________________ 150 प्रसन्नपदापरिभूषितम्- [2 अध्याये. १आह्निके___ का पुनरयं समयः ?, 'अस्य शब्दस्येदमर्थजातमभिधेयम्' इत्यभिधानाभिधेयनियमनियोगः, तस्मिन्नुपयुक्ते शब्दादर्थसंप्रत्ययो भवति. विपर्यये हि शब्दश्रवणेपि प्रत्ययाभावः, संबन्धवादिनापि चायमवर्जनीय इति / प्रयुज्यमानग्रहणाच्च समयोपयोगो लौकिकानाम्, समयपालनार्थ चेदं पदलक्षणाया वाचोऽन्वाख्यानं व्याकरणम् . व्याक्यलक्षणाया वाचोऽर्थलक्षणम्, पदसमूहो वाक्यम् अथेपरिसमाप्ताविति / तदेवं प्राप्तिलक्षणस्य शब्दाथेसंबन्धास्याऽथेतुपोपि अनुमानहेतुर्न भवतीति // 55 // किमिति / उत्तरमाह- समयेति / समयस्य पूर्वोक्तत्वमाह- यत्तदिति, आप्तोपदेशेत्यादिसूत्रभाष्ये उक्तं समयस्वरूपवाक्यमनुवदति- अस्येदमिति, अस्य शब्दस्येदं वाच्यमितिषष्ठीघटितस्य वाक्यस्य योऽर्थविशेषः= प्रतिपाद्यः स शब्दार्थयोः संबन्ध एव स चानुज्ञातः= स्वीकृत एव तत्कृतैव शब्दादर्थप्रत्ययव्यवस्थेत्यर्थः, 'अस्येदम् ' इत्यादिना यदवोचाम तत् तम्= शब्दार्थव्यवस्थाकारणीभूतं समयमवोचामेत्यन्वयः / संकेतस्वरूपं जिज्ञासते- क इति / संकेतस्वरूपमाह- अस्येति, यथा 'घटशब्दस्य घटत्वावच्छिन्नं वाच्यम्' इति अभिधानाभिधेयनियमस्य= वाच्यवाचकभावसंबन्धनियमस्य नियोगः= उपदेश एव समय इत्यर्थः, अर्थजातम्= तज्जात्यवच्छिन्नम् , अभिधीयतेऽनेनेत्यभिधानम्= वाचकम् अभिधीयते इत्यभिधे. यम्= वाच्यम् / अत्र- "अभिधानाभिधेययोनियमः- गोशब्दस्य सानादिमानेवार्थः एवमश्वशब्दस्य केसरादिमानेवेति तस्मिन्नियोगो बोद्धव्य इति भगवतः परमेश्वरस्य सर्गादौ सोयं समय इत्ययमर्थः तस्मिन्नुपयुक्ते= ज्ञाते शब्दार्थव्यवस्था भवति" इति तात्पर्यटीका।पर्यवसितमाह- तस्मिन्निति, तस्मिन् उक्तसमये उपयुक्ते= ज्ञाते सति शब्दादर्थबोधो जायते- पदार्थबोधं प्रति शक्तिज्ञानस्य कारणत्वात् , विपर्यये= उक्तसंकेतज्ञानाभावे हि शब्दश्रवणे जातेपि प्रत्ययाभावः= पदार्थज्ञानं न जायते इत्यन्वयव्यतिरेकाभ्यां शब्दादर्थव्यवस्थां प्रति तत्संकेतज्ञानस्य कारणत्वं सिद्धमिति न शब्दार्थव्यवस्था संबन्धान्तरकृता येन शब्दस्य लिङ्गविधया बोधकत्वमापद्यतेत्यर्थः / संबन्धवादिना= शब्दार्थयोः समयातिरिक्तसंबन्धान्तरस्वीकाप्ययम्= समयः अवर्जनीयः= स्वीकार्य एव- समयज्ञानं विना शब्दस्यार्थबोधकत्वाभावात् , तत्र संबन्धद्वयस्वीकारे गौरवादावश्यको वाच्यवाचकभाव एव संबन्धः स्वीकार्यों न तु संबन्धान्तरमित्यर्थः / संकेतज्ञानप्रकारमाह-प्रयुज्येति, लौकिकानाम्= लोके समयोपयोगः= समयज्ञानं प्रयुज्यमानग्रहणाद् भवति यथा घटादिबोधार्थ प्रयुज्यमानो यो घटादिशब्दस्तद्ग्रहणात् तटस्थस्य 'घटशब्दस्य घटे शक्तिः' इत्येवं संकेतज्ञानं जायते इत्यन्वयः / व्याकरणस्य संकेतज्ञापकत्वमाह- समयपालनार्थमिति, पदलक्षणाया वाचोऽन्वाख्यानम्= शब्दसाधुत्वव्युत्पादनलक्षणं यद् व्याकरणं तत् समयरक्षार्थमेव. व्याकरणे च "भू सत्तायाम्" इत्यादिना धातूनाम् "कर्मणि द्वितीया " इत्यादिना प्रत्ययानां च शक्तिरुक्तेति स्पष्टमेव, उक्तं च "शक्तिप्रहं व्याकरणोपमानकोशाप्तवाक्याद्व्यवहारतश्च" इत्यादि / वाक्यलक्षणवाचो नियामकशास्त्रमाह- वाक्येति, वाक्यलक्षणाया वाचः= वाक्यस्याऽर्थलक्षणम् अर्थशास्त्रम्= वाक्यार्थप्रधानं मीमांसादिशास्त्रम् अन्वाख्यानम्= व्युत्पादकमस्ति- मीमांसादिशास्त्राणामेव वाक्यार्थनियामकत्वादित्यर्थः, अत्र " अर्थलक्षणम्" इत्यत्र " अर्थों लक्षणम्" इत्युपलभ्यमानः पाठस्त्वशुद्ध एवेति व्याकरणमञ्जूषायां द्रष्टव्यम् / वाक्यलक्षणमाह- पदसमूह इति, अर्थपरिसमाप्तौ= समग्रार्थबोधकः पदसमूहो वाक्यं यथा 'नीलं घटमानय ' इति 'नीलं घटम् / इतिपदसमूहोपि सन् न वाक्यम्- साकाङ्कत्वात् समग्रार्थबोधकत्वाभावेनार्थपरिसमाप्तेरभावादित्यन्वयः / उपसंहरति- तदेवमिति, तदेवम्= उक्तरीत्या प्राप्तिलक्षणस्य= संयोगरूपस्य शब्दार्थयोः संबन्धस्यानुमानहेतुरर्थतुषः= प्रयोजनलेशोपि नास्तीति नानुमानं स्वीकारश्च संभवति- प्रयोजनं विनाऽनुमानासंभवात् , शब्दात् तदर्थप्रतीत्युपपत्त्यर्थमेव शब्दार्थयोः संबन्धोऽपेक्ष्यते अर्थप्रतीत्युपपत्तिश्च वाच्यवाचकभावसंबन्धेनैवोपपद्यते न संयोगसंबन्धेनेति न संयोगः स्वीकार्यः- शब्दार्थयोः संयोगेऽनिष्टस्यानुपपत्तेश्च प्रदर्शितत्वादेव तथा च