________________ प्रमाण चतुष्टुव्यवस्थापनम् ] न्यायभाष्यम् / 165 दाढकस्य सत्ताग्रहणम्. आढकस्य ग्रहणात् प्रस्थस्येति / अभावः- विरोधी अभूतं भूतस्य. अविद्यमानं वर्षकर्म विद्यमानस्य वाय्वभ्रसंयोगस्य प्रतिपादकम्- विधारके हि वाय्वभ्रसंयोगे गुरुत्वादपां पतनकर्म न भवतीति // 1 // - सत्यम् एतानि प्रमाणानि न तु प्रमाणान्तराणि. प्रमाणान्तरं च मन्यमानेन प्रतिषेध उच्यते सोऽयम् शब्द ऐतिह्यानर्थान्तरभावाद अनुमानेापत्तिसंभवा ___ऽभावाऽनर्थान्तरभावाचा प्रतिषेधः // 2 // तथा च यत्र सहस्रं भवति तत्र शतं भवत्येवेतिवत् यत्र द्रोणो भवति तत्राढकं भवत्येव यत्र चाढकं भवति तत्र प्रस्थो भवत्येवेति व्याप्यानां द्रोणादीनां सत्ताज्ञानाद् यदाढकादीनां व्यापकानां सत्ताज्ञानं तत्संभवप्रमाणादेव- द्रोणपरिमाणे आढकपरिमाणस्य संभवात् , अधिकपरिमाणेऽल्पपरिमाणस्य संभवश्च स्पष्ट एवेत्यन्वयः "कुडवः प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक्" इत्यमरः / अल्पानां परिमाणानां संख्यानां च व्यापकत्वमधिकानां च व्याप्यत्वमित्यत्र विभावनीयम् / अभावाख्यप्रमाणस्य स्वरूपमाह- अभाव इति, अभावपदेन विरुद्धाभावो ग्राह्यस्तथा च तद्विरुद्धाभावज्ञानेन तद्विरुद्धपदार्थज्ञानजनकमभावप्रमाणमित्याशयः, अभावस्यात्र ज्ञानजनकत्वादभाव इति प्रमाणनामधेयम् , विरोधिनमुदाहरति- अभूतमिति, अभूतम्= अविद्यमानं भूतस्य= विद्यमानस्य स्वविरोधिनो विरोधि भवति यथा विद्यमानस्य घटाभावस्याऽविद्यमानो घटो विरोधी यथा चाविद्यमानं जलं विद्यमानस्य वह्नर्विरोधिवह्निजलयोवैयधिकरण्यनियमात् तत्रान्यतरसत्ताज्ञानेनान्यतराभावज्ञानं जायते एवेतिस्पष्टमेवेत्यन्वयः, अभूतम्= अविद्यमानमित्यादिव्याख्यानं च "अविद्यमानम्" इत्यादिमूलानुकूल्येन कृतमितिविभाव्यम् , भूताऽभूतयोविरोधश्च स्पष्ट एव, उदाहरति- अविद्यमानमिति, अविद्यमाना वर्षणक्रिया विद्यमानस्य वृष्टिनिरोधकस्य वाय्वभ्रसंयोगविशेषस्य प्रतिपादिका= बोधिका भवति तथा चाभूतस्य वृष्टिकर्मणो ज्ञानेन अर्थाद् वृष्टयभावज्ञानेन तद्विरुद्धस्य= वृष्टिनिरोधकस्य वायवभ्रसंयोगविशेषस्य यदत्र ज्ञानं तदभावाख्यप्रमाणेनेत्यन्वयः, वस्तुतस्तु अभावज्ञानमेवाभावप्रमाणस्य फलम् / उक्ते हेतुमाह- विधारके इति, विधारके= वृष्टिनिरोधके वाय्वभ्रसंयोगे विद्यमानेऽपां पतनं न भवति, गुरुत्वादपां पतनेन यद् भवितव्यं तन्न भवतीत्याशयः प्रतीयते, अभ्रस्याधोभागे वायुसंयोगेन वृष्टिनिरोधो भवति ऊर्श्वभागे च संयोगेन वृष्टिर्भवतीत्यनुसंधेयम् / किं वा " अभावः" इत्यभावप्रमाणोद्देशः, विरोधीत्यादिना च तस्य निरूपणम् , अभावाख्यं चेदं प्रमाणम् . अभावेन हि तादृशाभावप्रतियोगिविरुद्धस्यैव सत्ताज्ञानं जायते इति परस्परं विरुद्धयोर्वक्तव्यत्वाद् भूताभूतयोविरुद्धत्वमुक्तम्- विरोधीति, इत्येवं व्याख्येयम्, वाक्यं चेदं सर्वथा क्लिष्टार्थमेव / वस्तुतस्त्वत्र- ' अभावो नाम अविद्यमानस्याभावेन विद्यमानग्रहणं किं वैतादृशग्राहकमभावप्रमाणम् / इतिवक्तव्यमासीत् / अत्र- " अभावो नाम प्रत्यनीकस्य ग्रहणात् तद्विरोधिनो ग्रहणं यथा- विधारके वाय्वभ्रसंयोगे सति गुरुत्वप्रतिबन्धादपां पातः प्रतिषिद्धः तदपामपातेन विरोधिनं वाय्वभ्रसंयोगं प्रतिपद्यते” इतिवार्तिकम् , वार्तिकं चेदं चिन्त्यमेव- अपामपातस्य तादृशवाय्वभ्रसंयोगस्य च परस्परं विरोधाभावात्, विरुद्धग्रहणेन तद्विरुद्धग्रहणस्य चासंभवादिति / " अभावस्तु विरोध्यभावज्ञानाधीनविरोध्यन्तरकल्पनं यथा- नकुलाभावज्ञानेन नकुलविरोधिनो व्यालस्य कल्पनम्. अत्रापि व्याप्ति पेक्षितेत्याशयः, अथ वा कारणाभावादिना कार्याभावादिज्ञानम् अभावः” इति विश्वनाथभट्टाः / उक्तस्थलेषु सर्वत्र व्यभिचारसंभवाद् योग्यानुपलब्ध्याऽभावज्ञानमेवाभावप्रमाणफलमित्यनुसंधेयं विस्तरोऽन्यत्र द्रष्टव्यः // 1 // अग्रिमसूत्रमवतारयति- सत्यमिति, उक्तानामैतिह्यादीनां प्रमाणत्वं स्वीक्रियते प्रमाणान्तरत्वं तु न स्वीक्रियते- स्वीकृतेषु शब्दादिष्वन्तर्भावसंभवादित्यर्थः / ऐतियादीनां प्रमाणान्तरत्वं च स्वीकृत्य