________________ 156 प्रसन्नपदापरिभूषितम्- [2 अध्याये. १आह्रिकेविभागश्च ब्राह्मणवाक्यानां त्रिविधःa विध्यर्थवादानुवादवचनविनियोगात् // 62 // त्रिधा खलु ब्राह्मणवाक्यानि विनियुक्तानि- विधिवचनानि अर्थवादवचनानि अनुवा. दवचनानीति // 62 // तत्र विधिविधायकः // 63 // यद् वाक्यं विधायकम्= चोदकं स विधिः, विधिस्तु नियोगोऽनुज्ञा वा यथा- “अग्निहोत्रं जुहुयात् स्वर्गकामः" इत्यादि // 63 // __ स्तुतिनिन्दा परकृतिः पुराकल्प इत्यर्थवादः // 64 // विधेः फलवादलक्षणा या प्रशंसा सा स्तुतिः संप्रत्ययार्था- स्तूयमानं श्रद्दधीतेति. प्रवतिका च- फलश्रवणात् प्रवर्तते- "सर्वजितो वै देवाः सर्वमजयन् सर्वस्याऽऽत्यै सर्वस्य जित्यै अग्रिमसूत्रमवतारयति- विभागश्चेति, वेदस्य मत्रब्राह्मणभेदेन द्वौ भागौ तत्र ब्राह्मणभागस्य त्रैविध्यमुच्यते / विधीति- बिधिवचनानि अर्थवादवचनानि अनुवादवचनानि चेत्येवं त्रिधा ब्राह्मणवाक्यानां विनियोगात्= समन्वयात् विभागाद्वा ब्राह्मणवाक्यानां त्रैविध्यं सिद्धं तत्र ब्राह्मणभागस्य सर्वस्यापि लौकिकवाक्यवत् प्रामाण्ये सिद्धे तद्घटकानामनुवादवाक्यानामपि प्रामाण्यं प्राप्तमिति न "त्रिः प्रथमाम्" इत्यादिवाक्यानामप्रामाण्यापत्तिरिति सूत्रार्थः / व्याचष्टे- विधेति, विनियुक्तानि विभक्तानि, त्रैविध्यमाह- विधीति // 62 // तत्र विधिलक्षणसूत्रमवतारयति- तत्रेति / विधिरिति- विधायकं वाक्यं विधिरित्युच्यते यथा " स्वर्गकामो यजेत" इति वाक्यं यागविधायकत्वाद् विधिवाक्यमिति सूत्रार्थः / व्याचष्टे- यदिति / विधायकपदस्यार्थमाह- चोदकमिति. प्रवर्तकमित्यर्थः / विधिस्वरूपमाह-विधिरिति, नियोगः= विधानम्= अप्रवृत्तस्य प्रवर्तनम् , प्रवृत्तस्य प्रवर्तनमनुज्ञा, अत्र- "यद्वाक्यं विधत्ते- 'इदं कुर्यात् ' इति स नियोगः, अनुज्ञा तु यत्कर्तारमनुजानाति तदनुज्ञावाक्यम् यथाग्निहोत्रवाक्यमेवैतत् साधनावाप्तिप्रवृत्तिपूर्वकत्वमनुजानाति" इति वार्तिकम्, अग्निहोत्रसाधनं यद् द्रव्यादि तदऽवाप्तौ प्रवृत्तिपूर्वकत्वममग्निहोत्रस्यानुजानाति- अग्रिहोत्रसाधनं विनाग्निहोत्रासंभवात् तदर्थ द्रव्योपार्जनादौ प्रवृत्तस्य प्रवृत्तिमनुजानाति= स्वीकरोतीत्यर्थः / अत्र- " यदेतत् “अग्निहोत्रं जुहुयात् स्वर्गकामः" इतिवाक्यम् अप्रवृत्तप्रवर्तकलक्षणं कपेक्षितोपायतां ज्ञापयद् विधिस्तदेव तत्साधनद्रव्याद्यवाप्तिप्रवृत्तिमनुजानाति" " तस्मात् तदेवाग्निहोत्रादिवाक्यमप्राप्तेऽग्निहोत्रादौ विधिः अन्यतः प्राप्ते तत्साधनेऽनुज्ञेति सिद्धम्" इति च तात्पर्यटीका, तत्साधनोपार्जने इत्यर्थः / विधिवाक्यमुदाहरति- यथेति // 63 // अर्थवादं चतुर्धा विमजते- स्तुतिरिति, इत्येवं चतुर्विधोऽर्थवाद इत्यन्वयः / परस्परविरोधबोधक वाक्यं परकृति; इतिहासवाक्यं पुराकल्पः स्पष्टमन्यदितिसूत्रार्थः / ब्याचष्टे- विधेरिति / फलवादलक्षणा= फलस्यार्थवादरूपा, स्तुतिप्रयोजनमाह- संप्रत्ययार्थेति, विधी= यागादौ स्तूयमाने विश्वासोत्पादनार्थेत्यर्थः, अत्र हेतुमाह- स्तूयमानमिति, स्तूयमाने यागादौ तादृशस्तुत्या श्रद्धा जायते इति स्तुतिः संप्रत्ययार्था / स्तुतेः प्रवर्तकत्वमप्याह-प्रवर्तिकेति, प्रवर्तकत्वे हेतुमाह- फलश्रवणादिति, फलातिशयबोधनं च स्तुतिरिति फलश्रवणं स्तुतिश्रवणमेव तथा च फलश्रवणस्य प्रवर्तकत्वे स्तुतेः प्रवर्तकत्वं सिद्धमित्यर्थः / अत्र स्तुत्यर्थवादवाक्यमुदाहरति- सर्वेति, प्रकृतो यागः सर्वस्य जित्यै= जयाय भवति