________________ 173 शब्दानित्यत्वप्रतिपादनम् ] न्यायभाष्यम्। किमयं व्यञ्जकेन समानदेशोऽभिव्यज्यते रूपादिवत् ? अथ संयोगजाच्छब्दाच्छब्दसंताने सति श्रोत्रप्रत्यासन्नो गृह्यते ? इति संयोगनिवृत्तौ शब्दग्रहणान्न व्यञ्जकेन समानदेशस्य ग्रहणम् / दारुत्रश्चने दारुपरशुसंयोगनिवृत्तौ दूरस्थेन शब्दो गृह्यते. न च व्यञ्जकाभावे व्यङ्गयग्रहणं भवति तस्मान्न व्यञ्जकः संयोगः, उत्पादके तु संयोगे संयोगजाच्छब्दाच्छन्दसन्ताने सति श्रोत्रप्रत्यासन्नस्य ग्रहणमिति युक्तं संयोगनिवृत्तौ शब्दस्य ग्रहणमिति / इतश्च शब्द उत्पद्यते नाभिव्यज्यते- कृतकवदुपचारात्- 'तीनं मन्दम्' इति कृतकमुपचर्यते- 'तीनं सुखं मन्दं सुखम्. तीव्र दुःखं मन्दं दुःखम् ' इति. उपचर्यते च- 'तीव्रः शब्दो मन्दः शब्दः' इति / व्यञ्जकस्य तथाभावाद् ग्रहणस्य तीव्रमन्दता रूपवदिति चेत् ? न-अभिभवोपपत्तेः। सूत्रोक्तं द्वितीयहेतुमवतारयति- सशयिकमिति, संयोगविभागयोः शब्दाभिव्यक्तिकारणत्वस्यापि संभवात् शब्दोत्पत्तिकारणत्वं सांशयिकमेवेति न तेन शब्दस्यानित्यत्वमापद्यते इत्यर्थः, इत्याशङ्कायामाहऐन्द्रियकत्वादिति, एतद् व्याचष्टे- इन्द्रियेति, प्रत्यासत्तिः= संयोगः / इन्द्रियग्राह्यश्चाऽनित्यो भवति यथा घटादिरिति शब्दोप्यनित्यः- इन्द्रियग्राह्यत्वादित्यर्थः / शब्दस्येन्द्रियग्राह्यत्वमुक्तं तत्रेन्द्रियेण शब्दग्रहणप्रकारजिज्ञासा) द्विधा विकल्पयति- किमिति, अयम्= शब्दः, व्यञ्जकेन= संयोगादिना. किं यत्र संयोगादि भवति तत्रस्थः शब्दोऽभिव्यज्यते यथा रूपादिकं प्रकाशदेशस्थमभिव्यज्यते इति प्रथमकल्पार्थः, किं वा भेरीदण्डादिसंयोगेन यः शब्द उत्पन्नस्तत उत्तरोत्तरं शब्दसंताने शब्दे उत्पन्ने सति श्रोत्रं प्राप्तः शब्दो गृह्यते इति द्वितीयकल्पार्थः / अत्रोत्तरमाह- संयोगेति, भेरीदण्डादिसंयोगे नष्टेपि दूरस्थेन स शब्दो गृह्यते. व्यञ्जके च प्रकाशे नष्टे व्यङ्गयस्य रूपस्य ग्रहणं न संभवति. एवं यदि संयोगादिरपि शब्दस्य व्यञ्जकः स्यात्तदा तस्मिन्नष्टे शब्दो न गृह्येत गृह्यते च शब्द इति न संयोगादिनाऽभिव्यज्यते किं तूत्पाद्यते तथा चोत्तरोत्तरं शब्दोत्पत्तिसंभवेन श्रोत्रप्रत्यासन्नो गृह्यते शब्द इति व्यजकेन समानदेशस्य= व्यञ्जकदेशस्थस्य शब्दस्य ग्रहणं नोपपद्यते यत उत्पन्नः सन् वाऽभिव्यक्तः सन् वा शब्दो न व्यापकः संभवति श्रवणेन्द्रियमपि न व्यापकं येन व्यञ्जकदेशस्थस्य ग्रहणमुपपद्येत ग्रहणं तु भवतीति श्रोत्रं प्राप्त एव गृह्यते इति प्राप्तं. तत्रापि दूरोत्पन्नशब्दस्य श्रोत्रस्य च गत्यभावेन श्रोत्रप्राप्तेरसंभवात् श्रोत्रप्राप्त्यर्थ पूर्वपूर्वशब्दादुत्तरोत्तरशब्दानां श्रोत्रप्राप्तिपर्यन्तमुत्पतिः स्वीकार्येति न्यायसिद्धान्तः / स्ववाक्यं स्वयमेव व्याचष्टे- दारुवश्चने इति, दारुत्रश्चने= काष्ठच्छेदने प्रवृत्ते सति / शब्दस्य व्यङ्गयत्वपक्षे बाधकमाह- न चेति / उपसंहरतितस्मादिति / स्वमते उपपत्तिमाह- उत्पादके इति, संयोगादेः शब्दोत्पादकत्वस्वीकारे इत्यर्थः, शब्दसन्ताने= उत्तरोत्तरं शब्दोत्पत्तौ सत्याम् / संयोगादेः शब्दोत्पादकत्वपक्षे संयोगे नष्टेपि शब्दग्रहणं युज्यते- उत्पादकनाशानन्तरमपि तदुत्पादितग्रहणस्य सिद्धत्वादित्यर्थः / ननु संयोगादेः शब्दोत्पादकत्वं संदिग्धमेव तेन च श्रोत्रप्रत्यासन्नस्य शब्दस्य ग्रहणमपि संदिग्धमेवेति नैवं शब्दानित्यत्वं सिध्यतीत्याशङ्कय सूत्रोक्तं तृतीयहेतुमवतारयति- इतश्चेति, हेतुमाह- कृतकेति / व्याचष्टे- तीव्रमिति, 'तीव्रमिदं मन्दमिदम् / इत्येवं कृतकम्= जन्यमेवोपचर्यते= प्रयुज्यते न तु नित्यमपि / उदाहरति-तीनं सुखमिति, सुखादीनामनित्यत्वं तु स्पष्टमेव तद्वदुपचारात् शब्दस्याप्यनित्यत्वं सिद्धमित्यर्थः / दार्शन्तिकमाह-- तीवः शब्द इति, स्पष्टमन्यत् // ननु यथा रूपव्यञ्जकस्य प्रकाशस्य तीव्रत्वेन रूपग्रहणस्य तीव्रत्वं मन्दत्वेन च मन्दत्वं भवति न तु प्रकाशाभिव्यङ्ग्यस्य रूपस्य तथा शब्दव्यञ्जकस्य संयोगादेस्तीव्रत्वेन शब्दग्रहणस्य तीव्रत्वं मन्दत्वेन