________________ 149 शब्दप्रमाणपरीक्षा ] न्यायभाष्यम् / पूरणप्रदाहपाटनानि गृोरन् . न च गृह्यन्ते, अग्रहणान्नानुमेयः प्राप्तिलक्षणः संबन्धः / अर्थान्तिके शब्द इति- स्थानकरणासंभवाद् अनुच्चारणम्, स्थानं कण्ठादयः करणं प्रयत्नविशेषः तस्यार्थान्तिकेऽनुपपत्तिरिति / उभयप्रतिषेधाच्च नोभयम् / तस्मान्न शब्देनार्थः प्राप्त इति // 53 // शब्दार्थव्यवस्थानादप्रतिषेधः // 54 // शब्दार्थप्रत्ययस्य व्यवस्थादर्शनाद् अनुमीयते- अस्ति शब्दार्थसंवन्धो व्यवस्थाकारणम्, असंबन्धे हि शब्दमात्रादर्थमात्रे प्रत्ययप्रसङ्गः तस्मादप्रतिषेधः संबन्धस्येति // 54 // अत्र समाधिः न-सामयिकत्वाच्छब्दार्थसंप्रत्ययस्य // 55 // न संबन्धकारितं शब्दार्थव्यवस्थानम्, किं तर्हि ?. समयकारितं यत्तदवोचाम- 'अस्येदमिति षष्ठीविशिष्टस्य वाक्यस्यार्थविशेषोऽनुज्ञातः शब्दार्थयोः संबन्धः' इति समयं तमवोचाम इति / दिना पूरणादिकमुपलभ्येत न चोपलभ्यते तथा चाऽग्रहणात्= अन्नाग्यादिशब्दोच्चारणेऽन्नादिना मुखस्य पूरणत्वादेरनुपलब्ध्या शब्दार्थयोः प्राप्तिलक्षणः= संयोगरूपः संबन्धो नानुमेयः- बाधकर्तकस्य प्रद. र्शितत्वादेवेत्यन्वयः / द्वितीयकल्पमनुवदति- अर्थेति, अर्थान्तिके शब्द इत्यपि कल्पो नोपपद्यते / अत्र सूत्रघटकचकारेण गृहीतं हेतुमाह- स्थानेति, यत्र भूतले घटादिपदार्थो भवति तत्र शब्दस्योचारणस्थानं मुखं करणं च न संभवतीत्यनुचरणम्= पदार्थदेशे शब्दसत्त्वं नोपपद्यते इत्यर्थः / शब्दस्य स्थानमाहस्थानमिति, करणमाह- करणमिति, प्रयत्नः= उच्चारणानुकूलो व्यापारः, स्थानप्रयत्नौ व्याकरणारम्भे स्पष्टौ / स्वाभिप्रायमाह- तस्येति, तस्य= स्थानस्य करणस्य च. अनुपपत्तिः= अभावः / पदार्थदेशे शब्दस्य स्थानकरणयोरसंभवादसत्त्वं प्राप्तं तेन च शब्दार्थयोः संयोगाभावः प्राप्त इति द्वितीयकल्पोपि नोपपद्यते इत्यर्थः / तृतीयकल्पस्योक्तकल्पयोः समुच्चयरूपत्वेनोक्तकल्पयोरनुपपत्त्यैवानुपपत्तिर्विज्ञेयेत्याहउभयेति / उपसंहरति- तस्मादिति, प्राप्तः= संयुक्तः, तदेवं शब्दार्थयोः संयोगसंबन्धो नोपपद्यते इति न शब्दस्य लिङ्गविधयार्थबोधकत्वापत्तिर्येनानुमानेऽन्तर्भावः स्यादित्यर्थः // 53 / / पूर्वपक्षी शब्दार्थयोः संबन्धावश्यकतामाह- शब्देति, शब्दार्थयोर्व्यवस्थानात्= व्यवस्थादर्शनात् यथा घटशब्देन घटस्यैव बोधो भवति न पटादेरिति तस्मात शब्दार्थयोः संबन्धस्य प्रतिषेधो नोपपद्यते यदि शब्दार्थयोः संबन्धो न स्यात्तदोक्ता व्यवस्था न स्यात् किं तु सर्वैः शब्दैः सर्वेषां पदार्थानां बोधः स्याद् न चैवमस्तीति सिद्धः शब्दार्थयोः संबन्ध इति तादृशसंबन्धवशादेव शब्दस्यार्थबोधकत्वेन लिङ्गविधयैव बोधकत्वं स्यात् न हि साध्यतावच्छेदको हेतुतावच्छेदकश्च संयोग एव संबन्धो भवति येन शब्दार्थयोः संयोगाभावे शब्दस्य लिङ्गविधयार्थबोधकत्वं न स्यादिति सूत्रार्थः / व्याचष्टे- शब्देति, शब्दादर्थप्रत्ययस्य व्यवस्थादर्शनात् यथा घटशब्देन घटस्यैव बोधो भवति तस्मात् शब्दार्थव्यवस्थाकारणं शब्दार्थयोः संबन्धोस्तीत्यनुमीयते तादृशसंबन्धश्च घटादिशब्दानां घटादिपदाथरेवास्ति न पटादिपदार्थरिति शब्दार्थप्रत्ययव्यवस्थोपपद्यते / विपक्षे बाधकमाह- असंबन्धे इति / अर्थमात्रे इति सप्तम्यर्थों विषयत्वम् / उपसंहरति- तस्मादिति, उक्तव्यवस्थाकारणीभूतस्य संबन्धस्य प्रतिषेधो नोपपद्यते // 54 // ____ अग्रिमसूत्रमवतारयति- अत्रेति, अत्र= उक्तपूर्वपक्षे समाधिः= समाधानम् / समाधानसूत्रमाहनेति, शब्दाद् यो व्यवस्थयार्थप्रत्ययः स संबन्धकृतो नास्ति- तस्य शब्दार्थसंप्रत्ययस्य= शब्दाज्जायमानस्य पदार्थबोधस्य सामयिकत्वात्= संकेतमूलकत्वात् संकेतश्च ' अस्य शब्दस्येदं वाच्यम्' इत्याप्तोपदेश एव तथा च न शब्दस्य लिङ्गविधया बोधकत्वमिति सूत्रार्थः / व्याचष्टे- नेति, शब्दार्थव्यवस्थानम्= शब्दादर्थप्रत्ययव्यवस्था संबन्धकारितम्= शब्दार्थसंबन्धकृता नेत्यर्थः / व्यवस्थाकारणं जिज्ञासते