________________ शब्दानित्यत्वप्रतिपादनम् ] न्यायभाष्यम् / 177 यदपि सामान्यनित्यत्वात् ' इति. इन्द्रियपत्यासत्तिग्राह्यम् ऐन्द्रियकम् इति सन्तानानुमानविशेषणात् // 16 // 'नित्येष्वव्यभिचारः' इति प्रकृतम्, नेन्द्रियग्रहणसामर्थ्यात् शब्दस्यानित्यत्वम् / किं तर्हि ?, इन्द्रियपत्यासत्तिग्राह्यत्वात् संतानानुमानं तेनानित्यत्वमिति // 16 // यदपि- 'नित्येष्वप्यनित्यवदुपचारात्' इति. नकारणद्रव्यस्य प्रदेशशब्देनाभिधानाद् नित्येष्वप्यव्यभिचार इति // 17 // च्यते- विनाशराहित्यमात्रादित्ययं पदार्थः= तत्त्वमस्तीति प्रध्वंसस्य भाक्तनित्यत्वं प्राप्तमिति न तात्त्विकनित्यत्वमिति आदिमत्त्वस्य प्रध्वंसवृत्तित्वेनापि अनित्यत्वव्यभिचारित्वं नापद्यते इति सिद्धमादिमत्त्वात् शब्दस्यानित्यत्वमित्यर्थः / उपसंहरति- तत्रेति, यथाजातीयक:= उत्पत्तिविनाशधर्मकः किं वा सत्त्वासत्त्वविशिष्टः किं वा उपलब्ध्यनुपलब्धिविशिष्ट इत्यर्थः / यदि शब्दसदृशं किंचित् कार्य नित्यं स्यात्तदा तत्रोत्पत्तिमत्त्वस्य वृत्तित्वेन व्यभिचारित्वं स्यादपि न चैवमस्तीत्यव्यभिचार इत्युत्पत्तिमत्त्वेन शब्दस्यानित्यत्वं सिद्धमित्यर्थः // 15 // यच्चैन्द्रियकत्वहेतोः सामान्येऽनित्यत्वव्यभिचारित्वमुक्तं तन्निराकरोति, यदपीत्यादिना / " सामान्यनित्यत्वात् " इत्यनेन नित्ये सामान्ये वर्तमानत्वेनैन्द्रियकत्वस्यानित्यत्वव्यभिचारित्वं यदुक्तं तन्नोपपद्यते-- वक्ष्यमाणहेतोरित्यर्थः / यद् इन्द्रियसंबन्धग्राह्यं तद् ऐन्द्रियकमित्युच्यते सामान्यमपीन्द्रियसंबन्धग्राह्यमिति तत्र नित्यभूते सामान्ये ऐन्द्रियकत्वं व्यभिचरतीति हेतोः प्रकृतसूत्रेण व्यभिचारनिवृत्त्यर्थमैन्द्रियकत्वे विशेषणान्तरं प्रदीयते इत्याशयः / किं वा 'तदनुपपन्नम्' इति वाक्यशेषः / संतानेतिसंतानस्यानुमानविशेषणत्वादित्यन्वयः, संतानशब्दोत्र सामान्यवत्त्वपरः अनुमानशब्दश्च ऐन्द्रियकत्वहेतुपरः तयोर्विशेषणविशेष्यभावश्च- सामान्यवत्त्वे सति ऐद्रियकत्वम् इत्येवम् , तथा च नैन्द्रियकत्वमात्रेण शब्दस्यानित्यत्वं साध्यते येनोक्तरीत्या व्यभिचारः स्यात् किं तु सामान्यवत्त्वे सति ऐन्द्रियकत्वाद् इत्यनेन. अस्ति च शब्दे शब्दत्वं सामान्यं यथा घटत्वादिकं घटादिषु. नित्ये च सामान्ये सामान्यवत्त्वं नास्ति आत्मादौ चैन्द्रियकत्वं नास्तीति सामान्यवत्त्वे सत्यन्द्रियकत्वादितिहेतुरनित्यत्वव्यभिचारी न संभवतीति तेन शब्दस्यानित्यत्वं सिद्धमिति सूत्रार्थः / अत्र- " संतानस्यानुमाने= अनुमितिकरणे लिने विशेषणात्. संतानः= संतन्यमानः= एकधर्मावच्छिन्नत्वेन ज्ञायमानस्तेन सामान्यवत्त्वे सतीति विशेषणीयमिति" इति विश्वनाथभट्टाः / ब्याचाष्टे- नित्ये इति, प्रकृतम्= अनुवर्तनीयम् , ऐन्द्रियकत्वहेतोनित्येषु व्यभिचारः- वृत्तित्वं नास्तीत्यर्थः / स्वाभिप्रायमाह-नेति, इन्द्रियग्रहणसामर्थ्यात्= इन्द्रियग्राह्यत्वात् ऐन्द्रियकत्वमात्रादित्यर्थः / शब्दानित्यत्वसाधकं जिज्ञासते-किमिति / उत्तरमाह-इन्द्रियेति, शब्दस्येन्द्रियप्रत्यासत्तिग्राह्यत्वात् संतानानुमानम्= संतानसमानाधिकरणमनुमानं संतानानुमानं संतानं चात्र सामान्यवस्वम् अनुमानं चैन्द्रियकत्वमिति हेतुः तयोः सामानाधिकरण्येन 'सामान्यवत्त्वे सत्यन्द्रियकत्वात् ' इति प्राप्तं तेन एतादृशेन= सामान्यवत्त्वे सत्यन्द्रियकत्वादित्यनेन हेतुना शब्दस्यानित्यत्वमुच्यते न चायं हेतुरनित्यत्वव्यभिचारीति तेन शब्दस्यानित्यत्वं सिद्धमित्यर्थः / वस्तुतस्त्वत्र 'सामान्यवक्त्वस्य साधनविशेषणत्वात् ' इत्येवं सूत्रं वक्तव्यमासीत् // 16 // ___ कृतकवदुपचारादिति हेतोर्यद् व्यभिचारित्वमुक्तं तदनुवदति- यदपीति / परिहरति- नेति / परिहारहेतुं सूत्रेणाह- कारणेति, कारणद्रव्यस्य- कारणवतो द्रव्यस्य भागविशेषः किं वावयवलक्षणं कारणीभूतं द्रव्यं प्रदेशशब्देनाभिधीयते यथा ' कम्बलप्रदेशः' इति, नित्यानां चाकाशादीनां कारणाभावेन कारणवद्रव्यत्वाभावात् प्रदेश एव वस्तुतो नास्ति येनाभिधीयेत तथा चाकाशादिषु 'आकाशप्रदेशः' इत्यादिरनित्यवदुपचारः= प्रदेशव्यवहारो गौण एव न मुख्य इति नित्येषु= आकाशादिषु कृतकवदुप