________________ 162 प्रसन्नपदापरिभूषितम्- [2 अध्याये. १आह्निकेतृसामान्याच्चानुमानम्- ये एवाऽऽता वेदार्थानां द्रष्टारः प्रवक्तारश्च ते एवायुर्वेदप्रभृतीनाम् इत्यायुर्वेदप्रामाण्यवद् वेदप्रामाण्यमनुमातव्यमिति / नित्यत्वाद्वेदवाक्यानां प्रमाणत्वे " तत्प्रामाण्यमाप्तप्रामाण्यात्" इत्ययुक्तम् / शब्दस्य वाचकत्वादर्थप्रतिपत्तौ प्रमाणत्वं न नित्यत्वात्, नित्यत्वे हि सर्वस्य सर्वेण वचनात् शब्दार्थव्यवस्थानुपपत्तिः / नाऽनित्यत्वे वाचकत्वमितिचेत् ? न- लौकिकेष्वर्थदर्शनात् / तेपि नित्या इतिचेत् ? न- अनाप्तोपदेशादर्थविसंवादोऽनुपपन्न:- नित्यत्वाद्धि शब्दः प्रमाणमिति / अनित्यःस इति चेत् ? अविशेषवचनम्= अनाप्तोपदेशो लौकिको न नित्य इति कारणं वाच्यमिति / लौकिकोपदेष्टुरपि च प्रामाण्यम् उपदेष्टव्यार्थज्ञानादित्रितयेनैव भवति, उपदेष्टव्यार्थज्ञानेन= साक्षात्कृतधर्मतया. तत्परिग्रहात्= उक्तत्रितयपरिज्ञानात्, आप्तवृत्तिभूतदयादिपरिज्ञानेन तदुपदेशस्य प्रामाण्यं भवति, तथा च यदेव त्रितयं लौकिकवाक्यस्य प्रामाण्यकारणं तदेव वेदेप्यस्तीति सिद्धं वेदप्रामाण्यमित्यर्थः / किं वा तत्परिग्रहात्= आप्तस्योपदेष्टुः प्रामाण्यज्ञानादित्यर्थः / प्रकारान्तरमाह- द्रष्ट्रीति, ये एवाप्ता मन्वादय आयुर्वेदप्रभृतीनां दृष्टार्थानां द्रष्टारः प्रवक्तारश्च ते एव वेदार्थानां द्रष्टारः वेदवाक्यानां च प्रवक्तार इति आयुर्वेदप्रामाण्यवद् वेदप्रामाण्यमनुमातव्यम्- वेदवाक्यं प्रमाणं मन्वाद्याप्तोपदिष्टत्वाद् आयुर्वेदादिवत् इत्येवं द्रष्ट्रप्रवक्त्रोः सामान्यात= साम्यात्= ऐक्यादप्यनुमानमित्यन्वयः, अन्यथाऽऽयुवेंदादेरपि प्रामाण्यं न स्यादिति वेदाप्रामाण्ये बाधकतर्कोनुसंधेय इत्यर्थः / वेदवाक्यानां प्रामाण्यं नित्यत्वादेवास्ति नत्वाप्तप्रामाण्याद् वेदनिर्मातुराप्तस्याभावादिति * वेदप्रामाण्यमाप्तप्रामाण्यात् ' इति यदुक्तं सूत्रेण तन्न युक्तमित्याशङ्कते-नित्यत्वादिति। उक्त निराकरोति- शब्दस्येति, शब्दस्य= वाक्यस्य अर्थप्रतिपत्तौ स्वार्थबोधनिरूपितं यत् प्रामाण्यं तद्वाचकत्वादेव बोधकत्वादेव भवति न तु नित्यत्वात्. वाचकत्वेन प्रामाण्यं चाप्तप्रामाण्याधीनमेव- उपदेष्टुभूताप्तस्य प्रामाण्ये एव यथार्थबोधकत्वसंभवादित्यर्थः। विपक्षे बाधकमाह- नित्यत्वे इति, यदि शब्दा नित्याः स्युस्तदा ततः पूर्व संकेतकर्तुरभावापत्त्या सर्वेण शब्देन सर्वस्य पदार्थस्य वचनात्= बोधापत्त्या शब्दविशेषादर्थविशेषस्य प्रतीतिव्यवस्था नोपपद्येत. न चैतदिष्टम् , शब्दानामनित्यत्वे तु ततः पूर्व संकेतकर्तृसंभवात् संकेतानुसारेण बोधकत्वात् शब्दार्थप्रतीतिव्यवस्थोपपद्यते इत्यर्थः / ननु वेदशब्दानामनित्यत्वे वाचकत्वमेव नोपपद्यते येन प्रामाण्यं स्यादित्याशङ्कते- नेति, अनित्यत्वे हि यस्य शब्दस्य संकेतो गृहीतः स तदानीमेव नष्टः यश्चेदानी बोधयति तस्य तु संकेतो न गृहीत इत्यनित्यवे बोधकत्वानुपपत्तिरित्याशयः / परिहरतिनेति, लौकिकानामनित्यानामपि शब्दानामर्थदर्शनात्= अर्थबोधस्य जायमानत्वात् वाचकत्वमस्तीति अनित्यत्वेपि वाचकत्वमुपपद्यते इत्यर्थः / ननु ते= लौकिकाः शब्दा अपि नित्या एवेति न तत्रोक्तनियमस्य व्यभिचार इत्याशङ्कते- तेपीति / निराकरोति-नेति, यदि नित्यत्वादेव शब्दः प्रमाणं तदाऽनाप्तोपदेशस्यापि नित्यत्वेन प्रामाण्यं स्यादेव तथा चाऽनाप्तोपदेशस्यार्थविसंवादो न स्यात् भवति चार्थविसंवाद इति न नित्यत्वात् प्रामाण्यं किं त्वाप्तप्रामाण्यादिति युक्तं तथा चानाप्तोपदेशे आप्तप्रामाण्याभावादप्रामाण्यं तेन चार्थविसंवाद उपपद्यते इत्यर्थः / स्यादिति शेषः / नन्वऽनाप्तोपदेशः सोऽनित्य एवेति न तस्य प्रामाण्यापत्तिरित्याशङ्कते- अनित्य इति, शब्दानां नित्यत्वेपि लौकिकवाक्यस्याऽनित्यत्वादित्यर्थः / परिहरति- अविशेषेति, अत्र विशेषहेतुर्नोक्त इत्यर्थः, उक्तं स्वयमेव ब्याचष्टे- अनाप्तेति, इति= इत्यत्र, लौकिक आप्तोपदेशो नित्यः अनाप्तोपदेशश्च न नित्यः इत्यत्र कारणम्= हेतुः वक्तव्यः न चोक्त इति नेयं व्यवस्थोपपद्यते इत्यर्थः / तथा च शब्दानां नित्यत्वे सर्वबोधापत्तिदोषादनित्यत्वमेव युक्तमित्याप्तप्रामाण्यादेव प्रामाण्यमिति सिद्धमित्यर्थः /