________________ 160 प्रसन्नपदापरिभूषितम्- [2 अध्याये. १आह्निकेदेवः' इति परिवर्जनम् , 'अध्यऽधिकुण्डं निषण्णम् , इति सामीप्यम् , “तिक्तं तिक्तम्' इति प्रकारः, एवमनुवादस्य स्तुतिनिन्दाशेषविधिषु अधिकारार्थता विहितानन्तरार्थता चेति // 67 // किं पुनः प्रतिषेधहेतूद्धारादेव शब्दस्य प्रमाणत्वं सिध्यति ?. न, अतश्चमन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यम्- आप्तप्रामाण्यात् // 68 // किं पुनरायुर्वेदस्य प्रामाण्यम् ?, यत्तदायुर्वेदेनोपदिश्यते- 'इदं कृत्वेष्टमधिगच्छति इदं वयित्वाऽनिष्टं जहाति' (इति) तस्यानुष्ठीयमानस्य तथाभावः= सत्यार्थता= अविपयेयः, मन्त्रपदानां च विषभूताशनिप्रतिषेधार्थानां प्रयोगेऽर्थस्य तथाभावः. एतत् प्रामाण्यम् / किंकृतमेतत् ?, आप्तप्रामाण्यकृतम् / किंपुनराप्तानां प्रामाण्यम् ?, साक्षात्कृतधर्मता भूतदया यथाभूतार्थचिख्यापयिषेति= आप्ताः खलु साक्षात्कृतधर्माणः 'इदं हातव्यम् इदमस्य हानिहेतुः. इद'परि परि ' इत्यत्र वृष्टेस्निगर्तदेशपरिवर्जनमभ्यासेनैवोच्यते, 'अध्यधिकुण्डम्' इत्यत्र कुण्डसामीप्यमभ्यासेनैवोच्यते अत्र " नित्यवीप्सयोः" " उपर्यध्यवसः" इत्यादिसूत्रेणाऽध्यादिशब्दानां द्विरुक्तिरिति व्याकरणे द्रष्टव्यम् , 'तिक्तं तिक्तम् ' इत्यत्र तिक्तत्वं प्रकारोऽभ्यासेनैवोच्यते इत्यन्वयस्तथा चैतादृशार्थबोधकत्वादत्राभ्यासः सार्थक एव तदेतदव्याकरणस्य द्विरुक्तिप्रकरणे द्रष्टव्यम् / प्रकृतमाह- एवमिति, एवम्= उक्ताभ्यासानां सार्थक्यवत् , अनुवादस्य स्तुत्यादिष्वधिकारार्थत्वाद् विहितानन्तरार्थत्वाच्च सार्थक्यं सार्थक्याच्च प्रामाण्यमिति नानुवादपुनरुक्तयोरविशेषो येनानुवादस्याप्रामाण्यं स्यादित्यर्थः / अन्यत् " विधिविहितस्य " इतिसूत्रभाष्ये स्पष्टम् / स्तुतिनिन्दाशेषविधिषु= स्तुतिनिन्दाविधिशेषार्थस्यानुवादस्येत्येवं वा व्याख्येयम् // 67 // ___ अग्रिमसूत्रमवतारयति- किमिति, आक्षेपवाक्यमिदं न सिध्यतीत्यर्थः, शब्दप्रामाण्यस्य ये प्रतिषेधहेतवोऽनृतत्वादिदोषा उक्ता तेषामुद्धारात्- निरासात् शब्दस्याऽप्रामाण्यं निवर्तितुमर्हति न तु प्रामाण्यं प्राप्नुमपि अतः शब्दप्रामाण्यसाधनाय सूत्रेण प्रमाणमाहेत्यर्थः / मन्त्रेति- तत् तस्य शब्दस्य वेदवाक्यस्य प्रामाण्यं सिद्धम्- आप्तप्रामाण्यात्= वाक्योपदेशकानामाप्तानां प्रामाण्यात् मत्रायुर्वेदप्रामाण्यवदिति सूत्रान्वयः, पुरुषस्य प्रामाण्ये तदुपदिष्टवाक्यस्य प्रामाण्यं लोकप्रसिद्धमेव. किं वा वेदवाक्यं प्रमाणम् आप्तप्रामाण्याद् मत्रायुर्वेदवाक्यवदित्येवमनुमानं कर्तव्यं आप्तप्रामाण्यं च पक्षभूते वाक्ये आप्तकर्तृकत्वसंबन्धेन संभवति / व्याचष्टे-किमिति, वेदप्रामाण्यं ह्येवं मत्रायुर्वेदप्रामाण्याधीनं जातमिति किमित्यादिनाऽऽयुर्वेदप्रामाण्यकारणं पृष्टम् / उत्तरमाह- यदिति, इदम्= औषधसेवनं कृत्वा. इदम्= अपथ्यं वर्जयित्वा परित्यज्य, तस्य= उक्तोपदेशस्य. तथाभावः= इष्टजनकत्वम् अनिष्टनिवर्तकत्वं च यत् तदेव प्रामाण्यम्= प्रामाण्यकारणमित्यन्वयः, तथाभावं व्याचष्टे- सत्यार्थतेति, सत्यार्थतामपि व्याचष्टे- अविपर्यय इति फलाऽविसंवादः= फलोपलब्धिरित्यर्थः, सर्वत्रैव फलोपलब्धेः प्रामाण्यकारणत्वात् / मत्राणां प्रामाण्यकारणमाह-विषेति, 'विषं हर हर ''भूतबाधां हर हर' इत्यादीनां मत्रपदानाम्= मत्रवाक्यानां विषादिप्रतिषेधार्थानां मत्रशास्त्रोक्तरीत्या प्रयोगे कृतेऽर्थस्य= मत्रवाक्यार्थस्य तथाभावः= सत्यता= विषनिवृत्यादेरुपलब्धिरेव मत्रप्रामाण्यकारणमित्यन्वयः, अशनिपदं शस्त्रास्त्रपरं विज्ञेयम् / उपसंहरति- एतदिति, उक्तमेव प्रामाण्यम्= प्रामाण्यकारणम् / उक्तप्रामाण्यस्य कारणं / जिज्ञासते-किमिति / उत्तरमाह- आप्तेति, आप्तप्रामाण्यकृतं मत्रादिप्रामाण्यमित्यर्थः / आप्तप्रामाण्यस्य कारणं स्वरूपं वा जिज्ञासते- किं पुनरिति / उत्तरमाह- साक्षादिति, साक्षात्कृतः= प्रत्यक्षेण दृष्टः पदार्थधर्मो येन स साक्षात्कृतधर्मस्तस्य भावः साक्षात्कृतधर्मता भूतदया= जीवेषु दया यथाभूतार्थस्ययथार्थस्य चिख्यापयिषा उपदेशेच्छा इति त्रयमेवाप्तानां प्रामाण्यस्य कारणं तच्च त्रितयं ऋष्यादिषु संभवत्येव / उक्तमाप्तेषु समन्वेति- आता इत्यादिना, इदम्= दुःखम् , अस्य= दुःखस्य हानहेतुरिदम