________________ शब्दस्य नित्यत्वानित्यत्वविचारः] न्यायभाष्यम् / 171 अनवस्थितानि केषुचित्. अपेक्षमाणो येषु लक्षणानां भावं न पश्यति तानि लक्षणाभावेन प्रतिपद्यते इति // 11 // प्रायत्पत्तेरभावोपपत्तेश्च // 12 // अभावद्वैतं खलु भवति- प्राक् चोत्पत्तेरविद्यमानता. उत्पन्नस्य चात्मनो हानादविद्यमानता. तत्राऽलक्षितेषु वासस्सु प्रागुत्पत्तेरविद्यमानतालक्षणो लक्षणानामभावो नेतर इति // 12 // "आप्तोपदेशः शब्दः 1-1-7" इति प्रमाणभावे विशेषणं ब्रुवता 'नानाप्रकारः शब्दः' इति ज्ञाप्यते. तस्मिन् सामान्येन विचार:- किं नित्योऽथानित्यः ? इति, विमर्शहेत्वनुयोगे च विप्रतिपत्तेः संशयः, 'आकाशगुणः शब्दो विभुनित्योऽभिव्यक्तिधर्मकः' इत्येके, गन्धादिसहणानां सत्त्वाभावात् प्रध्वंसोपि नास्तीति स्वीक्रियते इत्याशयः / स्ववक्तव्यमाह- किं त्विति, लक्षणानि लक्षितेष्ववस्थितानि अलक्षितेषु चाऽनवस्थितानीति मस्तत्र अलक्षितानि अपेक्षमाणो येषु वस्त्रेषु लक्षणानां भावम्= सत्तां न पश्यति तानि वस्त्राणि लक्षणाभावेन प्रतिपद्यते= अलक्षितान्येतानीति जानाति तत्र लक्षणाभावस्य प्रतीतिहेतुत्वं सिद्धम् यतोऽन्यत्र स्थितस्यान्यत्रात्यन्ताभावोपि ज्ञातुं शक्यते ज्ञातश्च प्रतीतिव्यावृत्त्योहेंतुर्भवतीति प्रसिद्धमेवेति पूर्वपक्षो न युक्त इत्यर्थः // 11 // वास्तविकोत्तरमाह-प्रागिति, यथोत्पत्तेरनन्तरं प्रध्वंसाभावो भवति तथोत्पत्तेः प्राक् प्रागभावोपि भवत्येवेत्यऽलक्षितेषु लक्षणानामुत्पत्तेरभावात् प्रागभावो भवत्येव स एव वर्तमानः प्रागभावः प्रतीतिव्यावृत्त्योहेतुर्भवतीति न पूर्वपक्षी युक्त इति सूत्रार्थः / व्याचष्टे- अभावेति / अभाववैविध्यमाह- प्रागिति, उत्पत्तेः प्राग् याऽविद्यमानता स प्रागभावः, उत्पन्नस्य= उत्पत्त्यनन्तरम् आत्मनो हानात्= स्वरूपविनाशाद् याऽविद्यमानता स प्रध्वंसाभाव इत्युच्यते. तत्रालक्षितेषु लक्षणानां प्रध्वंसाभावस्यासंभवेपि प्रागभावः संभवत्येव स एव प्रतीतिव्यावृत्त्योहेंतुर्भवति न इतरः= प्रध्वंसाभावः- असत्त्वादिति सिद्धमभावस्य प्रतीतिव्यावृत्त्योहेतुत्वमित्याह- तत्रेति / तदेवमभावप्रमाणस्य प्रमेयसिद्धया प्रामाण्यमपि सिद्धं तस्य चानुमानेऽन्तर्भाव उक्त एवेत्यर्थापत्त्यादीनां प्रामाण्येप्युक्तप्रमाणचतुष्टये यथायथमन्तर्भावादुद्देशसूत्रोक्तं प्रमाणानां चतुष्टं सिद्धम्- प्रमाणान्तरासंभवादित्यर्थः // 12 // // इति प्रमाणसंख्यापरीक्षा समाप्ता॥ एवं प्रमाणपरीक्षां समाप्य शब्दस्य नित्यत्वानित्यत्वपरीक्षां भाष्यकार आरभते- आप्त इति, प्रमाणभावे= शब्दस्य प्रामाण्ये "आप्तोपदेशः' इत्याप्तोपदेशत्वलक्षणं विशेषणं ब्रुवता सूत्रकृता 'नानाप्रकारः शब्दः' इति ज्ञाप्यते यतः " आप्तोपदेशः शब्दः" इत्युक्ते अनाप्तोपदेशलक्षणोपि शब्दः सिध्यति अन्यथाप्तोपदेशत्वविशेषणं व्यर्थ स्यादित्यर्थः / प्रकृतमाह- तस्मिन्निति, सामान्येन= शब्दमात्रमुद्दिश्य विचारः क्रियते इत्यर्थः / विचारार्थ विकल्पयति-किमिति, शब्द इत्यनुवर्तनीयम् / शब्दे नित्यत्वा. नित्यत्वयोः संशयस्य कारणमाह-विमर्शेति, विमर्शस्य= संशयस्य हेतोरनुयोगे= प्रश्ने जाते विप्रतिपत्तेः= तत्तच्छास्त्रकारैः परस्परविरुद्धप्रतिपादनादेव संशयो जायते इत्युत्तरं विज्ञेयमित्यर्थः / शब्दे विप्रतिपत्तिं प्रदर्शयति- आकाश इत्यादिना, तदेतत् प्रथमं प्रभाकरमतम् , अभिव्यक्तिधर्मकः= नित्यत्वादभिव्यज्यते प्रयत्नेन नोत्पद्यते इत्यर्थः, तदुक्तम्- " न चैवं सत्याकाशस्यासिद्धिरेव- शब्दलक्षणगुणानुमानसिद्धत्वात् " इत्याकाशगुणत्वमुक्तम् . तथा " एषा शालिकनाथेन शब्दनित्यत्वसाधनी / प्रभाकरगुरोर्दृष्ट्या न्यायशुद्धिः परीक्षिता // " इति च शब्दस्य नित्यत्वमुक्तम् /