________________ 152 प्रसन्नपदापरिभूषितम्- [2 अध्याये. १आह्निकेपुत्रकामेष्टिहवनाभ्यासेषु, तस्येति शब्दविशेषमेवाधिकुरुते भगवान् ऋषिः / शब्दस्य प्रमाणत्वं न संभवति, कस्मात् 1. अनृतदोषात्-पुत्रकामेष्टौ- "पुत्रकामः पुढेष्टया यजेत" इति. नेष्टौ संस्थितायां पुत्रजन्म दृश्यते, दृष्टार्थस्य वाक्यस्याऽनृतत्वाद् अदृष्टार्थमपि वाक्यम्"अग्निहोत्रं जुहुयात् स्वर्गकामः" इत्याद्यऽनृतमिति ज्ञायते / विहितव्याघातदोषाच- हनने "उदिते होतव्यम्" "अनुदिते होतव्यम्" "समयाध्युषिते होतव्यम्" इति विधाय विहितं व्याहन्ति- "श्यावोऽस्याहुतिमभ्यवहरति य उदिते जुहोति" "शवलोऽस्याहुतिमभ्यवहरति योऽनुदिते जुहोति" "श्यावशबलौ वास्याहुतिमभ्यवहरतो यः समयाध्युषिते जुहोति" (इति) व्याघाताच्चान्यतरद् मिथ्येति / पुनरुक्तदोषाच्च- अभ्यासे देश्यमाने “त्रिः प्रथमामन्वाह त्रिरुण्यापादकत्वात् , अनृतत्वम्= मिथ्यार्थबोधकत्वम्. व्याघातः= पूर्वापरवाक्ययोः परस्परविरुद्धत्वम्. पुनरुक्तत्वं च स्पष्टमेवेति सूत्रार्थः, तदनेन वेदवाक्यानामप्रामाण्यं प्रदर्शितं तेषामप्रामाण्ये लौकिकवाक्या. नामप्यऽप्रामाण्यं स्यादेवेत्याशयः, अनृतत्वादिदोषोदाहरणानि च भाष्ये स्पष्टान्येव / व्याचष्टे- पुत्रेति, पुत्रकामेष्टिवाक्येऽनृतत्वम्. अग्निहोत्रहवनवाक्येषु व्याघात: "त्रिः प्रथमामन्वाह " इत्यादिष्वभ्यासबोधकवाक्येषु पुनरुक्तिर्दोषः इत्येवं यथासंख्यमन्वयः, अभ्यासः= एकवाक्यस्य पुनः पुनरुच्चारणम् / सूत्रघटकतच्छब्दस्य प्रतिपाद्यमाह- तस्येति, तस्येति= तच्छब्देन शब्दविशेषम्= वेदवाक्यम्. अधिकुरुते= आश्रयति अप्रामाण्यबोधनार्थम् ऋषिः= सूत्रकारः / अत्र तच्छब्दस्य वेदवाक्यापरत्वे वैयर्थ्यमेव स्यात्सामान्यतः शब्दपदार्थस्य प्रकृतत्वेन पूर्वसूत्रेभ्यः प्राप्तिसंभवादित्यर्थः। सूत्रप्रतिपाद्यमाह- शब्दस्येति / शब्दाप्रामाण्यकारणं जिज्ञासते- कस्मादिति / पूर्वपक्षी उत्तरमाह- अनृतेति, " पुत्रकामः पुढेष्ट्या यजेत" इति पुत्रकामेष्टिवाक्ये अनृतदोषात्= अनृतत्वदोषादप्रामाण्यम्, अत्रानृतत्वमाह- नेष्टाविति, उक्तायामिष्टौ संस्थितायाम् अनुष्टितायाम् कृतायामपि पुत्रो न जायते इत्यनृतत्वं दोषः / उक्तमन्यत्रातिदिशति- दृष्टार्थस्येति, यत् फलमेतच्छरीरेण लब्धुं शक्यते तद्वोधकं वाक्यं दृष्टाथै यत् फलं शरीरान्तरेणैव लब्धं शक्यते तद्बोधकं वाक्यमदृष्टार्थं यथा- "स्वर्गकामो यजेत " इत्यादिवाक्यम्स्वर्गस्य शरीरान्तरेणैव लभ्यत्वस्वीकारात् . पुत्रस्य त्वेतच्छरीरेणापि लभ्यत्वात् पुत्रकामेष्टिवाक्यं दृष्टार्थे तत्र दृष्टार्थस्य पुत्रकामेष्ट्यादिवाक्यस्यानृतत्वे प्राप्ते " अग्निहोत्रं जुहुयातू स्वर्गकामः" इत्यादिकमदृष्टार्थमपि वाक्यमनृतमिति ज्ञायते अनृतत्वाञ्च तस्याप्यऽप्रामाण्यमित्यन्वयः। व्याघातदोषमाह- विहितेति, विहितस्य व्याघातः= दोषकथनं तादृशदोषाचाप्रामाण्यं वाक्यस्येत्यर्थः, हवने अग्निहोत्रहोममुद्दिश्य " उदिते होतव्यम् "" अनुदिते होतव्यम् " " समयाध्युषिते होतव्यम्" इत्येवं सूर्यस्योदितादिकालेध्वग्निहोत्रविधानं कृतम्, समयाध्युषितकालोप्यनुदितकालविशेष एव तदुक्तम्- " तथा प्रभातसमये नष्टे नक्षत्रमण्डले / रविर्यावन्न दृश्येत समयाध्युषितं च तत्" इति / विहितस्य व्याघातमाह- विहित. मित्यादिना, विहितं होमं व्याहन्ति= दूषयन्ति, उदितहोमस्य व्याघातकवाक्यमाह- श्याव इति, य उदिते जुहोति तस्याहुतिं श्यावः= यमश्वा राक्षसविशेषो वाऽभ्यवहरति= भक्षयति न साऽऽहुतिहोमोद्देश्यदेवतां प्राप्नोतीत्यर्थः, अनुदितहोमस्य व्याघातकवाक्यमाह- शबल इति, शबलः= द्वितीयो यमश्वा राक्षसविशेषो वा, समयाध्युषितहोमस्य ठयाघातकवाक्यमाह-श्यावशबलाविति, वाक्यं पूर्ववदेव व्याख्येयम् , तदेवमुदितहोमे कृते श्यावेनाहुतिभक्षणलक्षणः अनुदितहोमे शबलेनाहुतिभक्षणलक्षणः समयाध्युषितहोमे श्यावशबलाभ्यामाहुतिभक्षणलक्षणो दोष उक्त इति पूर्वोक्तोदितहोमादीनां व्याघातो जातस्तेन व्याघातेनाऽन्यतरत- होमविधायकं वाक्यं किं वा व्याघातबोधकं वाक्यं मिथ्या स्यादेव मिथ्यार्थबोधकत्वाचाऽप्रामाण्यं प्राप्तमित्यर्थः / सिद्धान्ते तु यादितहोमकर्ताऽनुदिते समयाध्युषिते वा जुहोति यदि चानुदितहोमकर्ता उदिते समयाध्युषिते वा जुहोति यदि च समयाध्युषितहोमकर्ता उदिते वाऽनुदिते वा सूर्ये जुहोति तत्र " इयावः” इत्यादिवाक्यैर्दोष उक्तः स्वीकृतहोमकालस्य परित्यागे