________________ शब्दप्रमाणपरीक्षा ] न्यायभाष्यम् / 151 जातिविशेषे चानियमात् // 56 // सामयिकः शब्दादर्थसंप्रन्ययो न स्वाभाविक:- ऋष्यार्यम्लेच्छानां यथाकामं शब्दप्रयोगोऽर्थप्रत्यायनाय प्रवर्तते. स्वाभाविक हि शब्दस्यार्थप्रत्यायकत्वे यथाकामं न स्यात्, यथा तैजसस्य प्रकाशस्य रूपप्रत्ययहेतुत्वं न जातिविशेषे व्यभिचरतीति / / 56 // तदप्रमाण्यम्-अनृतव्याघातपुनरुक्तदोषेभ्यः // 57 // न शब्दो लिङ्गविधयार्थबोधको येनानुमानेन्तर्भूतः स्यादित्यर्थः / अत्र- "अर्थरूपस्तुषः= लेशोऽर्थतुषः स नास्ति. केवलं परैः प्राप्तिलक्षणः संबन्धः कल्पित इत्यर्थः" इति तात्पर्यटीका // 55 // शब्दार्थप्रत्ययस्य संबन्धन्तराकारणकत्वे सूत्रेण हेत्वन्तरमाह- जातीति, यदि शब्दादर्थप्रत्यय उक्तरीत्या संकेतमूलको न स्यात् किं तु पूर्वपक्षिमतेन शब्दार्थयोः परस्परसंबन्धकृतः स्यात् तदा संबन्धस्याऽभावासंभवात् संबन्धकृतत्वात् स्वाभाविकः स्यात् यथा धूमाद् वह्निप्रत्ययः संबन्धकृतत्वात् * स्वाभाविक इति सर्वसाधारण एव एवं शब्दादर्थप्रत्ययोपि संबन्धकृतत्वात् स्वाभाविकः सन् सर्वसा. धारणः स्यात् तथा च जातिविशेषे= देशविशेषे किं वार्यम्लेच्छादिजातिविशेष शब्दस्य स्वार्थप्रत्यायकत्वे अनियमः= व्यभिचारो न स्यात् तथा च यवशब्दस्यार्येषु दीर्घशूकानप्रत्यायकत्वेन म्लेच्छेध्वपि दीर्घशुकप्रत्यायकत्वं स्यात्- स्वाभाविकत्वात्. न चैवमस्ति किं तु म्लेच्छेषु प्रियङ्गप्रत्यायकत्वं भवति आर्येषु च दीर्घशूकप्रत्यायकत्वं सोयं जातिविशेषे स्वार्थप्रत्यायकत्वानियमः अर्थप्रत्ययस्य शब्दार्थसंबन्धकृतत्वे नोपपद्यते संकेतकृतत्वे चोपपद्यते- संकेतस्येच्छाधीनत्वेन यवशब्दसंकेतस्यायैदीर्घशूके म्लेच्छैश्च प्रियङ्गौ कृतिसंभवादिति जातिविशेषे शब्दार्थप्रत्ययस्यानियमात्= एकरूपत्वनियमाभावात् शब्दादर्थप्रत्ययः समयकृत एव न तु तदतिरिक्तसंबन्धकृतः संभवतीतिसूत्रार्थः / अत्र " जातिविशेषशब्देन पुनर्देशोऽभिधीयते” इतिवार्तिकम् / व्याचष्टे- सामयिक इति, संकेतमूलक इत्यर्थः / न स्वाभाविकः= न संबन्धान्तरकृतः- संबन्धकृतस्यैव स्वाभाविकत्वप्रदर्शनात, उक्ते हेतुमाह- ऋषीति, अत्र वाक्यादौ ' यतः' इत्यध्याहार्यम् / ऋष्यादीनामर्थप्रत्यायनाय शब्दप्रयोगो यथाकामम्= यथेच्छम्= स्वकृतसंकेतानुसारेण प्रवर्तते यथा यवशब्दस्यार्याणां दीर्घशूके म्लेच्छानां च प्रियङ्गो प्रयोगो भवतितथैव संकेतात् संकेतस्य च स्वाधीनत्वात्, संकेतश्चात्रानादिरेव ग्राह्यस्तेन न पदार्थान्तरप्रत्ययापत्तिः / विपक्षेबाधकमाह- स्वाभाविके इति, शब्दादर्थप्रत्ययो यदि स्वाभाविकः= संबन्धातरकृतः स्यात्तदा यथाकामं शब्दप्रयोगो न स्यात् किं तु यवशब्दस्य स्वभावेन दीर्घशूकबोधकत्वे म्लेच्छेषु प्रियङ्गुबोधकत्वं न स्यात्तेन म्लेच्छानां यवशब्दस्य प्रियङ्गो प्रयोगो न स्यात् किं वा स्वभावेन प्रियङ्गुबोधकत्वे दीर्घशूकबोधकत्वं न स्यात्तेनार्याणां दीर्घशूके यथेच्छं प्रयोगो न स्यात्- स्वाभाविकस्य व्यभिचारासंभवादित्यर्थः / स्वाभाविकस्य व्यभिचाराभावे दृष्टान्तमाह- यथेति, यथा तैजसस्य प्रकाशस्य रूपप्रत्यय. हेतुत्वम्= रूपप्रकाशकत्वं जातिविशेषे= देशविशेष न व्यभिचरति किं तु सर्वत्रैव रूपप्रकाशकत्वं भवत्येव तत्कस्य हेतोः ? स्वाभाविकत्वादेवेतिवक्तव्यं तथा यदि शब्दस्याप्यर्थप्रत्यायकत्वं संबन्धकृतत्वात् स्वाभाविकं स्यात्तदा कुत्रापि न व्यभिचरेदिति यवादिशब्दानां सर्वत्रैव समानरूपेण दीर्घशूकादिप्रत्यायकत्वं स्यात् न चैवमस्तीति तत्तदर्थप्रत्यायकत्वस्य व्यभिचाराच्छब्दस्यार्थप्रत्यायकत्वं न संबन्धकृतं किं तु संकेतमूलकमेवेत्यर्थः / किं वात्र पूर्वपक्षिमुखेन शब्दादर्थप्रत्ययस्य स्वाभाविकत्वमाक्षिप्य तस्य प्रत्याख्यानं सूत्रभाष्याभ्यां कर्तव्यं तथा चात्र स्वाभाविक इत्यस्य संबन्धान्तरकृत इत्यर्थो न कर्तव्यः किं तु मुख्य एवेति विभाव्यम् // 56 // शब्दप्रमाणस्यानुमानेऽन्तर्भावो न संभवतीति पूर्वपक्षी अप्रामाण्यमाशङ्कते- तदिति, तत्= तस्य शब्दस्य= वाक्यस्याऽप्रामाण्यम्- अनृतत्वव्याघातपुनरुक्तदोषेभ्यः अनृतत्वादिदोषाणां वाक्यस्याऽप्रामा