________________ 176 ___ प्रसन्नपदापरिभूषितम्- [2 अध्याये. २आह्रिकेत्वम् ? योऽसौ कारणविभागेभ्यो न भवति न तस्याऽभावो भावेन कदाचिद् निर्वय॑ते इति / यदपि ऐन्द्रियकत्वात्. (इति) तदपि व्यभिचरति= ऐन्द्रियकं च सामान्यं नित्यं चेति / यदपि कृतकवदुपचारादिति. एतदपि व्यभिचरति= नित्येष्वनित्यवदुपचारो दृष्टो यथा हि भवति'वृक्षस्य प्रदेशः कम्बलस्य प्रदेशः' एवम्- 'आकाशस्य प्रदेश आत्मनः प्रदेशः' इति भवतीति // 14 // तत्त्वभाक्तयोर्नानात्वविभागादव्यभिचारः॥१५॥ नित्यमित्यत्र किं तावत् तत्त्वम् ?, अर्थान्तरस्याऽनुत्पत्तिधर्मकस्याऽऽत्महानानुपपत्तिनित्यत्वं तच्चाऽभावे नोपपद्यते, भाक्तं तु भवति- यत्तत्रात्मानमहासीत् यद् भूत्वा न भवति न जातु तत् पुनर्भवति. तत्र नित्य इव नित्यो घटाभाव इत्ययं पदार्थ इति / तत्र यथाजातीयकः शब्दो न तथाजातीयकं कार्य किंचिद् नित्यं दृश्यते इत्यऽव्यभिचारः // 15 // गाद् योऽसौ न भवति= प्रध्वंसो जायते तस्य प्रध्वंसस्याभावो न सिध्यतीति प्रध्वंसस्य नित्यत्वं सिद्धम् / वस्तुतस्तु " तस्याऽभावः" इत्यत्र 'तस्य भावः / इति वक्तव्यमासीत् तस्य च 'योऽसौ घटो न भवति विनश्यति तस्य घटस्य भावः= पुनः सत्ता न सिध्यतीति घटप्रध्वंसस्य नित्यत्वं सिद्धम् / इत्यर्थः / प्रकृते तु तस्येतिपदेन प्रध्वंसपरामर्शासंभवः स्पष्ट एव / अत्र " निवर्त्यते " इति पाठपक्षे तु 'योसौ घटः कारणविभागेभ्यो नभवति= विनश्यति तस्याऽभाव: प्रध्वंस: केनापि भावेन= पदार्थेन न निवर्त्यते न विनश्यतीति तस्य प्रध्वंसस्य नित्यत्वं सिद्धम् ' इत्यन्वयः / ऐन्द्रियकत्वहेतोरनित्यत्वव्यभिचारित्वमाहयदपीति, व्यभिचारमाह- ऐन्द्रियकमिति, नित्येपि सामान्ये= घटत्वादौ ऐन्द्रियकत्वमस्तीति अनित्यत्वव्यभिचारि जातम् / कृतकवदुपचारहेतोरनित्यत्वव्यभिचारित्वमाह- यदपीति / व्यभिचारं प्रद. र्शयति- नित्येष्विति / उदाहरति- वृक्षस्येति, प्रकृतमाह- एव मिति, तथा च यथा नित्येप्याकाशे 'आकाशप्रदेशः' इत्यनित्यवदुपचारो भवति तथा नित्येपि शब्द तीब्रो शब्दो मन्दो शब्दः' इत्यनित्यवदुपचारो भवति तस्मात् कृतकवदुपचारस्याप्यनित्यत्वव्यभिचारित्वं सिद्धमित्यनित्यत्वव्यभिचारिभिरादिमत्त्वादिभिः शब्दस्यानित्यत्वं नोपपद्यते इत्यर्थः / आकाशस्य पूर्वादिप्रदेशः आत्मनश्च हस्तपादाद्यवच्छेदेन प्रदेशो विज्ञेयः // 14 // पूर्वसूत्रे पूर्वपक्षिणादिमत्त्वादिहेतूनां यद् व्यभिचारित्वं प्रदर्शितं क्रमेण तन्निराकरोति- तत्त्वेति, तत्त्वभाक्तयोः= वास्तविकौपचारिकयोनित्यत्वयोर्नानात्वविभागात्= नानात्वेन विभागात्= परस्परं भेदात् प्रध्वंसे च भाक्तमेव नित्यत्वं न तु तात्त्विकमिति आदिमत्त्वहेतोरव्यभिचारः= अनित्यत्वव्यभिचारित्वं नास्तीति सूत्रान्वयः / प्रध्वंसस्योत्पत्तिमत्त्वात् तात्त्विकं नित्यत्वं नोपपद्यते- उत्पत्तिविनाशरहितस्यैवात्मादेस्तात्त्विकनित्यत्वस्वीकारात् . प्रध्वंसे च यद् विनाशराहित्यान्नित्यत्वमुच्यते तद् भाक्तमेवेत्याशयः। अत्र- "तत्त्वस्य= पारमार्थिकस्य भाक्तस्य च नानात्वस्य भेदस्य विभागात= विवेकान व्यभिचारः" इतिवृत्तिः / भवता नित्यत्वस्य तत्त्वम् स्वरूपं किं ज्ञातमिति जिज्ञासया व्याचष्टे-नित्यमिति / नित्यत्वस्वरूपमाह- अर्थेति, अनुत्पत्तिधर्मकस्य= उत्पत्तिरहितस्याऽर्थान्तरस्य= पदार्थस्य यद् आत्महानानुपपत्तिः= स्वरूपविनाशराहित्यं तदेव नित्यत्वं वास्तविकं तत्त्वभूतं तत्= एतादृशं च नित्यत्वं प्रध्वंसे नोपपद्यते- उत्पत्तिमत्त्वात् , किं तु भाक्तं नित्यत्वमित्याह- भाक्तमिति, प्रध्वंसनित्यत्वस्य भाक्तत्वमुपपादयति- यदिति, य=घटादि आत्मानमहासीत् स्वरूपेण नष्टः, उक्तं व्याचष्टे- यद् भूत्वेति, यत्= घटादि भूत्वा= उत्पद्य न भवति= विनश्यति तत्= विनष्टं घटादि पुनर्न जायते इत्येतावन्मात्रेण प्रध्वंसस्य नित्यत्वमुच्यते इति भाक्तमेव नित्यत्वं तदाह- तत्रेति, घटाभावो नित्यसदृशः सन् नित्य इत्यु