________________ अभावप्रमाणप्रामाण्यम् ] न्यायभाष्यम् / 169 अभावस्य तर्हि प्रमाणभावाभ्यनुज्ञा नोपपद्यते. कथमिति ? नाऽभावप्रामाण्यम्- प्रमेयासिद्धेः // 7 // अभावस्य भूयसि प्रमेये लोकसिद्धे वैयात्यादुच्यते- “नाभावप्रामाण्यम्- प्रमेयासिद्धेः" इति // 7 // अथायमर्थबहुत्वादर्थैकदेश उदाहियते लक्षितेष्वलक्षणलक्षितत्वादलक्षितानां तत्प्रमेयसिद्धिः॥८॥ तस्याऽभावस्य सिध्यति प्रमेयम् / कथम्?. लक्षितेषु वासस्सु अनुपादेयेषु उपादेयानामलक्षितानाम् अलक्षणलक्षितत्वात्= लक्षणाभावेन लक्षितत्वादिति, उभयसंनिधौ ‘अलक्षितानि वासांस्यानय' इति प्रयुक्तो येषु वासस्सु लक्षणानि न भवन्ति तानि लक्षणाभावेन प्रतिपद्यते प्रतिपद्य चानयति प्रतिपत्तिहेतुश्च प्रमाणमिति // 8 // असत्यर्थे नाभाव इतिचेत् ? न-अन्यलक्षणोपपत्तेः॥ 9 // संप्रत्यनुपलब्धेरप्रामाण्यमाशङ्कते- अभावस्येति, प्रमाणभावाभ्यनुज्ञा= प्रामाण्यस्वीकारः / अभा. वस्याऽप्रामाण्यकारणं जिज्ञासते- कथमिति / सूत्रेणोत्तरमाह- नेति, अभावस्य= अनुपलब्धेः प्रामाण्यं नोपपद्यते- तत्प्रमेयस्यासिद्धेः- प्रमेयं विना तद्विषयकप्रमाणस्य स्वीकारासंभवात्, अभावपदार्थस्य च तुच्छत्वात् प्रमेयत्वं न संभवति किं वाऽभावप्रमाणेन भूतलादिकैवल्यमेव ग्रहीतव्यं तच्च प्रत्यक्षस्यैव विषय इति प्रमेयाभावादभावाख्यप्रमाणस्याऽप्रामाण्यं प्राप्तमिति सूत्रार्थः / अत्र- " नाभावः प्रमाणम्- विषयाभावात् . यदविषयं तदप्रमाणं यथा गोशब्दोऽश्वप्रतिपादने" इति वार्तिकम् / सूत्रार्थस्य स्पष्टत्वात् तदुपेक्ष्य भाष्यकारः पूर्वपक्षं प्रत्याचष्टे- अमावस्येति, अमावस्य= अभावप्रमाणस्य, प्रमेये घटाद्यभावे, वैयात्यात्= हठादिना / अत्र- "सिद्धान्तमाह- अभावस्य भूयसीति " इति तात्पर्यटीका // 7 // - अग्रिमसूत्रमवतारयति- अथेति, अर्थबहुत्वात्= अभावप्रमाणस्य प्रमेयाणां घटाद्यभावानां बहुत्वात् साकल्येन प्रदर्शयितुमशक्यत्वेनायमर्थैकदेशः= सूत्रोक्तः प्रमेयैकदेश उदाह्रियते इत्यन्वयः / अभावस्य प्रमेयमाह- लक्षितेष्विति, लक्षितम्= रागादियुक्तम् 'अलक्षितानि वस्राण्यानय' इत्युक्ते लक्षितेषु= लक्षितालक्षितेषु वस्त्रेषु मध्ये यान्यऽलक्षितानि तान्यानयति तत्राऽलक्षितानाम्= रागादिरहितानां वस्त्राणाम् अलक्षणेन= लक्षणाभावेन लक्षितत्वात्= युक्तत्वाद् ज्ञातत्वाद्वा तल्लक्षकस्य लक्षणाभावस्य वस्त्रविशेषणीभूतस्य तत्प्रमेयसिद्धिः= अभावप्रमाणप्रमेयत्वसिद्धिस्तथा चाभावाख्यप्रमेयस्य सत्त्वात् तत्प्रमातुमभावप्रमाणस्य प्रामाण्यं स्वीकार्य प्रमाणान्तरत्वं नास्तीत्युक्तमेवेति सूत्रार्थः / व्याचष्टे- तस्येति / प्रमेयसिद्धिकारणं जिज्ञासते- कथमिति / उत्तरमाह- लक्षितेष्विति, अनुपादेयेषु= अग्राह्येषु. यदा हि 'अलक्षितानि वासांस्यानय' इत्युक्तं तत्र लक्षितानामनुपादेयत्वमलक्षितानामुपादेयत्वं च स्पष्टमेव / उपादेयत्वे हेतुमाह- अलक्षणेति, एतद् व्याचष्टे- लक्षणाभावेनेति / उदाहरति- उभयेति, उभयसंनिधौ= लक्षितालक्षितवस्त्रसंनिधौ, प्रयुक्तः= प्रेरितः= आज्ञप्तो भृत्यः, लक्षणानि= रागादिचिह्नानि, तानि अलक्षितानि= लक्षणाभावविशिष्टानि लक्षणाभावेन प्रतिपद्यते- तत्र लक्षणाभावस्यैव व्यावर्तकत्वात् यथा नीलादेः, प्रतिपद्य च तानि वस्त्राण्यानयति प्रतिपत्तिहेतुः= प्रमितिकारणं च प्रमाणमेव तथा चालक्षितवस्त्राणां व्यावर्तकस्य लक्षणाभावस्य प्रमेयस्य सिद्धया तद्विषयकस्याभावाख्यस्य प्रमाणस्य प्रामाण्यं सिद्धमित्यर्थः // 8 // प्रमेयभूतस्याऽभावस्याभावमाशङ्कते- असतीति, अर्थे= अभावप्रतियोगिन्यसति= अविद्यमाने सति तदभावो नोपपद्यते- निष्प्रतियोगिकाभावस्यासंभवात् तथा च येषु वस्त्रेषु लक्षणानि न सन्ति 22