________________ 170 प्रसन्नपदापरिभूषितम्- [2 अध्याये. २आह्निकेयत्र भूत्वा किंचिन्न भवति तत्र तस्याभाव उपपद्यते. न चालक्षितेषु वासस्सु लक्षणानि भूत्वा न भवन्ति. तस्मात्तेषु लक्षणाभावोऽनुपपन्न इति, न- अन्यलक्षणोपपत्तेः= यथाऽयमन्येषु वासस्सु लक्षणानामुपपत्तिं पश्यति नैवमलक्षितेषु सोयं लक्षणाभावं पश्यन् अभावेनार्थं प्रतिपद्यते इति // 9 // तसिद्धेरलक्षितेष्वहेतुः // 10 // तेषु वासस्सु लक्षितेषु सिद्धिः= विद्यमानता येषां भवति न तेषामभावो लक्षणानाम्= यानि च लक्षितेषु विद्यन्ते लक्षणानि तेषामलक्षितेष्वभाव इत्यऽहेतु:- यानि खलु भवन्ति तेषामभावो व्याहत इति // 10 // न-लक्षणावस्थितापेक्षासिद्धेः // 11 // ___न ब्रूमो यानि लक्षणानि भवन्ति तेषामभाव इति किं तु केषु चिल्लक्षणान्यवस्थितानि तेषु लक्षणाभावोपि कथं स्यात् यदि लक्षणानि तत्र सन्ति तदापि लक्षणाभावो न संभवतीत्यर्थः, परिहरति- नेति, परिहारहेतुमाह- अन्येति, अन्येषु= लक्षितेषु वस्त्रेषु लक्षणानामुपपत्तेः= सत्त्वात् तद्भावोऽलक्षितेषु संभवत्येवेति नाऽभावाख्यस्य प्रमेयस्यापह्नवः संभवतीति सूत्रार्थः / अत्र “अन्यत्र लक्षणोपपत्तेः" इत्येवं पाठो वृत्तिकाराभिमतः, अन्यत्र= लक्षितेषु / पूर्वपक्षं व्याचष्टे- यत्रेति, भूत्वा उत्पद्य, न भवति= विनश्यति / प्रकृतमाह-न चालक्षितेष्विति, अलक्षितेषु च वस्त्रेषु लक्षणानि भूत्वा उत्पद्य न मवन्ति= विनश्यन्ति इति नास्ति येनालक्षितेषु लक्षणाभावः संभवेत् . उत्पत्त्यनन्तरं विनाशेनैव तदभावस्य संभवादित्यर्थः / उपसंहरति- तस्मादिति, तस्मात्= लक्षणानामुत्पत्तिविनाशयोरभावात् तेषुअलक्षितेषु लक्षणाभावोऽनुपपन्न इति नाभावस्य प्रमेयत्वमुपपद्यते इत्यर्थः / निराकरोति- नेति / हेतुमाहअन्येति, एतद् व्याचष्टे- यथेति, अयम्= आज्ञप्तः, अन्येषु= लक्षितेषु, उपपत्तिम्= सत्ताम् , नैवमलक्षितेषु लक्षणानां सत्तां पश्यतीत्यर्थः / उपसंहरति- सोयमिति, तेन दृष्टेन लक्षणाभावेन व्यावर्तकेनार्थम्= अलक्षितं वस्त्रं प्रतिपद्यते तथा च व्यावर्तकत्वेन लक्षणाभावसत्ता सिद्धा लक्षणाभावश्चाभावप्रमाणप्रमेय. मिति सिद्धमभावप्रमाणस्य प्रामाण्यमित्यन्वयः, किं वा लक्षणाभावेन यदलक्षितानां ग्रहणं तदेवाभावाख्यं प्रमाणं तच्चोक्तरीत्या सिद्धमित्यर्थः // 9 // पूर्वपक्षी अभावस्योक्तव्यावर्तकत्वाभावमाह- तत्सिद्धेरिति, लक्षणानां लक्षितेषु सिद्धेः= सत्त्वात् व्यावर्तकत्वमुपपद्यते. अलक्षितेषु अहेतुः= व्यावृत्तिहेतुत्वं नोपपद्यते- अभावस्य तुच्छत्वेन व्यावर्तकत्वासंभवाद् भावस्यैव व्यावर्तकत्वादिति सूत्रार्थः, अत्र- "अभावस्य लक्षणाभावान्निस्स्वरूपस्य न व्यावर्तकत्वमिति भावः" इति वृत्तिर्द्रष्टव्या / व्याचष्टे- तेष्विति, येषां लक्षणानां सिद्धिरित्यन्वयः, सिद्धिपदार्थमाह-विद्यमानतेति / तेषां लक्षणानामभावो न संभवति- विद्यमानस्याभावासंभवादित्यर्थः / एतदेव व्याचष्टे- यानीति, अलक्षितेषु लक्षणाभावो व्यावर्तक इति यदुक्तं तद् अहेतुः= न युक्तं व्याहतत्वादित्यर्थः, अत्र हेतुमाह- यानि खल्विति, यानि भवन्ति विद्यन्ते तेषामभाव एव न संभवति कुतस्तस्य व्यावर्तकत्वमित्याशयः // 10 // ___ उक्तपूर्वपक्षं निराकरोति- नेति, निषेधहेतुमाह- लक्षणेति, लक्षितेषु वस्त्रेषु लक्षणानामवस्थितापेक्षया= अवस्थानापेक्षया= अवस्थितिमपेक्ष्य= अवस्थितत्वात्= अवस्थितिं ज्ञात्वा तेषां लक्षणानामलक्षितेषु वस्त्रेषु अभावस्य ज्ञानं संभवति ज्ञातश्चाभावस्तेषामलक्षितानां प्रतीतिहेतुावृत्तिहेतुश्च संभवतीत्यभावस्य प्रतीतिहेतुत्वसिद्धावृत्तिहेतुत्वसिद्धेश्च यदहेतुत्वमुक्तं तन्नोपपद्यते इति सूत्रार्थः / व्याचष्टेनेति, भवन्ति= लक्षितेषु सन्ति, यत्र सत्ता भवति तत्रैवान्यदा प्रध्वंसाभावो भवतीति अलक्षितेषु लक्ष