________________ 158 प्रसन्नपदापरिभूषितम्- [2 अध्याये. १आह्निकेविध्यनुवचनं चानुवादो विहितानुवचनं च, पूर्वः शब्दानुवादोऽपरोऽनुवादः, यथा पुनरुक्तं द्विविधम् एवमनुवादोपि / किमर्थ पुनर्विहितमनूयते ?, अधिकारार्थम्= विहितमधिकृत्य स्तुतिर्बोध्यते निन्दा वा विधिशेषो वाऽभिधियते, विहितानन्तरार्थोऽपि चानुवादो भवति, एवमन्यदप्युत्प्रेक्षणीयम् / 6.12 ___लोकेपि च विधिरर्थवादोऽनुवाद इति च त्रिविधं वाक्यम्- 'ओदनं पचेत्' इति विधिवाक्यम् , अर्थवादवाक्यम्- 'आयुर्व! वलं सुखं प्रतिभानं चान्ने प्रतिष्ठितम्' , अनुवादः'पचतु पचतु भवान्' इत्यभ्यासः, 'क्षिप्रं पच्यताम्' इति वा 'अङ्ग पच्यताम्' इति (वा). अध्येषणार्थम् , 'पच्यतामेव' इति चावधारणार्यम् / यथा लौकिके वाक्ये विभागेनार्थग्रहणात् प्रमाणत्वम् एवं वेदवाक्यानामपि विभागेनार्थग्रहणात् प्रमाणत्वं भवितुमर्हतीति // 65 // क्येन विहितस्य दर्शयागस्य पौर्णमासयागस्य च- " य एवं विद्वान् पौर्णमासी यजते, य एवं विद्वान् अमावास्यां यजते" इत्यनुवादः अनेन हि षट्सु यागेषु मध्ये आग्नेयाग्नीषोमीयोपांशुयाजानां पौर्णमासीकाल: अग्नेयैद्राग्नोपांशुयाजानां चामावास्याकाल: प्रतिपाद्यते अन्यत् पूर्वमीमांसायां द्रष्टव्यमिति सूत्रार्थः / व्याचष्टे-विधीति, विधेरनुवचनं विहितस्यानुवचनं चेतिद्विविधोऽनुवादो भवति तत्र पूर्वः= विध्यनु. वचनं शब्दानुवादः, अपरः= विहितानुवचनमर्थानुवादः यथा पुनरुक्तं द्विविधं भवति तत्र ' अनित्यः अनित्यः' इति शब्दपुनरुक्तं ' अनित्यो विनाशी' इत्यर्थपुनरुक्तं तथानुवादोपि द्विविध इत्यर्थस्तत्र विष्यनुवचनं यथा- " य एवं विद्वान् " इत्युदाहृतमत्र "दर्शपौर्णमासाभ्यां जयेत" इतिविधेः शब्दानु. वाद एव, विहितानुवचनं यथा- " अग्निहोत्रं जुहोति" इतिविहितस्याग्निहोत्रस्य दधिकरणकत्वविधानाय- "दन्ना जुहोति" इत्यनुवाद इतितात्पर्यटीकाभिप्रायः / विहितानुवादस्य प्रयोजनं जिज्ञासतेकिमर्थमिति / उत्तरमाह- अधिकारार्थमिति, उक्तं व्याचष्टे-विहितमिति विहितस्य यागादेः स्तुतिबोधनार्थ किं वा वेदविरुद्धत्वे निन्दाबोधनार्थ किं वा विधि शेषभूतगुणवोधनार्थमनुवादः क्रियते तत्र स्तुतिबोधनार्थं यथा- " य एवं विद्वान् " इत्यादि- स्तुतिबोधनात् यथा च " सर्वजितः" इत्यायुदाहृतम्, निन्दाबोधनार्थ यथा- " स एष वा व प्रथमो यज्ञः" इत्यायुदाहृतम्, विधिशेषबोधनार्थ यथा" दन्ना जुहोति" इति विधिशेषस्य दधिद्रव्यस्य विधानाय- द्रव्यं विना होमासंभवादन दधि विधिशेषः / अनुवादस्य प्रयोजनान्तरमाह-विहितानन्तरेति, विहितयोरनन्तरार्थः= आनन्तर्यार्थः= आनन्तर्यबोधनायेत्यर्थः, अत्र- " यथा सोमो विहितो दर्शपौर्णमासौ च तयोरानन्तर्य विधातुमुभयानुवादः" दर्शपौर्णमासाभ्यामिष्ट्रा सोमेन यजेत" इति" इति तात्पर्यटीका, " सोमेन यजेत" सोमयागवि. धानम् " दर्शपौर्णमासाभ्याम्" इति दर्शपौर्णमासविधानम् / उपसंहरति- एवमिति, अन्यत्= अनुवादप्रयोजनम् , यथा मीमांसातृतीयाध्यायान्ते- " तरसाः सवनीयाः पुरोडाशा भवन्ति " इति सवनीयपुरोडाशानुवादः सवनीयपुरोडाशेष्वेव तरसत्वस्य= मांसमयत्वस्य नियमार्थः, इत्यादि स्वयमेव विभावनीयमित्यर्थः। लौकिकवाक्यानामपि विध्यर्थवादानुवादभेदेन त्रैविध्यमाह- लोकेपीति / लौकिकं विधिवाक्यमाह- ओदनमिति / अर्थवादवाक्यमाह-आयुरिति, प्रतिभानम्= प्रतिभा, पचनीयान्नस्य प्रशंसाबोधकत्वादर्थवादः, आयुरादीनामन्नाश्रितत्वकथनं चान्नप्रशंसैव / अनुवादवाक्यमाह-पचतु इति, अभ्यासः= पुनरुक्तिः, 'पचतु पचतु' इत्यभ्यासेन विहितानुष्ठीयमानपाकक्रियाया अनुवादः स्पष्ट एव / प्रार्थनापूर्वक. प्रवर्तनायामनुवादवाक्यद्वयमाह- क्षिप्रमिति अङ्गेति च, अनेन पाके प्रार्थनया प्रवृत्तिर्बोध्यते, अध्येषणा= प्रार्थनया नियोजनम् / अनेति संबोधनम् / नियमार्थमनुवादवाक्यामाह- पच्यतामेवेति, एवकारेण पाकावधारणं बोध्यते / पर्यवसितमाह- यथेति, यथा प्रदर्शितलौकिकवाक्यानां विभागेन विध्य