________________ शब्दप्रमाणपरीक्षा न्यायभाष्यम्। 153 तमाम्" इति पुनरुक्तदोषो भवति. पुनरुक्तं च प्रमत्तवाक्यमिति. तस्मादप्रमाणं शब्द:- अनृतव्याघातपुनरुक्तदोषेभ्य इति // 57 // न-कर्मकर्तृसाधनवैगुण्यात् // 58 // . नानृतदोषः पुत्रकामेष्टौ, कस्मात् ?, कर्मकर्तृसाधनवैगुण्यात्, इष्टया पितरौ संयुज्यमानौ पुत्रं जनयत इति, इष्टिः करणम् = साधनं. पितरौ कर्तारौ. संयोगः कर्म. त्रयाणां गुणयोगात पुत्रजन्म. वैगुण्याद् विपर्ययः, इष्टयाश्रयं तावत् कर्मवैगुण्यं समीहाभ्रेषः, कर्तृवैगुण्यम् अविद्वान् प्रयोक्ता कपूयाचरणश्च, साधनवैगुण्यं हविरसंस्कृतम् उपहतमिति. मन्त्रा न्यूनाधिकाः स्वरवर्णहीना इति. दक्षिणा दुरागता हीना निन्दिता चेति / अथोपजनाश्रयं कर्मवैगुण्यं मिथ्यासंप्रयोगः, कर्तृवैगुण्यं योनिव्यापादो बीजोपघातश्चेति, साधनवैगुण्यम् इष्टावऽभिहितम् / लोके च दोषबोधनार्थ. तथा चोदितहोमका उदिते एव होत्यव्यमेवमन्यत्रापि विज्ञेयम् / पुनरुक्तिदोषादप्रामाण्य. माह- पुनरुक्तेति, अभ्यासे= पुनरुच्चारणे देश्यमाने= विधीयमाने पुनरुक्तदोषो भवति, उदाहरतित्रिरिति, यागेऽग्निसमिन्धनार्थाः सामधेनीनामका एकादशसंख्याका ऋचः= मत्रा वेदे प्रसिद्धा एव तत्र श्रूयते " पञ्चदश सामधेनीरन्वाह " इति. एकादशानामृचां पञ्चदशत्वं च प्रथमान्त्ययो ऋचोः त्रिरभ्यासेन जायते तदेवोक्तम्- “त्रिः प्रथमामन्वाह त्रिरुत्तमाम्" इति, त्रि:= त्रिवारं प्रथमां ऋचम् उत्तमाम्= अन्त्याम् अन्वाह= पठति इत्यर्थः / तदेतत् पूर्वमीमांसाया: पञ्चमाध्यायतृतीयपादतृतीयाधिकरणेऽन्यत्र च द्रष्टव्यम् / पर्यवसितमाह- पुनरुक्तं चेति / उपसंहरति- तस्मादिति, शब्दस्याऽप्रामाण्ये सूत्रोक्तहेतुमनुवदति- अनृतेति, अनृतत्वादिदोषाणामप्रामाण्यापादकत्वात् तद्घटितं वाक्यमप्रमाणं तत्सादृश्यादन्यदपि वाक्यमप्रमाणमिति वाक्यमात्रस्याप्रामाण्यं प्राप्तमित्यर्थः / / 57 / / / पूर्वपक्षिप्रतिपादितं शब्दाप्रामाण्यं प्रत्याचष्टे-नेति, पुत्रकामेष्टिवाक्यस्याऽप्रामाण्यं नास्ति-पुत्रकामेष्टौ कृतायामपि यः पुत्रजन्माभावः स कर्मकर्तृसाधानानां वैगुण्यात्= वैकल्यात्= दोषादेव भवतीति * न वाक्यस्याप्रामाण्यमितिसूत्रान्वयः / अन्यत् सर्व भाष्ये स्पष्टमेव / व्याचष्टे- नेति, उक्ते पुत्रका मेष्टिवाक्येऽनृतत्वदोष एव नास्ति येनाऽप्रामाण्यं स्यात् / अनृतत्वदोषाभावकारणं जिज्ञासते- कस्मादिति / उत्तरमाह- कमेंति, इष्ट्या= पुत्रकामेष्ट्यनन्तरं पितरौ= मातापितरौ ऋतुकाले संयुज्यमानौ पुत्रं जनयतः नान्यथेति लोकप्रसिद्धमेव / कर्मादीनां स्वरूपं वैगुण्यं चाह- इष्टिरित्यादिना, पुत्रौत्पत्तौ इष्टिः करणम्= साधनम् , इष्टिसंयोगकर्तारौ पितरौ उभयोरेवाधिकारात् , मातापित्रोः संयोगश्च कर्मेति कर्मादीनां स्वरूपमुक्तम् , त्रयाणाम्= कर्मकर्तृसाधनानां गुणयोगात्= साद्गुण्यात्= यथार्थप्रयोगात्= अपचाराभावात्पुत्रजन्म भवति, वैगुण्यात= वैकल्यात्= अपचारात् विपर्ययः= पुत्रजन्माभाव आपद्यते / एषां वैगुण्यमाह- इष्ट्याश्रयमित्यादिना, इष्ट्याश्रयम्= इष्टौ. इष्टयाश्रितकर्मणो वैगुण्यं हि समीहाभ्रेषःक्रियाभ्रंश एव यथा कर्तव्यं तथा न कृतमिति, यत्र प्रयोक्ता विद्वान्= कर्मस्वरूपवेत्ता न भवति किं वा कपूयाचरण:= निन्दिताचारवान् भवति तत्र तत् कर्तृवैगुण्यम् / यत्र हविरुक्तसंस्काररहितं भवति किं वा उपहतम्= अपक्कं दग्धं भ्रष्टं वा भवति तत्र तत् साधनवैगुण्यम् , यत्र च मत्राणां न्यूनाधिकत्वं भवति स्वरवर्णादिहीनत्वं च भवति दक्षिणा दुरागता असत्प्रतिग्रहादिप्राप्ता वा हीना= अल्पा वा निन्दिता= दानायोग्या वा भवति तदपि तत्र साधनवैगुण्यमेव- मत्रादीनामिष्ट्यङ्गत्वात् / एवमिष्टिपक्षीयं कर्मकर्तृसाधनवैगुण्यमुक्त्वा दृष्टोपाये कर्मादिवैगुण्यमाह- अथेति, उपजनाश्रयम्= पुत्रोत्पादने, पुत्रोत्पादनस्य कर्मणो वैगुण्यं मातापित्रोमिथ्यासंप्रयोगः= यादृशेन संयोगेन शुक्रस्य गर्भाशये प्राप्तिन स्यात् स मिथ्यासंप्रयोगः- नैवं पुत्रो जायते इति, योनिव्यापादः= योनिदोषो येन गर्भधारणशक्तिनश्यति स चाधिकमैथुनादिना भवति, बीजोपघातः= शुक्रदोषविशेषो येन गर्ने स्थितिशक्तिर्नश्यति