________________ 172 प्रसन्नपदापरिभूषितम्- [2 अध्याये. २आह्निकेवृत्तिव्येषु संनिविष्टो गन्धादिवदवस्थितोऽभिव्यक्तिधर्मकः' इत्यपरे, 'आकाशगुणः शब्द उत्पत्तिनिरोधधर्मको बुद्धिवत्' इत्यपरे, 'महाभूतसंक्षोभजः शब्दोऽनाश्रित उत्पत्तिधर्मको निरोधधर्मकः' इत्यन्ये. अतः संशयः- किमत्र तत्त्वम् ? इति, 'अनित्यः शब्दः' इत्युत्तरम् / कथम् ? आदिमत्त्वादैन्द्रियकत्वात् कृतकवदुपचाराच // 13 // आदिः= योनिः= कारणम्- आदीयतेऽस्मादिति. कारणवद् अनित्यं दृष्टम्. संयोगविभागजश्च शब्दः कारणवत्त्वादनित्य इति / का पुनरियमऽर्थदेशना- 'कारणवत्त्वात्' इति ?, उत्पत्तिधर्मकत्वादनित्यः शब्द इति= भूत्वा न भवति= विनाशधर्मक इति / सांशयिकमेतत्किमुत्पत्तिकारणं संयोगविभागौ शब्दस्य? आहोस्विदभिव्यक्तिकारणम् ?. इत्यत आहऐन्द्रियकत्वात् ( इति ) इन्द्रियप्रत्यासत्तिग्राह्य ऐन्द्रियकः।। सांख्यमतमाह- गन्धादीति, यत्र गन्धादयो वर्तन्ते तत्रैव शब्दोपि पृथिव्यादिषु वर्तते- शब्दस्पर्शादीनामुत्तरोत्तरभूतेषु सत्त्वस्वीकारात् गन्धादिवद् अवस्थितः= सन्नेव= सत्त्वादेवाभिव्यक्तिधर्मकःअभिघातादिभिरभिव्यज्यमानो न तत्पत्तिधर्मक:-सांख्यैरनित्यपदार्थानां सत्त्वाभिव्यक्त्योः स्वीकारात. अत्र " सांख्यीयमतमाह- गन्धादिसहवृत्तिरिति” इति तात्पर्यटीका / वैशेषिकमतमाह- आकाशगुण इति, उत्पत्तिनिरोधधर्मकः= उत्पत्तिविनाशवान् बुद्धिवत्= ज्ञानवत् , तथा च वैशेषिकसूत्राणि- "श्रोत्रग्रहणो योऽर्थः स शब्दः 2-2-21" गुणस्य सतोऽपवर्गः कर्मभिः साधर्म्यम् 2-2-25" "अनित्यश्वायं कारणतः 2-2-28" " संयोगाद् विभागाच शब्दाच शब्दनिष्पत्तिः 2-2-31" " लिलाचानित्यः शब्दः 2-2-32" इति / बौद्धमतमाह- महाभूतेति, घटादिपदार्था महाभूतरूपा एव शब्दकारणीभूतमाघातादिकमेव संक्षोभपदार्थः, अनाश्रितः= न गुणभूत इत्येव वैशेषिकमतादत्र विशेषः, निरोधधर्मकः= विनाशी, अत्र- “बौद्धराद्धान्तमाह- महाभूतसंक्षोभज इति" इति तात्पर्यटीका / उपसंहरति- अत इति, अतः= उक्तमतानां परस्परं विप्रतिपत्तेः विरोधात् शब्दस्य नित्यत्वानित्यत्वयोः संशयः / अत्र तत्त्वं जिज्ञासते-किमिति / तत्वमाह- अनित्यः इति, अनित्यः शब्द इति न्यायसि. द्धान्त इत्यर्थः // शब्दानित्यत्वकारणं जिज्ञासते- कथमिति / सूत्रेण कारणमाह- आदीति, आदिमत्त्वात्= उत्पत्तिमत्त्वादनित्यः शब्दः- उत्पत्तिमतोऽनित्यत्वनियमात् , ननूत्पत्तिमत्त्वं न सिद्धमित्याशङ्कयाहऐन्द्रियकेति, ऐन्द्रियकत्वात्= इन्द्रियग्राह्यत्वादनित्यः शब्दः- इन्द्रियग्राह्यस्यानित्यत्वनियमात् रूपादिवत् , ननु नायमपि नियमः- सामान्यादौ व्यभिचारादित्याशङ्कयाह- कृतकेति, उपचारात्= प्रयोगात्, अनित्यपदार्थसदृशत्वादित्यर्थः, यथा 'तीनं दुःखं मन्दं दुःखम् ' इत्यनित्यं दुःखमुपचर्यते तथा 'तीव्रः शब्दो मन्दः शब्दः' इत्युपचर्यते एतादृशोपचारादनित्यत्वं सिद्धम्- तीव्रत्वादिधर्माणां नित्येष्वऽसंभवादिति सूत्रार्थः / अत्र- "अत्र चोपचारेण प्रयोगेण तत्कारणं शब्दभेदप्रत्ययमुपलक्षयति- अस्ति हि शुकसारिकामनुष्यवक्त्रप्रभवेषु गकारादिषु स्फुटतरा रूपभेदप्रत्ययाः पुंसाम्" इतितात्पर्यटीका, गकारादीनामेतादृशभेदेनानित्यत्वं प्राप्तम्- नित्यत्वे भेदासंभवादित्याशयः / व्याचष्टे- आदिरिति, आदिमत्त्वात्= कारणवत्त्वात्, आदीयते= उत्पाद्यतेऽस्मादित्यादिः= कारणम्, कारणवच्चानित्यं भवति घटादिवत् / शब्दकारणमाह- संयोगेति / " कारणवत्त्वात् " इत्यनेन किं प्रतिपाद्यते इति पूर्वपक्षी जिज्ञासते- केति, अर्थदेशना= अर्थोपदेशः / उत्तरमाह- उत्पत्तीति / उक्तं व्याचष्टे- भूत्वेति, भूत्वा= उत्पद्य न भवति= विनश्यतीत्यर्थः, एतदपि व्याचष्टे-विनाशेति, उत्पत्तिविनाशधर्मकत्वादनित्यः शब्द इत्यर्थः।