________________ शब्दप्रमाणपरीक्षा ] न्यायभाष्यम्। अनुवादोपपत्तेश्च // 60 // 'पुनरुक्तदोषोऽभ्यासेन' इतिप्रकृतम्, अनर्थकोऽभ्यासः पुनरुक्तः. अर्थवानभ्यासोऽनुवादः, योऽयमभ्यासः- “त्रिः प्रथमामन्वाह त्रिरुत्तमाम्" इति अनुवाद उपपद्यते- अर्थवत्वात्, त्रिर्वचनेन हि प्रथमोत्तमयोः पञ्चदशत्वं सामधेनीनां भवति तथा च मन्त्राभिवादः"इदमहं भ्रातृव्यं पञ्चदशारेण वाग्वज्रेण बाधे योऽस्मान् द्वेष्टि यं च वयं द्विष्मः " इति पञ्चदशसामिधेनीवजं मन्त्रोऽभिवदति तदभ्यासमन्तरेण न स्यादिति // 60 // वाक्यविभागस्य चार्थग्रहणात् // 61 // प्रमाणं शब्दो यथा लोके // 61 / / प्रदर्शितपुनरुक्तेनाऽप्रामाण्याऽभावमाह- अनुवादेति, अनुवादत्वोपपत्तेरित्यर्थः, “त्रिः प्रथमामन्वाह" इत्युक्तस्याऽभ्यासस्य अनुवादत्वोपपत्तेः= अनुवादत्वसंभवात् पुनरुक्तत्वं नास्त्येव येन दोषत्वं स्यात्तेन चाऽप्रामाण्यं स्यादित्यन्वयः, निरर्थकस्याऽभ्यासस्य= पुनरुच्चारणस्य पुनरुक्तत्वं भवति न तु सार्थकस्यापि तस्यानुवादत्वसंभवात् अत्र च “पञ्चदश सामधेनीरवाह" इति श्रूयमाणं पञ्चदशत्वं सामधेनीनामेकादशसंख्याकर्चामभ्यासं विना नोपपद्यते स एवाभ्यासः “त्रिः प्रथमाम्" इतिवाक्येनोक्त इति सामधेनीनामृचां पञ्चदशत्वसंपादकत्वान्न निरर्थकस्तथा च न पुनरुक्तत्वलक्षणो दोषः किं तु अनुवाद एवेति न वाक्यस्याऽप्रामाण्यापत्तिरिति सूत्रार्थः, अत्र- "पुनरुक्तं नाम तस्यैवाऽर्थस्याऽनङ्गीकृतविशेषस्य सतः पुनर्वचनम्. अनुवादस्तु पुनः श्रुतिसामर्थ्यादङ्गीकृतविशेषस्यार्थस्य वादः एवं सति यथोक्तो न दोषः” इतिवार्तिकम् / व्याचष्टे- पुनरुक्तेति, “त्रिः प्रथमाम्" इत्यत्राऽभ्यासेन पुनरुक्तदोषस्तेन चाऽप्रामाण्यमिति यत् प्रकृतम् पूर्वमुक्तं पूर्वपक्षिणा तस्यात्र निरासः क्रियते इत्यर्थः / अभ्यासस्य द्वैविध्यमाह- अनर्थक इति, अभ्यासोऽनर्थक: सार्थकश्च भवति तत्राऽनर्थक एव पुनरुक्तो भवति न सार्थकोपि स त्वनुवाद इत्युच्यते / प्रकृतमाह- योयमिति / सोयमितिशेष: "त्रिः प्रथमाम्" इत्युक्ताभ्यासस्यानुवादत्वे हेतुमाह- अर्थवत्त्वादिति, उक्तार्थवत्त्वमुपपादयति- त्रिर्वचनेनेति, प्रथमोत्तमयो ऋचो: “त्रिः प्रथमाम् " इत्युक्तेन त्रिवचनेन= त्रिवारंपाठेन सामधेनीनामृचां पञ्चदशत्वमुपपद्यते पञ्चदशत्वं चावश्यकम् "पञ्चदश सामधेनीरवाह" इत्यनेन विधानादिति नायमभ्यासो निरर्थको येन दोषः स्यात् किं स्वनवादोयमित्यर्थः / पञ्चदशत्वस्य शत्रबाधकत्वेन सार्थक्ये प्रमाणमाह- इदमिति.भ्रातव्यम= शत्रम पञ्चदशऋग्लक्षणा अरा यस्य तत् पञ्चदशारं तेन वाग्वत्रेण= वाक्यलक्षणवत्रेण सामधेन्यात्मकेन बाधे इत्यन्वयः तमितिशेषः / पञ्चदशसामधेनीलक्षणं वनमुक्तमत्रोऽभिवदति= स्तौति तत्= सामधेनीनां पञ्चदशत्वमभ्यासं विना न संभवति- एकाशत्वादिति “त्रिः प्रथमाम्" इत्यभ्यासः सार्थकत्वान्न पुनसक्तदोष इति नाऽप्रामाण्यापत्तिरित्यर्थः // 60 // नन्वनुवादत्वेपि कथं सार्थक्यं स्याद् येन प्रामाण्यं स्यादित्याशङ्कय सूत्रकारोऽनुवादस्य सार्थक्यमाह- वाक्येति, वाक्यविभागस्य= वाक्यविशेषस्य= अनुवादस्य अर्थग्रहणात्= सप्रयोजनत्वात् सार्थक्यं तेन च प्रामाण्यमिति सूत्रार्थः, अत्र- "वाक्यविभागस्य= अनुवादत्वेन विभक्तवाक्यस्य अर्थग्रहणात्= प्रयोजनस्वीकारात् शिष्टैरिति शेषः” इतिविश्वनाथभट्टाः / व्याचष्टे- प्रमाणमिति, विध्यनुवादादीनां वाक्यविभागानां सार्थकत्वात् शब्द:= वेदवाक्यं सर्वमेव प्रमाणं यथा लोके= लौकिकवाक्यवदिति वेदवाक्यानां प्रामाण्यं सिद्धमित्यर्थः / अत्र= "समस्तानि वेदवाक्यानि पक्षीकृत्याभिधीयते- प्रमाणं वेदवाक्यानि अर्थविभागवत्त्वाद् मन्वादिवाक्यवत्" इति वार्तिकम् / / 61 //