________________ शब्दप्रमाणपरीक्षा) न्यायभाष्यम् / मस्याधिगतव्यम् इदमस्याधिगमहेतुः' इति भूतान्यनुकम्पन्ते, तेषां खलु वै प्राणभृतां स्वयमनवबुद्धयमानानां नान्यदुपदेशाद् अवबोधकारणमस्ति, न चाऽनवबोधे समीहा वर्जनं वा, न चाऽकृत्वा स्वस्तिभावः, नाप्यऽस्यान्य उपकारकोप्यस्ति, हन्त वयमेभ्यो यथादर्शनं यथाभूतमुपदिशामः ते इमे श्रुत्वा प्रतिपद्यमाना हेयं हास्यन्ति अधिगन्तव्यमेवाऽधिगमिष्यन्तीति एवमातोपदेशः एतेन त्रिविधेनाप्तप्रामाण्येन परिगृहीतोऽनुष्ठीयमानोऽर्थस्य साधको भवति. एवमाप्तोपदेशः प्रमाणम् , एवमाप्ताः प्रमाणम् / ____दृष्टार्थेनाप्तोपदेशेनाऽऽयुर्वेदेनाऽदृष्टार्थो वेदभागोऽनुमातव्यः- प्रमाणमिति- आप्तप्रामायस्य हेतोः समानत्वादिति / अस्यापि चैकदेशः- "ग्रामकामो यजेत" इत्येवमादिष्टार्थस्तेनानुमातव्यमिति। . ____ लोके च भूयानुपदेशाश्रयो व्यवहारः, लौकिकस्याप्युपदेष्टुरुपदेष्टव्यार्थज्ञानेन परानुजिघृक्षया यथाभूतार्थचिख्यापयिषया च प्रामाण्यम् तत्परिग्रहादाप्तोपदेशः प्रमाणमिति / द्रष्टुभवदुःखप्रदपदार्थवर्जनम्, इदं सुखं अस्य= जीवस्य, अधिगन्तव्यम्= प्राप्यं सुखप्रदपदार्थार्जनं च सुखप्राप्तिहेतुरित्यन्वयः, इति= इत्येवमाप्ता विचार्य भूतानि अनुकम्पन्ते= स्वोपदेशेनानुगृह्णन्ति / एतादृशानुहस्य कारणमाह- तेषामिति, तेषाम्= उपदेष्टव्यानां जीवानाम् , उपदेशं विना बोधकारणं नास्तीत्याप्ता उपदिशन्तीत्यर्थः / बोधावश्यकतामाह-न चेति, समीहा= इष्टसाधनेषु प्रवृत्तिः, वर्जनम्= अनिष्टसाधनाद् निवृत्तिः / प्रवृत्तिनिवृत्त्योरावश्यकतामाह- न चेति, अकृत्वा= उक्तप्रवृत्तिनिवृत्तिभ्यां विना, स्वस्तिभावः= सुखं दुःखनिवृत्तिश्च न संभवतीत्यर्थः / नापीति- अस्य= जीवस्य, अन्यः= उपदेशातिरिक्तो वाऽऽतातिरिक्तो वा / पुनराप्तविचारमाह- हन्तेति, हन्तपदमत्रानुकम्पायाम् / वयमाप्ताः, एभ्यः= जीवेभ्यः, यथादर्शनम्= स्वप्रत्यक्षानुसारेण, यथाभूतम्= पदार्थस्वरूपानुसारेण= यथार्थम् , ते इमे= जीवाः, प्रतिपद्यमानाः= श्रुतार्थबोधेन, हेयम्= दुःखादिकम् , अधिगन्तव्यम्= प्राप्यं सुखादिकम् / उपसंहरति- एवमिति, एतेन त्रिविधेन= साक्षात्कृतधर्मता भूतदया यथाभूतार्थचिख्यापयिषा च इत्यनेन त्रिविधेनाप्तप्रामाण्येन परिगृहीतः= प्रमाणीभूतः ज्ञातो वा अनुष्ठीयमानः= सेव्यमान औषधादिरुपदेशो वार्थस्य= स्वेष्टस्यारोग्यादेः साधको भवति एवम्= तथा च फलोपलब्ध्या आप्तोपदेशः प्रमाणं भवति एवम्= ततश्च यथार्थोपदेशकत्वादाप्ताः प्रमाणम्= आप्तानां प्रामाण्यं सिद्धमित्यन्वयः / प्रकृतमाह- दृष्टार्थेति, दृष्टार्थेनायुर्वेदलक्षणेनाप्तोपदेशेनादृष्टाथों वेदभागः 'प्रमाणम् / इत्यनुमातव्यः इत्यन्वयः, आयुर्वेदस्य दृष्टारोग्याद्यर्थत्वं स्पष्टमेव. वेदस्य च स्वर्गाद्यदृष्टार्थोपदेशकत्वेनादृष्टार्थत्वम् / उक्त हेतुमाह- आप्तेति, आप्तप्रामाण्यलक्षणहेतोरुभयत्र समानत्वात् किं वायुर्वेदे इव वेदेपि सत्त्वादित्यर्थस्तथा च 'वेदः प्रमाणम् आप्तप्रामाण्याद् आयुर्वेदवत् ' इत्यनुमानप्रयोगः / पक्षान्तरमाह-अस्येति, अस्य वेदस्यापि " ग्रामकामः" इत्याद्येकदेशो दृष्टार्थः- फलस्य ग्रामस्यानेन शरीरेणापि लब्धं शक्यत्वात् कृतायां च ग्रामकामेष्टौ ग्राम इष्टिकर्तृभिरुपलब्ध इति " ग्रामकामः" इति वाक्यस्य प्रामाण्यं सिद्धमिति तेन= दृष्टार्थेन वेदभागेनादृष्टार्थस्य वेदभागस्य प्रामाण्यमनुमातव्यम्- अदृष्टार्थो वेदभागः प्रमाणं वेदत्वाद् दृष्टार्थवेदभागवद् इत्यन्वयः / न्यायनये वेदस्येश्वरनिर्मितत्वादीश्वरस्य चाप्तत्वादित्याप्तप्रामाण्यात= आप्तनिर्मितत्वादिस्य प्रामाण्यमित्यनुसंधेयम् / त्रिविधं हि वाक्यम्- वेदवाक्यं शास्त्रवाक्यं लौकिकवाक्यं चेति, लौकिकवाक्येष्वपि प्रामाण्यकारणम् उक्तं भूतदयादित्रितयमेवेत्याह- लोकेति, लोके च भूयान् व्यवहार उपदेशाश्रयः= उपदेशा. धीन एवेति तादृशव्यवहारप्रयोजकत्वाल्लौकिकवाक्यानां प्रामाण्यं प्राप्नोति तच्चोपदेष्ट्रप्रामाण्याधीनम , 21