________________ 175 शब्दानित्यत्वप्रतिपादनम् ] न्यायभाष्यम् / अथ मन्येत 'असत्यां प्राप्तावभिभवो भवति' इति, एवं सति यथा भेरीशब्दः कंचित् तन्त्रीस्वनमभिभवति एवमन्तिकस्थोपादानानिव दवीयस्थोपादानानपि तन्त्रीस्वनानभिभवेत्अमाप्तेरविशेषात. तत्र कचिदेव भेयो प्रणादितायां सर्वलोकेषु समानकालास्तन्त्रीस्वना न श्रूयेरन् इति / नानाभूतेषु शब्दसन्तानेषु सत्सु श्रोत्रप्रत्यासत्तिभावेन कस्यचिच्छब्दस्य तीव्रण मन्दस्याभिभवो युक्त इति / कः पुनरयमभिभवो नाम ?, ग्राह्यसमानजातीयग्रहणकृतमग्रहणम् अभिभवः यथोल्काप्रकाशस्य ग्रहणार्हस्याऽऽदित्यप्रकाशेनेति // 13 // न- घटाभावसामान्यनित्यत्वाद् नित्येष्वप्यनित्यवदुपचाराच // 14 // न खल्लादिमत्त्वादनित्यः शब्दः / कस्मात्?, व्यभिचारात्= आदिमतः खलु घटाभावस्य दृष्टं नित्यत्वम् / कथमादिमान्?, कारणविभागेभ्यो हि घटो न भवति / कथमस्य नित्यस्तीति एतादृशप्राप्तेरुपपत्त्यर्थं शब्दोत्पत्तिः स्वीकार्येत्यर्थः / पूर्वपक्षं व्याचष्टे- अथेति / अत्र दोषमाहएवमिति, एवं सति प्राप्त्यभावेप्यभिभवस्वीकारे / कंचित्= समीपस्थम्, स्ववक्तव्यमाह- एवमिति, अन्तिकस्थम्= भेरीसमीपस्थम् उपादानम्= वीणादिकमभिव्यक्तिस्थानं येषां शब्दाना तानिव= समीपस्थान शब्दानिव, दवीयस्स्थम्= दूरस्थम् उपादानम्= वीणादिकमभिव्यक्तिस्थानं येषां शब्दानां तानपि= दूरस्थानपि शब्दानभिभवेत्, अत्र हेतुमाह- अप्राप्तेरिति / उक्तदोषमुपसंहरति- तत्रेति, तत्र= अप्रातावप्यभिभवस्वीकारे भेरीशब्दकाले क्वचिदपि वीणाशब्दो न श्रूयेत- अप्राप्तानामप्यभिभवस्वीकारात् , प्रणादितायाम्= वादितायाम् / न चैवमस्तीति समीपस्थस्यैवाभिभवदर्शनात् प्राप्तौ सत्यामेवाभिभवः स्वीकार्यः प्राप्युपपत्त्यर्थं च शब्दोत्पत्तिः स्वीकार्या- उत्पन्नानां शब्दानां कचित् सामानाधिकरण्यसंभ. वादित्यर्थः / स्वपक्षे उपपत्तिमाह- नानेति, शब्दसंतानेषु= उत्तरोत्तरमुत्पन्नेषु शब्देषु, श्रोत्रप्रत्यासत्तिभावेन श्रोत्रप्राप्तिसंभवेन तत्र श्रोत्रप्राप्तेन तीव्रण शब्देन श्रोत्रप्राप्तस्य मन्दस्य शब्दस्याभिभवो युज्यते इत्यन्वयः / अभिभवस्वरूपं जिज्ञासते- क इति / उत्तरमाह- ग्राह्येति, दृष्टान्तमाह- यथेति, यथा ग्रहणार्हस्य= ग्राह्यस्य उल्काप्रकाशस्य तत्समानजातीयो य आदित्यप्रकाशस्तद्ग्रहणकृतं यदग्रहणं तदेवाभिभवस्तथा प्रकृते ग्राह्यस्य वीणाशब्दस्य तत्समानजातीयभेरीशब्दग्रहणकृतं यदग्रहणं तदेव वीणाशब्दस्य भेरीशब्देनाभिभव स च प्राप्तौ सत्यामेवोपपद्यते इत्यन्वयः // 13 // पूर्वसूत्रेण शब्दानित्यत्वे यद् हेतुत्रयमुक्तं तत् प्रत्याचष्टे- नेति, आदिमत्त्वादिहेतूनां शब्दानित्यत्वसाधकत्वं न संभवति- व्यभिचारित्वादित्यर्थः, व्यभिचारं प्रदर्शयति-घटेति, साध्याभाववति वृत्तित्वं हि व्यभिचारित्वं तत्र घटाभावे= घटप्रध्वंसे ह्यनित्यत्वं साध्यं नास्ति उत्पत्तिमत्त्वं वस्तीति तस्य व्यभिचारित्वं सिद्धम् , सामान्ये घटत्वादावनित्यत्वं नास्ति ऐन्द्रियकत्वम् इन्द्रियग्राह्यत्वं चास्तीति तस्य व्यभिचारित्वं सिद्धम- येनेन्द्रियेण व्यक्तिर्गृह्यते तेनैवेन्द्रियेण तन्निष्ठजातेग्रहणस्वीकारादैन्दियकत्वं सामान्य सिद्धम् , आकाशादावनित्यत्वं नास्ति अनित्यवदुपचारस्तु भवति- 'आकाशस्य प्रदेशः' इत्यादिरिति अनित्यवदुपचारस्यापि व्यभिचारित्वं सिद्धम् , व्यभिचारिणश्च हेतोः साध्यसाधकत्वं न संभवतीति आदिमत्त्वादिहेतूनामपि पूर्वसूत्रोक्तानां व्यभिचारित्वात् शब्दानित्यत्वसाधकत्वं नोपपद्यते इति सूत्रार्थः / घटाभावसामान्ययोः नित्यत्वात= आदिमतोपि घटाभावस्य ऐन्द्रियकस्यापि सामान्यस्य च नित्यत्वादित्यन्वयः / व्याचष्टे- नेति / शब्दस्यादिमत्त्वेप्यनित्यत्वाभावे हेतुं जिज्ञासते- कस्मादिति / उत्तरमाह- व्यभिचारादिति, व्यभिचारं प्रदर्शयति- आदिमत इति, नित्येपि घटाभावे आदिमत्त्वमस्तीति अनित्यत्वव्यभिचारि जातमित्यर्थः / घटप्रध्वंसस्यादिमत्त्वकारणं जिज्ञासते- कथमिति / उत्तरमाहकारणेति, न भवति= विनश्यति= घटप्रध्वंसो जायते कपालादिलक्षणकारणविभागेभ्य इत्यादिमान् प्रध्वंस इत्यर्थः / प्रध्वंसस्य नित्यत्वकारणं जिज्ञासते- कथमस्येति / उत्तरमाह- य इति, कारणविभा