________________ 154 प्रसन्नपदापरिभूषितम्- [2 अध्याये. १आह्निके'अग्निकामो दारुणी मथ्नीयात्' इति विधिवाक्यम् तत्र कर्मवैगुण्यं मिथ्याभिमन्थनम्. कर्तवैगुण्यं प्रज्ञाप्रयत्नगतः प्रमादः. साधनवैगुण्यम् आर्द्र सुषिरं दारु इति. तत्र फलं न निष्पद्यते इति नाऽनृतदोषः, गुणयोगेन फलनिष्पत्तिदर्शनात्, न चेदं लौकिकाद् भिद्यते- "पुत्रकामः पुत्रष्टया यजेत" इति // 58 // अभ्युपेत्य कालभेदे दोषवचनात् / / 59 // 'न व्याघातो हवने' इत्यनुवर्तते, योऽभ्युपगतं हवनकालं भिनत्ति= ततोऽन्यत्र जुहोति तत्रायमभ्युपगतकालभेदे दोष उच्यते- “श्यावोऽस्याहुतिमभ्यवहरति य उदिते जुहोति" तदिदं विधिभ्रेषे निन्दावचनमिति // 59 // एतदत्र कर्तृवैगुण्यम्=, पुत्रोत्पादनकों:= मातापित्रोवैगुण्यम्= दोषः= स्वरूपदोष इत्यर्थः, साधनवैगुण्य चेष्टिवैगुण्यमेव तच्च पूर्वमिष्टिमुद्दिश्य अभिहितम्= उक्तमेवेत्याह- साधनवगुण्यैमिति, एतादृशवैगुण्येपि पुत्रो न जायते / अत्र लौकिकवाक्यमुदाहरति- अग्निकाम इति, दारुणी= काष्ठद्वयं मथ्नीयात् काष्ठद्वयमन्थनेनाग्निरुत्पद्यते यत इत्याशयः, अत्र कर्मादिवैगुण्यमाह- तत्रेति, यादृशमन्थनेनाग्निर्जायेताऽतादृशं मन्थनं मिथ्याभिमन्थनम् , कतृवैगुण्यमाह- कर्तृवैगुण्यमिति, प्रज्ञागत: प्रमादः मन्थनाज्ञानम् प्रयत्नगतः प्रमादः शैथिल्यम् , दारु= मन्थनीयं काष्ठं यदि आई वा स्यात् सुषिरम्= सछिद्रम्= जर्जरं वा स्यात्तदा साधनवैगुण्यं विज्ञेयम्- अत्र मन्थनीयकाष्ठस्यैव साधनत्वात् , पर्यवसितमाहतत्रेति, तत्र= उक्तकादिवैगुण्ये सति ताशवैगुण्यादेव फलाभावः= अग्नेरनुत्पत्तिर्भवतीति 'अग्निकामः' इत्यादिवाक्येऽनतत्वदोषो नास्ति- कर्मादिसादण्ये फलदर्शनात, तदाह-गुणयोगेनेति, गुणयोगः= यथार्थता= अपचाराभावः। प्रकृतमाह-न चेदमिति. इदम= "पत्रकामः" इतिवैदिक पुत्रकामेष्टिवाक्यम् ' अग्निकामः' इति लौकिकवाक्यान भिद्यते-लौकिकवाक्यवदेव कर्मकर्तृसाधनानां साद्गुण्यसापेक्षत्वात् . तथा च यथोक्तरीत्या कर्मादिवैगुण्येन फलाभावेपि न लौकिकवाक्यस्याऽप्रामाण्यं तथा कर्मादिवैगुण्येन फलाभावेपि न वैदिकवाक्यस्याऽप्रामाण्यम्-प्रमाणमात्रस्य स्वेतिकर्तव्यतासापेक्षत्वात् खेतिकर्तव्यतां विना फलजनकत्वाभावादित्यर्थः / / 58 // प्रदर्शितव्याघातदोषस्याभावमाह- अभ्युपेत्येति, होमायोदितादिकालेष्वेकं कालमभ्युपेत्य= स्वीकृत्य कालभेदे= तादृशस्वीकृतकालस्य परित्यागे दोषवचनात्= "श्यावः” इत्यादिवचनैर्दोष उक्तस्तथा चोदितहोमस्वीकउदिते एव सूर्ये होतव्यम् नानुदिते समयाध्युषिते वा एवमनुदितादिहोमस्वीकारपक्षेपि नियमो विज्ञेयस्तथा च न वाक्येषु प्रदर्शितेषु व्याघातदोषो येनाऽप्रामाण्यं स्यादिति सूत्रार्थः / व्याचष्टे- नेति, नेति पूर्वसूत्रात् तत्पूर्वसूत्राच्च व्याघात इतिपदमनुवर्तनीयं तथा च हवने= हवनविधायकवाक्येषूक्तेषु न व्याघातो दोषो येनाप्रामाण्यं स्यादित्यर्थः / सूत्रप्रतिपाद्यमाह- य इति, अभ्युपगतम्= स्वीकृतं हवनकालम्= हवनस्योदितादिकालं भिनत्ति= त्यजति, भिनत्तीत्यस्यार्थमाह- तत इति, ततः= स्वीकृतकालादन्यत्र= अन्यस्मिन् काले जुहोति तत्र स्वीकृतकालपरित्यागे तस्य दोष उच्यते. दोषबोधकवाक्यमाह-श्याव इति. वाक्यं पर्वत्र व्याख्यातम. होमाय उदितातिरिक्तकालस्वीकर्तुस्तत्परित्यागेऽयं दोष उक्तः, अनुदितातिरिक्तकालस्वीकर्तुस्तत्परित्यागे "शबलः" इत्यनेन दोष उक्तः, समयाध्युषितातिरिक्तकालस्वीकर्तुश्च तत्परित्यागे "श्यावशबलौ” इत्यनेन दोष उक्त इतिविज्ञेयम् / उपसंहरति- तदिदमिति, तत्= तस्माद् इदम्= "श्यावः” इत्यादिवाक्यं विधिभ्रेषे= स्वीकृतकालस्य परित्यागे निन्दावचनमेवेति नैषां वाक्यानामप्रामाण्यं नाप्येताहशनिन्दावाक्यैरुक्तहोमविधायकवाक्यानां व्याघातो येनाऽप्रामाण्यं स्यादित्यर्थः // 59 //