________________ 174 प्रसन्नपदापरिभूषितम्। [2 अध्याये. २आह्निकेसंयोगस्य व्यञ्जकस्य तीव्रमन्दतया शब्दग्रहणस्य तीव्रमन्दता भवति न तु शब्दो भिद्यते यथा प्रकाशस्य तीव्रमन्दतया रूपग्रहणस्येति, तच्च नैवम्- अभिभवोपपत्तेः= तीव्रो भेरीशब्दो मन्दं तन्त्रीशब्दम् अभिभवति न मन्दः, न च शब्दग्रहणमभिभावकं शब्दश्च न भिद्यते (इति), शब्दे तु भिद्यमाने युक्तोऽभिभवः तस्मादुत्पद्यते शब्दो नाभिव्यज्यते इति / अभिभवानुपपत्तिश्च- व्यञ्जकसमानदेशस्याभिव्यक्तौ प्राप्त्यभावात् / 'व्यञ्जकेन समानदेशोऽभिव्यज्यते शब्दः' इत्येतस्मिन् पक्षे नोपपद्यतेऽभिभव:- न हि भेरीशब्देन तन्त्रीस्वनः प्राप्त इति / अप्राप्तेऽभिभव इतिचेत् ? शब्दमात्राभिभवप्रसङ्गः। च मन्दत्वं भवति न तु शब्दस्वरूपस्यापि तीव्रत्वं मन्दत्वं वा येन शब्दस्यानित्यत्वमापद्यतेत्याशङ्कतेव्यञ्जकस्येति, तथाभावात्= तीव्रत्वात् मन्दत्वाद्वा / परिहरति- नेति / परिहारहेतुमाह- अभिभवेति, कस्य चिच्छब्दस्य केनचिच्छब्देनाभिभवो भवति अभिभवश्च तीब्रेण मन्दस्य संभवतीति शब्दस्यैव स्वरूपेण तीव्रत्वं मन्दत्वं च स्वीकार्य तेन च शब्दस्यानित्यत्वं सिद्धमित्यर्थः / अभिभवोपपत्तेः= अभिभवस्योपपन्नत्वात् किं वाऽभिभवोपपत्त्यर्थमित्यर्थः / अत्र " रूपवत्' इत्यत्र 'रूपग्रहणवत्' इति वक्तव्यमासीत्, " अभिभवोपपत्तेः" इत्यत्र च 'अभिभवानुपपत्तेः' इत्येवं पूर्वपक्षिमते बाधकं वक्तव्यमासीदित्यनुसंधेयम् / पूर्वपक्षं व्याचष्टे- संयोगस्येति / विपक्षे बाधकमाह-न विति, शब्दभेदाभावे शब्दस्य तीव्रत्वं मन्दत्वं च नोपपद्यते इति शब्दस्य तीव्रत्वादिनिवृत्त्यर्थ शब्दभेदः प्रत्याख्यातः / अत्र 'न तु शब्दस्य ' इति वक्तव्यमासीत् / दृष्टान्तमाह- यथेति, तीव्रमन्दतेतिशेषः / परिहरति- तच्चेति, तत्= एतत्= शब्दग्रहणस्य तीव्रमन्दत्वे नोपपद्यते इत्यर्थः / हेतुमाह- अभिभवोपपत्तेरिति / एतद् व्याचष्टे- तीव्र इति, तत्री वीणा / न मन्दोऽभिभवति / एतादृशस्याऽभिभाव्याभिभावकत्वस्य सिद्धयर्थ शब्दस्यैव तीव्रमन्दत्वे स्वीकार्ये इत्यर्थः / ननु शब्दो न भिद्यते= न नाना येन शब्दस्य तीव्रमन्दत्वे स्यातां तयोर्मेदं विनाऽनुपपत्तेः किं तु शब्दग्रहणमेव तीव्र मन्दं शब्दग्रहणमभिभवतीत्याशङ्कयाहन चेति / परिहारहेतुमाह- शब्दे इति, ग्रहणं हि ज्ञानमेव न च ज्ञानं ज्ञानान्तरेणाभिभूयते लोके च शब्दस्यैवाभिभवः प्रसिद्ध इति तदुपपत्त्यथै शब्दस्यैव तीव्रमन्दत्वे स्वीकार्य तीव्रमन्दत्वोपपत्त्यर्थं च शब्दभेदः स्वीकार्य इत्यर्थः, युक्तः= युज्यते / स्वमतेनोपसंहरति- तस्मादिति, उत्पन्नस्य शब्दस्य नानात्वं तेन तीव्रत्वं मन्दत्वं च तेनाभिभाव्याभिभावकभावश्चेति सर्वमुत्पत्तिपक्षे उपपद्यते नाभिव्यक्तिपक्षे इत्यन्वयः / / व्यञ्जकदेशस्थस्य शब्दस्याभिव्यक्तिपक्षे उक्ताभिभवानुपपत्तिमाह- अभिभवेति, व्यञ्जकसमानदेशस्य= व्यञ्जकदेशस्थस्य शब्दस्याभिव्यक्तिपक्षे भेरीशब्दवीणाशब्दयोः प्राप्तेरसंभवाद् भेरीशब्देन वीणाशब्दस्याभिभवो नोपपद्यते- प्राप्तयोरेवाभिभाव्याभिभावकभावसंभवादिति नाभिव्यक्तिपक्षो युक्त इत्यर्थः / उत्पत्तिपक्षे तु उत्तरोत्तरोत्त्पत्त्या संभवति प्राप्तिः= संयोगः / स्वोक्तं स्वयमेव व्याचष्टे- व्यञ्जकेनेति / अभिव्यक्तिपक्षेऽभिभवानुपपत्तौ हेतुमाह- न हीति / प्राप्तः= समानाधिकरणः / अभिव्यक्तिपक्षे तु अभिव्यज्यमानाः शब्दा अभिव्यञ्जकदेशस्था एव स्युरिति तेषां प्राप्तिन संभवति भिन्नदेशस्थानां प्राप्तेरसंभवादित्यर्थः / स्पष्टार्थमिदं भाष्यम् // ननु भेरीशब्दवीणाशब्दयोः परस्परं प्राप्त्यभावेपि भेरीशब्देन वीणाशब्दस्याभिभवः किं न स्यात् प्रकाशेन तमस इवेत्याशङ्कते- अप्राप्ते इति, इदं शब्दविशेषणं किं वा 'अप्राप्तौ ' इत्यर्थः / परिहारमाहशब्देति, अप्राप्तस्याप्यभिभवस्वीकारे भेरीशब्देन वीणाशब्दमात्रस्याभिभव: स्यात्- अप्राप्तेः सर्वत्र समानत्वात्, प्राप्तस्याभिभवस्वीकारे तु दूरस्थस्य वीणाशब्दस्य भेरीशब्देन प्राप्तेरभावादभिभवापत्तिा