________________ शब्दप्रमाणपरीक्षा] न्यायभाष्यम् 159 नानुवादपुनरुक्तयोविशेषः- शब्दाभ्यासोपपत्तेः // 66 // 'पुनरुक्तमसाधु साधुरनुवादः' इत्ययं विशेषो नोपपद्यते / कस्मात् ?. उभयत्र हि प्रतीतार्थः शब्दोऽभ्यस्यते. चरितार्थस्य शब्दस्याऽभ्यासादुभयमसाध्विति // 66 // शीघ्रतरगमनोपदेशवदभ्यासान्ना विशेषः // 67 // नानुवादपुनरुक्तयोरविशेषः / कस्मात् ?, अर्थवतोऽभ्यासस्याऽनुवादभावात् . समानेऽभ्यासे पुनरुक्तम् अनर्थकम् अर्थवानभ्यासोऽनुवादः- शीघ्रतरगमनोपदेशवत् ' शीघ्रं शीघ्रं गम्यताम्' इति क्रियातिशयोऽभ्यासेनैवोच्यते. उदाहरणार्थ चेदम् , एवमन्योप्यभ्यासः- ‘पचति पचति' इति क्रियानुपरमः, 'ग्रामो ग्रामो रमणीयः' इति व्याप्तिः, 'परि परि त्रिगर्तेभ्यो दृष्टो नुवादादिलक्षणस्यार्थस्य ग्रहणाद् ग्राहकत्वाद्वा प्रामाण्यं तथा वैदिकवाक्यानामपि विभागेन विध्यनुवादादिलक्षणस्यार्थस्य ग्रहणाद् ग्राहकत्वाद्वा प्रामाण्यमुपपद्यते तथा च “त्रिः प्रथमामन्वाह " इत्यादिवाक्यानामनुवादत्वं सिद्धम् अनुवादश्च सार्थकः सार्थकस्य च प्रामाण्यमावश्यकमिति प्रामाण्यं सिद्धमिति " अनुवादोपपत्तेश्च 60" "वाक्यविभागस्य चार्थग्रहणात्" इति सूत्राभ्यामुपसंहार्यम् इत्यलम् // 65 // ___ अनुवादपुनरुक्तयोः पूर्वपक्षी विशेषाभावमाशङ्कते- नेति, अनुवादपुनरुक्तयोः परस्परं विशेषो नास्ति- उभयत्रापि शब्दाभ्यासस्य= पुनरुच्चारणस्योपपत्तेः= सत्त्वात् तथा च पुनरुक्तस्याऽप्रामाण्येऽनुवादस्याप्यप्रामाण्यं प्राप्तं तथा च “त्रिः प्रथमामन्वाह " इत्यादिवाक्यानां पुनरप्रामाण्यं प्राप्तमिति सूत्रार्थः / व्याचष्टे- पुनरिति, अयं च षष्ठिसूत्रोक्तसिद्धान्तवाक्यस्यानुवादः / स्ववक्तव्यमाह- इत्ययमिति, अनुवादपुनरुक्तयोः साधुत्वासाधुत्वाभ्यां विशेषो नोपपद्यते / विशेषाभावकारणं जिज्ञासतेकस्मादिति / पूर्वपक्ष्युत्तरमाह- उभयत्रेति, उभयत्र= पुनरुक्तानुवादयोर्शीतार्थः शब्दः पुनरुच्चार्यते चरितार्थस्य= ज्ञातार्थस्य शब्दस्योभयत्राऽभ्यासादुभयमेवाऽसाधु= अप्रमाणं तथा च पुनरुक्तवदनुवादस्याप्यप्रामाण्ये प्राप्ते " त्रिः प्रथमाम्" इत्यादिवाक्यानामप्राण्यं प्राप्तमित्यर्थः / / 66 / / ____ उक्तपूर्वपक्षं प्रत्याचष्टे- शीति, अभ्यासात्= पुनरुच्चारणमात्रसाम्यात् किं वा अभ्यासात्= पुनरुक्तादनुवादस्याविशेषो नास्ति किं त्वस्ति विशेषः किं वा यथा 'गम्यतां गम्यताम् ' इत्यभ्यासात् शीघ्रतरगमनस्योपदेशो भवतीति सार्थक्यात प्रामाण्यं तथानुवादेपि ज्ञातार्थशब्दाभ्यासस्यापि सार्थक्यात् प्रामाण्यं भवति पुनरुक्तं च न सार्थकमिति न प्रमाणमिति न पुनरुक्तानुवादयोरविशेष इतिसूत्रार्थः / व्याचष्टे- नेति / पुनरुक्तानुवादयोर्विशेषस्य कारणं जिज्ञासते- कस्मादिति / उत्तरमाह- अर्थवत इति, सार्थकस्याभ्यासस्य अनुवादभावात्= अनुवादत्वस्वीकारात्, पुनरुक्तानुवादयोर्विशेषोपपादनार्थ पुनरुक्तस्वरूपमाह- समाने इति, समाने पूर्वोक्तापेक्षया समाने अनर्थके इति यावत्- पूर्वोक्तापेक्षया विशेषाभावेन साम्ये आनर्थक्यस्य स्पष्टत्वात्. सति सप्तमी / अनुवादस्वरूपमाह- अर्थवानिति, अर्थववादेव च प्रामाण्यमनुवादस्य सिद्धम् / किं वा पुनरुक्तानुवादयोः शब्दाभ्यासे समानेपि पुनरुक्तमनर्थकम् अनुवादस्तु अर्थवान्= सार्थक इति प्रमाणमेवेत्यर्थः / अत्र दृष्टान्तमाह- शीति, उदाहरतिशीघ्रमिति, यथा 'शीघ्रं शीघ्रं गम्यताम् ' इत्यत्र शीघ्रपदाभ्यासेन शीघ्रतरगमनस्योपदेशो जायते इति सार्थक्यं प्रामाण्यं च, क्रियातिशयः= शीघ्रगमनम् / उक्ते संक्षेपं सूचयति- उदाहरणार्थमिति / उक्तमन्यत्रातिदिशति- एवमिति / उदाहरति- पचतीति, क्रियानुपरमः= पाकक्रियासातत्यम् ‘पचति पचति ' इत्यभ्यासेनैवोच्यते, 'ग्रामो ग्रामो रमणीयः' इत्यत्र देशे रमणीयत्वव्याप्तिरभ्यासेनैवोच्यते,