________________ 150 शब्दप्रमाणपरीक्षा ] न्यायभाष्यम्। सर्वमेव तेनामोति सर्व जयति" इत्येवमादि / अनिष्टफलवादो निन्दा वर्जनार्था- निन्दितं न समाचरेदिति “स एष वा व प्रथमो यज्ञो यज्ञानां यज्ज्योतिट्रोमो य एतेनाऽनिष्ठाऽन्येन यजते गर्ने पतति= अयमेवैतद् जीयते वा प्रमीयते वा" इत्येवमादि।। अन्यकर्तृकस्य व्याहतस्य विधेर्वादः परकृतिः- “हुत्वा वपामेवाग्रेऽभिधारयन्ति अथ पृषदाज्यं तदुह चरकाचर्यवः पृषदाज्यमेवाग्रेऽभिधारयन्ति 'अग्नेः प्राणाः पृषदाज्यं स्तोमम्' इत्येवमभिदधति" इत्येवमादि / ऐतिह्यसमाचरितो विधिः पुराकल्प इति- "तस्माद्वा एतेन ब्राह्मणा बहिष्पवमानं सामस्तोममऽस्तौषन्- योने यज्ञं प्रतनवामहे" इत्येवमादि। कथं परकृतिपुराकल्पौ अर्थवादाविति?, स्तुतिनिन्दावाक्येनाभिसंबन्धाद् विध्याश्रयस्य कस्यचिदर्थस्य द्योतनादर्थवाद इति // 64 // विधिविहितस्यानुवचनमनुवादः // 65 // अनेनैव देवाः सर्वमजयन् तेन= अनेन प्रकृतेन यागेनेत्यर्थः, तथा चैतद्वाक्यं स्तुत्या स्तूयमाने प्रकृते यागे श्रद्धां च प्रवृत्तिं चोत्पादयतीति स्तुतिवाक्यमित्यर्थः / निन्दास्वरूपमाह- अनिष्टेति, अनिष्टफलकथनं निन्दा, निन्दाप्रयोजनमाह- वर्जनार्थेति, निन्दिते प्रवृत्तिवर्जनार्थेत्यर्थस्तदाह-निन्दितमिति / निन्दावाक्यमाह- स एष इति, सर्वेषां यज्ञानां मध्ये प्रथमो यज्ञो ज्योतिष्टोम एवेति सोमप्रधानयज्ञेषु प्रथमं ज्योतिष्टोम एव कर्तव्यः, यस्तुपुरुष एतेन ज्योतिष्टोमेनानिष्ट्रा= ज्योतिष्टोममकृत्वा अन्येन यागेन यजते स पतति, पतनपदार्थमाह- अयमिति, जीयते= विनश्यति. प्रमीयते= अपम्रियते, तदनेन सोम. प्रधानयागेषु प्रथमं ज्योतिष्टोमातिरिक्तयागे प्रवृत्तिर्निन्दितेति न कर्तव्येत्यर्थः, तदेतत् पूर्वमीमांसायाः पञ्चमाध्यायतृतीयपादचतुर्दशाधिकरणे द्रष्टव्यम् / ___परकृतिस्वरूपमाह- अन्येति, व्याहतस्य= विरुद्धस्य, कर्तृभेदेन विरुद्धस्य विधेर्वादः= कथनं परकृतिरित्यर्थः, उदाहरति- हुत्वेति, होमानन्तरं वपामभिधारयन्ति तदनन्तरं पृषदाज्यम्, चरकाध्वयंवस्तु पृषदाज्यमेवाग्रेऽभिधारयन्ति. पृषदाज्यस्य प्रथमाभिधारणे प्रमाणमाहुः- अग्नेरिति, यतोऽनेः पृषदाज्यं प्राणा अतस्तस्य प्रथममभिधारणमिति श्रुत्यर्थः, वपा= पशोर्हृदयस्य मेदः, अभिधारणम्= धृतेनाभिषेचनम्, पृषदाज्यम्= दधियुक्तमाज्यं होमार्थम्, चरकाध्वर्यवः= वैदिकविशेषाः, अत्रैकेषां प्रथम वपाभिधारणमुक्तं तद्विरुद्धं च चरकाध्वयूणां प्रथमं पृषदाज्याभिधारणभिति परस्परविरुद्धविधेः कथनात परकृतिरित्याशयः / पुराकल्पस्वरूपमाह- ऐतिह्येति, ऐतिह्यसमाचरितः= इतिहाससदृशो विधिः पुराकल्पः= भूतार्थवाद इत्यर्थः, उदाहरति- तस्माद्वेति, " योने यज्ञम् " इत्यादिमन्त्रसमुदायात्मकं बहिपवमाननामकं सामस्तोममस्तौषन् इति श्रुत्यर्थः, अत्र " अस्तौषन् " इति भूतार्थकथनात् पुराकल्पत्वं विज्ञेयम् / स्तावकं निन्दकं वा वाक्यमर्थवाद इत्युच्यते तत्र स्तुतिनिन्दारहितयोः परकृति पुराकल्पयोरर्थवादत्वकारणं जिज्ञासते- कथमिति / उत्तरमाह- स्तुतीति, स्तुतिवाक्येन निन्दावाक्येन वा संबन्धाद् विध्याश्रयस्य= विधिप्रतिपाद्यस्य विधेयसंबद्धस्य वा कस्यचिदर्थस्य द्योतनादेव परकृतिपुराकल्पयोर्थवादत्वं विज्ञेयम् , यथा पूर्वत्र वपापृषदाज्ययोरभिधारणस्य वैदिकसमुदायभेदेन प्राथम्यमुच्यते, परत्र च बहिष्पवमानसामगानमुच्यते, हविषामभिधारणं सामगानं च विहितमेवेति पूर्वमीमांसायां प्रसिद्धमेव तदाश्रितावेतौ परकृतिपुराकल्पावित्यर्थवादरूपावित्यर्थः / पूर्वमीमांसायामप्युक्तम्- " परेण महता पुरुषेणेदं कर्म कृतमिति प्रतिपादकोर्थवाद: परकृतिर्यथा- " अग्निर्वा अकामयत्" इति, परप्रवक्तृकार्थादिप्रतिपादकः पुराकल्पः” इति // 64 // _____ उद्दिष्टस्यानुवादस्य स्वरूपमाह- विधीति, विधिविहितस्य पदार्थस्य अनुवचनम्= विधानानन्तरं किंचित्प्रयोजनाय कथनमनुवाद इत्युच्यते यथा-" दर्शपौर्णमासाभ्यां स्वर्गकामो यजेत " इतिविधिवा