________________ अर्थापत्तिप्रामाण्यम् ] न्यायभाष्यम् / 167 अत्रार्थापत्तेः प्रमाणभावाभ्यनुज्ञा नोपपद्यते तथा हीयम् अर्थापत्तिरप्रमाणम्- अनैकान्तिकत्वात् // 3 // असत्सु मेघेषु दृष्टिर्न भवतीति सत्सु भवति इत्येतदर्थादापद्यते. सत्स्वपि चैकदा न भवति. सेयमापत्तिरप्रमाणमिति // 3 // नाऽनैकान्तिकत्वमर्थापत्तेः अनर्थापत्तौ अर्थापत्यभिमानात् // 4 // 'असति कारणे कार्य नोत्पद्यते' इतिवाक्यात् प्रत्यनीकभूतोऽर्थः- 'सति कारणे कायमुत्पद्यते' इत्यादापद्यते. अभावस्य हि भावः प्रत्यनीक इति. सोयं कार्योत्पादः सति कारणेऽर्थादापद्यमानो न कारणस्य सत्तां व्यभिचरति- न खल्वऽसति कारणे कार्यमुत्पद्यते तस्माद् नाऽनैकान्तिकी / यत्तु 'सति कारणे निमित्तप्रतिबन्धात् कार्य नोत्पद्यते' इति ?. कारणधर्मोसौ न त्वर्थापत्तेः प्रमेयम् / किं तर्यस्याः प्रमेयम् ?, सति कारणे कार्यमुपद्यते इति= योऽसौ ____ संप्रत्यर्थापत्तेरप्रामाण्यमाशङ्कते- अत्रेति, प्रमाणभावाभ्यनुज्ञा= प्रमाणत्वस्वीकारः / अप्रामाण्यमुपपादयति- तथा हीति, इयम् अर्थापत्तिरित्येवं सूत्रेणान्वयः / अर्थापत्तिरिति- इयमर्थापत्तिः अप्रमाणम्- अनैकान्तिकत्वात्= व्यभिचारित्वात्= * मेघेषु सत्सु वृष्टिर्भवति' इत्युक्तस्यार्थापत्तिविषयस्य व्यभिचारात्- सत्स्वपि मेघेषु कदाचिद् वृष्टिर्न भवतीति व्यभिचारः स्पष्ट एवेति सूत्रान्वयः / व्याचष्टेअसत्स्विति, अर्थापत्त्यात्र लभ्यमाह- सत्स्विति / अर्थापत्तिविषयस्य व्यभिचारमाह- सत्स्वपीति / उपसंहरति / सेयमिति, यदा हि न प्रमाणं तदानुमानेऽन्तर्भावोप्यनुपपन्न इत्यर्थः // 3 // ___ अर्थापत्तेरप्रामाण्यं निराकरोति- नेति / अत्र सूत्रेण हेतुमाह- अनर्थेति, अनर्थापत्तौ= अर्थापत्तिभिन्नायाम् अर्थापत्त्यभिमानात्= अर्थापत्तित्वज्ञानादनैकान्तिकत्वं वदसीति नार्थापत्तेरनैकान्तिकत्वापत्तिः यतः 'सत्सु मेघेषु वृष्टिर्भवति' इत्यनेन मेघस्य वृष्टिकारणत्वं प्रतिपाद्यते न तु मेघसत्त्वे वृष्टिनियमोपि येन व्यभिचारापत्तिः स्यात् तत्र कारणे सत्यपि प्रतिबन्धकवशात् कदाचित् कार्य न जायते इति प्रतिबन्धकवशादेव मेघसत्त्वेपि कदाचिद् वृष्टयभाव उपलभ्यते नैतावता मेघे वृष्टिकारणत्वस्य व्यभिचारः संभवतीत्युपपन्नमर्थापत्तेः प्रामाण्यं तेन चानुमानेऽन्तर्भाव इति सूत्रार्थः / ब्याचष्टे- असतीति, प्रत्यनीकभूतः= विरुद्धः= विपरीतः, विपरीतमर्थमाह- सतीति, अयमापत्तिविषयः, यथा 'प्रकाशं विना रूपप्रत्यक्षं न जायते / इत्युक्ते 'प्रकाशे सति रूपप्रत्यक्षं जायते' इत्याल्लभ्यते तथा / प्रत्यनी. कत्वमाह- अभावस्येति, प्रकृते अभावस्य= 'असति कारणे' इतिव्यतिरेकस्य भावः= 'सति कारणे' इत्यन्वयः प्रत्यनीका विरुद्धः, अन्वयव्यतिरेकयोश्च परस्परविरुद्धत्वं स्पष्टमेव व्यतिरेकव्याच्या चान्वयव्याप्तिलाभोपि स्पष्ट एव. असतीति व्यतिरेकव्याप्तिः सतीत्यन्वयव्याप्तिः। उपसंहरति- सोयमिति, असति कारणे' इत्याद्युक्ते सति कारणे कार्योत्पादोऽर्थादापद्यमानः कारणसत्तां न व्यभिचरति= कारणसत्तां विना नैव भवतीति सिध्यति / व्यभिचाराभावे हेतुमाह- न खल्विति / नानैकान्तिकी अर्थापत्तेर्व्यभिचारो नास्ति- 'सत्सु मेघेषु' इत्यनेन 'मेघ विना वृष्टिर्न जायते' इत्यस्य प्रतिपाद्यत्वातत्र च व्यभिचाराभावादित्यर्थः / पूर्वपक्ष्यभिप्रायमनुवदति- यत्त्विति, निमित्तप्रतिबन्धात्= कारणगतप्रतिबन्धकात् किं वा कारणनिष्ठकार्योत्पादकत्वप्रतिबन्धादित्यर्थः / अत्र स्ववक्तव्यमाह- कारणेति, कारणधर्मः= कारणदोषोयं यत्प्रतिबन्धकवशात् कार्य नोत्पद्यते इति / अर्थापत्तिप्रमेयं जिज्ञासतेकिमिति / उत्तरमाह- सतीति, एतदेव ब्याचष्टे- योसाविति, कार्योत्पत्तेः कारणसवाव्यभिचार