________________ शब्दप्रमाणपरीक्षा] न्यायभाष्यम्। 163 यथानियोगं चार्थस्य प्रत्यायनाद् नामधेयशब्दानां लोके प्रामाण्यम्. नित्यत्वात् प्रामाण्यानुपपत्तिः= यत्रार्थे नामधेयशब्दो नियुज्यते लोके तस्य नियोगसामर्थ्यात् प्रत्यायको भवति न नित्यत्वात् / मन्वन्तरयुगान्तरेषु चाऽतीतानागतेषु संप्रदायाभ्यासप्रयोगाऽविच्छेद इति वेदानां नित्यत्वम्. आप्तप्रामाण्याच्च प्रामाण्यम् , लौकिकेषु शब्देषु चैतत् समानमिति // 68 // // इति वात्स्यायनीये न्यायभाग्ये द्वितीयाध्यायस्य प्रथममाह्निकम् // उपसंहरति- यथेति, लोके नामधेयशब्दानाम्= लौकिकशब्दानां यथानियोगम्= संकेतानुसारेणैवार्थप्रत्यायनादेव प्रामाण्यमस्ति न तु नित्यत्वात्. नित्यत्वात् प्रामाण्येऽनाप्तोपदेशस्यापि नित्यत्वापत्त्या प्रामाण्यं स्यात् न चैतद् युक्तमित्यन्वयः / उक्तमेव विशदयति- यत्रेति, लोके नामधेयशब्दो यत्रार्थे आप्तैर्नियुज्यते= संकित्यते तादृशसंकेतसामर्थ्यात् तस्यार्थस्य प्रत्यायको भवति न तु नित्यत्वात् / वेदानां नित्यत्वस्य स्वरूपमाह- मन्वन्तरेति, अतीतानागतेषु मन्वन्तरेषु युगान्तरेषु च वैदिकसंप्रदायानुसारेण वेदवाक्यानां योऽभ्यासः= पुनःपुनरुच्चारणं वेदार्थभूतयागादीनां च यः प्रयोगस्तयोविच्छेदः- वैपरीत्यम् अभावो वा न भवतीत्येतावन्मात्रेण वेदानां नित्यत्वमुच्यते न तु शब्दानां नित्यत्वेन तथा चाप्तप्रामाण्यादेव प्रामाण्यमिति सिद्धं तत्र सर्गादौ परमेश्वरस्तदनन्तरं च ऋष्यादयो वेदवाक्यानुपदिशन्ति ते चाप्ताः प्रभाणभूताश्चेति तेषां प्रामाण्यादेव वेदवाक्यानामपि प्रामाण्यमिति सिद्धम्. यथा केनचित् स्वयं निर्माय वाक्यम् इदं वेदवक्यमित्युक्ते तस्यापि वेदवाक्यत्वनिर्धारणार्थमाप्तेषु प्रश्नो भवति तत्राप्तो. पदेशेन तस्याऽवेदत्वं वेदस्य च वेदत्वमवधार्यते इत्याप्तप्रामाण्याधीनमेव प्रामाण्यमापततीति विज्ञेयम् / एतत्= आप्तप्रामाण्याधीनं प्रामाण्यं लौकिकेष्वपि शब्देष्वस्तीति उभयत्र समानमेव तथा चायुर्वेदप्रामाज्यवद् वेदवाक्यानामपि यदाप्तप्रामाण्यात् प्रामाण्यमित्युक्तं तत् सिद्धमिति नाप्रामाण्यं नापि नित्यत्वात् प्रामाण्यं किं त्वाप्तप्रामाण्यादेव प्रामाण्यमिति सिद्धमित्यर्थः // 68 // // इति शब्दप्रमाणपरीक्षा समाप्ता॥ ... ॥इति न्यायभाष्यप्रसन्नपदायां द्वितीयाध्यायस्य प्रथममाह्निकं समाप्तम् //