________________ 168 प्रसन्नपदापरिभूषितम्- [2 अध्याये. २माहिकेकार्योत्पादः कारणसत्तां न व्यभिचरति तदस्याः प्रमेयम् / एवं तु सति अनर्थापत्तौ अर्थापत्यभिमानं कृत्वा प्रतिषेध उच्यते इति, दृष्टश्च कारणधर्मो न शक्यः प्रत्याख्यातुमिति // 4 // प्रतिषेधाप्रामाण्यं चानैकान्तिकत्वात् // 5 // 'अर्थापत्ति प्रमाणम्- अनैकान्तिकत्वात् ' इति वाक्यं प्रतिषेधः तेनाऽनेन अर्थापत्तेः प्रमाणत्वं प्रतिषिध्यते न सद्भावः, एवमनैकान्तिको भवति. अनैकान्तिकत्वादप्रमाणेनाऽनेन न कश्चिदर्थः प्रतिषिध्यते इति // 5 // अथ मन्यसे नियतविषयेष्वर्थेषु स्वविषये व्यभिचारो भवति. न च प्रतिषेधस्य सद्भावो विषयः ?, एवं तर्हि तत्प्रामाण्ये वा नार्थापत्यप्रामाण्यम् // 6 // अर्थापत्तेरपि कार्योत्पादने कारणसत्ताया अव्यभिचारो विषयः न च कारणधर्मो निमित्तप्रतिबन्धात् कार्यानुत्पादकत्वमिति // 6 // एवात्रार्थापत्तेविषयस्तत्र च न व्यभिचार इत्यर्थः / उपसंहरति- एवमिति / प्रतिषेधः= अर्थापत्तिप्रामाण्य. प्रतिषेधः पूर्वोक्तः / सत्यपि कारणे या कार्यानुत्पत्तिः सा प्रतिबन्धकादेव प्रतिबन्धश्च यत्र प्रत्यक्षसिद्धस्तत्र न तस्य प्रत्याख्यानं संभवति येन कार्यस्य कारणसत्ताव्यभिचारः स्यात्तेन चार्थापत्तिविषयस्य व्यभिचारादर्थापत्तेरप्रामाण्यं स्यादित्याह- दृष्टश्चेति / कारणधर्मः= कार्योत्पादप्रतिबन्धः // 4 // प्रतिबन्धुत्तरमाह- प्रतिषेध इति, " अर्थापत्तिरप्रमाणम्" इत्येवं योर्थापपत्तिप्रामाण्यस्य प्रतिषेध उक्तस्तस्याप्यऽप्रामाण्यम्- अनैकान्तिकत्वात्= व्यभिचारात्= तद्विषयस्य अर्थापत्त्यप्रामाण्यस्याऽसंभवात् विषयासत्त्वमेव च वाक्याऽप्रामाण्यम् अर्थापत्तिप्रामाण्यं च साधितमेवेति सूत्रार्थः / व्याचक्षाणः प्रतिषेधवाक्यमाह-अर्थापत्तिरिति। तेनानेन= उक्तेन प्रतिषेधेन / पर्यवसितमाह- एवमिति, एवम्= अर्थापत्तेः प्रामाण्यप्रतिषेधेपि सद्भावस्याऽप्रतिषेधात् , यदा हि सद्भावः सिद्धस्तदा हेतोः कचिदप्रामाण्यपि कचित् प्रामाण्यवदर्थापत्तेरपि कचिदप्रामाण्येपि कचित् प्रामाण्यमपि स्यादेवेति तत्रोक्तप्रतिषेधस्यानैकान्तिकत्वं प्राप्तं तेनाऽप्रामाण्यं प्राप्तं ततश्चानेन प्रतिषेधेन कश्चिदर्थः= अर्थापत्तिप्रामाण्यं न प्रतिषेद्धं शक्यते इति सिद्धमर्थापत्तेः प्रामाण्यमित्यर्थः // 5 // अग्रिमसूत्रमवतारयति- अथेति, नियतविषयेष्वर्थेषु= नियतेषु बहुषु विषयभूतेषु पदार्थेषु मध्ये, किं वा 'अनियतविषयेषु' इतिच्छेदः, वस्तुतस्तु पदमिदं चिन्तनीयमेव. स्वविषये= स्वप्रतिपाद्ये यो व्यभिचारः स एव व्यभिचारो भवति नान्यत्रत्यः उक्तप्रतिषेधस्य चार्थापत्तिसद्भावो न विषयःउक्तप्रतिषेधेनापत्तिसद्भावो न प्रतिषिध्यते येनापत्तिसद्भावेन प्रतिषेधस्य व्यभिचारित्वं स्यात् किं त्वर्थापत्तेरप्रामाण्यं विषयस्तत्र च न व्यभिचार:- अर्थापत्तेः प्रामाण्यासंभवादिति यदि मन्यसे एवं तर्हि= इत्यत्र सूत्रेणोत्तरमुच्यते इत्यन्वयः / अस्योत्तरमाह- तदिति, तत्= तस्य= उक्तप्रतिषेधस्य यदि स्वविषये व्यभिचाराभावात् प्रामाण्यं तदापत्तेरपि स्वविषये= कार्यस्य कारणसत्त्वाव्यभिचारे व्यभिचाराभावात् प्रामाण्यं सिद्धं हेतोरुभयत्र समानत्वादन्यथा प्रतिषेवस्यापि प्रामाण्यं न स्यादिति सूत्रार्थः / व्याचक्षाणोऽर्थापत्तेविषयमाह- अर्थापत्तेरिति / मर्थापत्तेरविषयमाह- न चेति, निमित्तप्रतिबन्धात् यत् कार्यानुत्पादकत्वं कारणधर्मः स नार्थापत्तेविषयो येन तदादायार्थापत्तेरप्रामाण्यं स्यात् , यश्व कार्यस्य कारणसत्त्वाव्यभिचारोपित्तेविषयस्तत्र न व्यभिचारः- कारणं विना कार्यासंभवादित्यर्थापत्तेरपि स्वविषये व्यभिचाराभावात् प्रामाण्यं सिद्धमित्यर्थः // 6 //