________________ अथ ॥न्यायभाष्यद्वितीयाध्यायस्य द्वितीयमान्हिकम् // अयथार्थः प्रमाणोदेश इति मत्वाऽऽह न चतुष्टम्-ऐतिह्यार्थापत्तिसंभवाऽभावप्रामाण्यात् // 1 // न चत्वार्येव प्रमाणानि। किं तर्हि 1. ऐतिह्यमापत्तिः संभवोऽभाव इत्येतान्यपि प्रमाणानि तानि कस्मान्नोक्तानि ? / 'इति होचुः' इत्य निर्दिष्टप्रवक्तृकं प्रवादपारम्पर्यम् ऐतिह्यम् / अर्थादा पत्तिः अर्थापत्तिः. आपत्तिः= प्राप्तिः= प्रसङ्गः, यत्राऽभिधीयमानेऽर्थे योऽन्योऽर्थः प्रसज्यते सोऽर्थापत्तिः यथा- 'मेघेष्वऽसत्सु दृष्टिर्न भवति' इति, किमत्र प्रसज्यते ? 'तत्सु भवति' इति। संभवो नाम अविनाभाविनोऽर्थस्य सत्ताग्रहणादन्यस्य सत्ताग्रहणं यथा- द्रोणस्य सत्ताग्रहणा___ प्रमाणानां प्रामाण्यपरीक्षां समाप्य संप्रति तत्संख्याविवेचनार्थमत्रत्यवक्ष्यमाणविषयविवेचनार्थ च द्वितीयमाह्निकमारभते- अयथार्थ इत्यादिना / प्रमाणोद्देशः= " प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि 1-1-3" इत्यत्रोक्तः प्रमाणानां चतुष्ट्वनिर्देशः अयथार्थः= अयुक्तः- परैरभ्युपगतानामर्थापत्त्यादीनामपि प्रमाणत्वादिति मत्वा पूर्वपक्षी “न चतुष्टम् " इत्यादिसूत्रमाहेत्यन्वयः / नेति- प्रमाणानां चतुष्टुम्= चतुरसंख्याविशिष्टत्वं नोपपद्यते- उक्तप्रत्यक्षाद्यतिरिक्तानाम् ऐतिह्यार्थापत्तिसंभवाऽभावाख्यानामपि प्रमाणानां प्रामाण्यादिति सूत्रान्वयः / उक्तप्रमाणचतुष्टयेन सहार्थापत्तिपर्यन्तं पञ्च प्रमाणानीति प्राभाकराः, अभावः= अनुपलब्धिस्तत्पर्यन्तं षट् प्रमाणानीति भाट्टाः, ऐतिह्यमपि प्रमाणान्तरमिति पौराणिकाः, संभवोपि प्रमाणान्तरमिति ज्योतिर्विदः, उदाहरणानि तु भाष्ये द्रष्टव्यानि / व्याचष्टे-नेति / प्रमाणसंख्यां जिज्ञासते-किमिति / पूर्वपक्षी उत्तरमाह- ऐतिह्यमिति, अभावः= अनुपलब्धिः / आक्षिपति- तानीति, तानि ऐतिह्यादीनि। ऐतिह्यस्वरूपमाह- इतीति, 'इतिहोचुर्वृद्धा इति ऐतिह्यम् / इति "अनन्तावसथ" इत्यादिव्याकरणसूत्रे द्रष्टव्यम् , यथा 'इह वटे यक्षः' इति वृद्धवाक्याद् वटे यक्षसत्ता निश्चीयते तत्र प्रत्यक्षादीनां सामर्थ्याभावादैतिह्यमेव प्रमाणं तच्च प्रवादपारम्पर्यरूपमित्यर्थः, न निर्दिष्टः प्रवक्ता यस्य तद् अनिर्दिष्टप्रवक्तृकं वाक्यं यथा 'इह वटे यक्षः' इत्यस्य प्रथमः प्रवक्ता येन तत्र यक्षो दृष्टः स्यात् स न निर्देष्टुं शक्यते इत्यर्थः / अर्थापत्तिमाह- अर्थादिति / आपत्तिपदार्थमाह-प्राप्तिरिति, प्रसङ्ग इत्यर्थः, लक्षणमाह- यत्रेति, अर्थापत्तिः= अर्थापत्तिविषय इत्यर्थः, यत्र वाक्ये 'पीनो देवदत्तो दिवा न भुङ्क्ते' इत्यादौ दिवा भोजनाभावेपि अर्थे= पीनत्वेऽभिधीयमाने योऽन्योर्थः= रात्रिभोजनं प्रसज्यते= कल्प्यते सोऽर्थापत्तेविषय इति समन्वयः, पीनत्वं भोजनं विना न संभवति दिवा भोजनं चात्र प्रतिषिद्धमिति रात्रिभोजनं कल्प्यते इत्यनुसंधेयम् / उदाहरति- यथेति, अत्र प्रसज्यमानमर्थ पृच्छति- किमिति, उत्तरमाह- सरिस्वति, 'मेघेष्वऽसत्सु वृष्टिर्न भवति' इत्युक्ते * मेघेषु सत्सु वृष्टिर्भवति' इत्यर्थादापद्यते- मेघं विना वृष्टेरसंभवादित्यर्थपतिरित्यर्थः / संभवाख्यप्रमाणस्य स्वरूपमाहसंभव इति, अविनाभाविनः= व्याप्यस्य पदार्थस्य सत्ताज्ञानादन्यस्य= व्यापकस्य सत्ताज्ञानं सत्ताग्रहक वा यत्तत् संभवाख्यं प्रमाणमित्यन्वयः, उदाहरति- यथेति, प्रस्थापेक्षयाऽऽढकम् अधिकम् आढकापेक्षया द्रोणोऽधिकस्तदुक्तम् "पलं प्रकुञ्चकं मुष्टिः कुडवस्तञ्चतुष्टयम् / चत्वारः कुडवाः प्रस्थश्चतुष्पस्थं तथाढकम् / अष्टाढको भवेद् द्रोणो द्विद्रोणः शूर्प उच्यते // " इति,