________________ 166 प्रसन्नपदापरिभूषितम्- [2 अध्याये. २आहिकेअनुपपन्नः प्रतिषेधः / कथम् ?, 'आप्तोपदेशः शब्दः' इति. न च शब्दलक्षणम् ऐतिह्याद् व्यावर्तते. सोयं भेदः सामान्यात् संगृह्यते इति / प्रत्यक्षेणाप्रत्यक्षस्य संबद्धस्य प्रतिपत्तिरनुमानं तथा चाऽर्थापत्तिसंभवाऽभावाः, वाक्यार्थसंप्रत्ययेनाऽनभिहितस्यार्थस्य प्रत्यकनीकभावाद् ग्रहणम् अर्थापत्तिरनुमानमेव, अविनाभाववृत्त्या च संबद्धयोः समुदायसमुदायिनोः समुदायेनेतरस्य ग्रहणं संभवः तदप्यनुमानमेव, 'अस्मिन् सतीदं नोपपद्यते' इति विरोधित्वे प्रसिद्ध कार्यानुत्पत्त्या कारणस्य प्रतिबन्धकमनुमीयते / सोयं यथार्थ एव प्रमाणोदेश इति 'सत्यमेतानि प्रमाणानि न तु प्रमाणान्तराणि' इत्युक्तम् // 2 // प्रत्यक्षादीनां प्रमाणानां चतुष्टुसंख्यायास्त्वया प्रतिषेध उच्यते सोयं प्रतिषेधः अप्रतिषेधः= नोपपद्यते इत्यर्थः- ऐतिह्यादीनां शब्दादिष्वन्तर्भावादित्यन्वयः। पूर्वपक्षं सूत्रेण प्रत्याचष्टे- शब्दे इति, 'इह वटे यक्षः' इत्यैतिचं वाक्यमेव तथा चास्यैतिह्यस्य शब्दे= शब्दमाणे अनर्थान्तरभावात्= अन्तर्भावात्= शब्दप्रमाणादभेदात् . व्याप्येन व्यापककल्पनारूपाणामर्थापत्त्यादीनां चानुमानेऽन्तर्भावात् अप्रतिषेधः= प्रमाणानां चतुष्टसंख्यायाः प्रतिषेधो नोपपद्यते इति सूत्रान्वयः / अनर्थान्तरभावः= अभेदः। सूत्रे 'शब्दात्. अनुमानात् / इत्येवं वक्तव्यमासीत् / व्याचष्टे- अनुपपन्न इत्यादिना, प्रतिषेधः= प्रमाणचतुष्टप्रतिषेधः, सिद्धान्तकथनमात्रमिदम् / प्रतिषेधानुपपन्नत्वं जिज्ञासते- कथमिति / उत्तरमाह- आप्त इति, इदं शब्दप्रमाणलक्षणम्, शब्दलक्षणम्= आप्तोपदेशत्वं तचैतिह्येप्यस्तीति ऐतिह्यस्य शब्दप्रमाणेऽन्तर्भावः सिद्धः, उपसंहरति- सोयमिति, अयमैतिह्यरूपः शब्दभेदः= शब्दविशेष आप्तोपदेशत्वलक्षणसामान्येन संग्रहीतुं शक्यते एवेति नैतिचं प्रमाणान्तरमित्यन्वयः / अर्थापत्त्यादीनामनुमानेन्तर्भावप्रदर्शनार्थमनुमानस्वरूपमाह- प्रत्यक्षेणेति, अन्तर्भावमाह- तथा चेति, तथा= तद्रूपाः= अनुमानस्वरूपा एवार्थापत्तिसंभवाभावा:-प्रत्यक्षेण प्रत्यक्षपदार्थज्ञानेनाप्रत्यक्षपदार्थज्ञानस्य जायमानत्वादित्यर्थः, इत्येवं सामान्यरूपेणान्तर्भावमुक्त्वा विशेषरूपेणार्थापत्तेरनुमानेन्तर्भावमाह- वाक्येति, वाक्यार्थस्य पीनत्वस्य संप्रत्ययेन ज्ञानेन अनभिहितस्यार्थस्य- रात्रिभोजनस्य ज्ञानमर्थापत्तिरित्युच्यते तत्र पीनत्वं व्याप्यं भोजनं च व्यापकमिति व्याप्यज्ञानेन व्यापकज्ञानस्य जायमानत्वादिदमनुमानमेवेत्यर्थापत्तेरनुमानेऽन्तर्भावः सिद्धः, प्रत्यनीकभावात्= अनुपपत्त्या. भोजनं विना पीनत्वमनुपपन्नम्= विरुद्धमिति पीनत्वेन भोजनकल्पनं भवतीत्यर्थः / एवं मेघाभावे वृष्ट्यभावस्य वाक्यार्थस्य ज्ञानेन मेघसत्त्वे वृष्टिसत्त्वस्य ज्ञानं वह्नयभावे धूमाभावस्य ज्ञानेन धूमसत्त्वे वह्निसत्त्वज्ञानवदनुमानमेव / संभवस्यानुमानेऽन्तर्भावप्रतिपादनार्थ संभवस्वरूपमाह- अविनेति, अविनाभाववृत्त्या= व्याप्यव्यापकभावसंबन्धेन संबद्धयोः समुदायसमुदायिनोप्प्यव्यापकरूपयोर्मध्ये इत्यन्वयः, इतरस्य= समुदायिनः, अन्तर्भावमाह- तदपीति, तत्= संभवप्रमाणम्, आढकानां समुदाय एव द्रोणः, समुदायोऽस्यास्तीति समुदायि आढकं द्रोणाढके च व्याप्यव्यापकरूपे- समुदायसमुदायिनोाप्यव्यापकरूपत्वादिति व्याप्येन द्रोणादिना ( तज्ज्ञानेन) व्यापकस्याढकादेर्यद् ज्ञानं तदनुमानमेवेति न संभवः प्रमाणान्तरमित्यर्थः / अभावस्यानुमानेऽन्तर्भावमाह- अस्मिन्निति, यथा कारणाभावे कार्य नोपपद्यते वाय्वभ्रसंयोगविशेषे सति च वृष्टिनोपपद्यते इत्येवं विद्यमानानुपपद्यमानयोविरोधित्वे प्रसिद्ध कार्यानुत्पत्त्या कारणस्य= कारणनिष्ठं प्रतिबन्धकं किं वा कारणस्य कार्योत्पादप्रतिबन्धकमभावप्रमाणेन ज्ञायते इत्येव वक्तव्यं तत्र कार्यानुत्पत्तेः कारणप्रति. बन्धकं व्यापकमेव तथा च व्याप्यभूतकार्यानुत्पत्तेर्ज्ञानेन व्यापकीभूतप्रतिबन्धकस्य ज्ञानमनुमानमेवेति नाऽभावोपि प्रमाणान्तरमित्यर्थः, कारणस्य= जलपूर्णमेघस्य कार्यभूता या वृष्टिस्तत्प्रतिबन्धको वाय्वभ्रसंयोगविशेषः / अत्र " कारणस्य " इत्यत्र 'कार्यस्य' इतिवक्तव्यमासीत्। घटाद्यभावश्च प्रत्यक्षविषयो नैताशाभावप्रमाणविषयः / उपसंहरति- सोयमिति, प्रमाणोद्देशः= प्रत्यक्षानुमानेत्यादिः प्रमाणचतुष्टुनिर्देशः / उपक्रमोक्तं स्मारयति- सत्यमिति // 2 //