्धः। कस्मात् ?, प्रमाणतोनुपलब्धः= प्रत्यक्षतस्तावत् शब्दार्थप्राप्तेनॊपलब्धिःअतीन्द्रियत्वात्= येनेन्द्रियेण गृह्यते शब्दस्तस्य विषयभावमतिटत्तोऽर्थो न गृह्यते, अस्ति चातीन्द्रियविषयभूतोप्यर्थः, समानेन चेन्द्रियेण गृह्यमाणयोः प्राप्तिदृह्यते इति / प्राप्तिलक्षणे च गृह्यमाणे संबन्धे शब्दार्थयोः शब्दान्तिके वार्थः स्यात् अर्थान्तिके वा शब्दः स्यात् उभयं वोभयत्र // 52 // अथ खल्वयम् पूरणप्रदाहपाटनानुपलब्धेश्व संबन्धाभावः // 53 // स्थानकरणाभावादिति चार्थः / न चायमनुमानतोप्युपलभ्यते- शब्दान्तिकेऽर्थ इति / एतस्मिन् पक्षेप्याऽऽस्यस्थानकरणोच्चारणीयः शब्दस्तदन्तिकेऽर्थ इति अन्नाजन्यऽसिशब्दोचारणे विशिष्टस्याप्तोपदेशलक्षणवाक्यस्य अर्थविशेषः= प्रतिपाद्यो वाच्यवाचकभावरूपः शब्दार्थसंबन्धः स्वीक्रियते प्राप्तिलक्षणः= संयोगरूपस्तु संबन्धः शब्दार्थयोः प्रतिषिध्यते= न स्वीक्रियते येन शब्दस्य लिङ्गविधयार्थबोधकत्वमापद्यतेत्यर्थः / शब्दार्थयोः संयोगसंबन्धस्य प्रतिषेधकारणं जिज्ञासते- कस्मादिति / उत्तरमाह- प्रमाणत इति, शब्दार्थयोः संयोगसंबन्धः प्रमाणेन नोपलभ्यतेऽतः प्रतिषिध्यते इत्यर्थः / संक्षेपेणोक्तं व्याचष्टे- प्रत्यक्षत इति, शब्दार्थप्राप्तेः= शब्दार्थयोः संयोगस्य / प्रत्यक्षेणानुपलब्धौ हेतुमाह- अतीन्द्रियत्वादिति, पदार्थस्य शब्दप्राहकश्रवणेन्द्रियाग्राह्यत्वादित्यर्थः / उक्तं व्याचष्टे- येनेति, पदार्थो यद्यपीन्द्रियग्राह्योस्ति तथापि येन श्रवणेन्द्रियेण शब्दो गृह्यते तस्य श्रवणेन्द्रियस्य विषयभावम्= विषयत्वमतिवृत्तः= अतीतोस्ति= श्रवणेन्द्रियग्राह्यो नास्ती पदार्थ इति न श्रवणेन्द्रियेण गृह्यते / स्वाभिप्रायमाह- अस्तीति, यद्यप्यतीन्द्रियः= श्रवणेन्द्रियाग्राह्योपि शब्दवाच्यः पदार्थः विषयभूतः= चक्षुरादीन्द्रियविषयभूतोस्त्येव तथापि समानेन= एकेनेन्द्रियेण गृह्यमाणयोरेव पदार्थयोः प्राप्तिः= संयोगो ग्रहीतुं शक्यते यथा घटपटयोर्वह्निधूमयोश्च. शब्दार्थौ च नैकेन्द्रियग्राह्यौ शब्दस्य श्रवणेन्द्रियमात्रग्राह्यत्वात् तदर्थस्य श्रवणेन्द्रियाग्राह्यत्वादिति न शब्दार्थयोः संयोगसंबन्ध उपपद्यते गृह्यते च, ततश्च न शब्दस्य लिङ्गविधयार्थबोधकत्वापत्तिरित्याशयः। शब्दार्थयोः संयोगसंबन्धेऽनिष्टापत्तिमुपक्रमते- प्राप्तीति, शब्दाथयोः प्राप्तिलक्षणे= संयोगरूपे संबन्धे गृह्यमाणे= स्वीकृते सति तादृशसंयोगोपपत्त्यर्थमर्थः= वाच्यः पदार्थः शब्दान्तिके= शब्दसमीपे स्यात् किं वा शब्दः अर्थान्तिके= स्ववाच्यसमीपे स्यात् किं वा उभयमुभयत्र स्यात् नाम पदार्थः शब्दसमीपे शब्दश्च पदार्थसमीपे स्यात्- अन्यथा संयोगासंभवादित्यन्वयः / अस्य खण्डनं चाग्रे द्रष्टव्यम् // 52 // अग्रिमसूत्रमवतारयति- अथेति, अयम्= संयोगसंबन्धः शब्दार्थयोर्वक्ष्यमाणहेतुनाऽनुपपन्नो विज्ञेय इत्यर्थः / उक्तप्रथमकल्पे दोषमाह- पूरणेति, यदि पदार्थः शब्दसमीपे स्यात् तदा मुखे स्यादिति प्राप्तम्शब्दस्य मुखे जायमानत्वात् तथा च अन्नादिशब्दानामुच्चारणे कृतेऽन्नादिना मुखं पूरणं स्यात् अयादिशब्दोच्चारणे कृते च मुखस्य दाहः स्यात् खड्गादिशब्दोचारणे कृते च मुखस्य पाटनं स्यात् न चैतदुपलभ्यते इति संबन्धाभावः= शब्दार्थयोः संयोगाभावः प्राप्तः= शब्दसमीपे पदार्थसत्ता न संभवतीति सूत्रार्थः / सूत्रे " संबन्धाभावः" इत्यत्र 'संयोगाभावः' इति वक्तव्यमासीत् / व्याचष्टे- स्थानेति, सूत्रघटकचकारेण 'स्थानकरणाभावात् ' इति द्वितीयकल्पे दोषो ग्राह्य इत्यर्थस्तदेतदने स्पष्टम् / शब्दान्तिकेऽर्थ इतिकल्पस्य प्रत्यक्षेणानुपलब्धिः सूत्रेणोक्तेति अनुमानेनानुपलब्धिमाह- न चेति, शब्दान्तिकेऽर्थ इतिपक्षोनुमानेनापि न सिध्यति- अनुमापकहेतोरभावात् / अस्य पक्षस्य सूत्रोक्तामनुपपत्तिमुपपादयति- एतस्मिन्निति, एतस्मिन्= शब्दान्तिकेऽर्थ इतिपक्षे, आस्यस्थानकरणोच्चारणीयः= मुखस्थाने= मुखदेशे प्रयत्नविशेषलक्षणकरणेन किं वा मुखस्थानगतकरणेनोच्चारणीयः शब्दो मुखे भवतीति प्राप्तं तथा च यद्यर्थस्तदन्तिके= शब्ददेशे भवति तदान्नाऽग्यादिशब्दोच्चारणे कृते यथासंख्यं मुखस्यान्ना