________________ 178 प्रसन्नपदापरिभूषितम् [2 अध्याये. २आह्निके 'एवमाकाशमदेशः आत्मप्रदेशः' इति. नाजाऽऽकाशात्मनोः कारणद्रव्यमभिधीयते यथा कृतकस्य / कथं ह्यविद्यमानमभिधीयते, अविद्यमानता च प्रमाणतोऽनुपलब्धेः / किं तर्हि तत्राभिधीयते ?, संयोगस्याऽव्याप्यत्तित्वम्= परिच्छिन्नेन द्रव्येणाकाशस्य संयोगो नाऽऽकाशं व्यामोति= अव्याप्य वर्तते इति. तदस्य कृतकेन द्रव्येण सामान्यम्, न ह्यामलकयोः संयोग आश्रयं व्यामोति, सामान्यकृता च भक्तिः- 'आकाशस्य प्रदेशः' इति, अनेनात्मपदेशो व्याख्यातः / संयोगवञ्च शब्दबुद्धयादीनामव्याप्यवृत्तित्वमिति / परीक्षिता च तीव्रमन्दता शब्दतत्त्वं न भक्तिकृतेति / कस्मात् पुनः सूत्रकारस्याऽस्मिन्नर्थे सूत्रं न श्रूयते इति ?, शीलमिदं भगवतः सूत्रकारस्य बहुष्वधिकरणेषु द्वौ पक्षो न व्यवस्थापयति. तत्र शास्त्रसिद्धान्तात् तत्त्वावधारणं प्रतिपत्तुमहतीति मन्यते, शास्त्रसिद्धान्तस्तु न्यायसमाख्यातमनुमतं बहुशाखमनुमानमिति // 17 // चरादितिहेतोरव्यभिचारः= व्यभिचारो नास्तीति तेन शब्दस्यानित्यत्वं यदुक्तं तत् सिद्धमिति सूत्रार्थः / व्याचष्टे- एवमिति, अयं हि नित्येष्वनित्यवदुपचारस्योक्तस्यानुवादः / स्वाभिप्रायमाहनाति, अत्र= 'आकाशप्रदेशः' इत्यत्राकाशादेः कारणद्रव्यम्= कारणवद्र्व्यत्वं अवयवलक्षणं कारणीभूतं द्रव्यं वा नाभिधीयते यथा ' कम्बलप्रदेशः' इत्यत्र कृतकस्य कम्बलस्य कारणद्रव्यमभिधीयते तस्मात 'आकाशप्रदेशः' इत्यपचारप्रयोगो गौण इति प्राप्तम / अत्र कारणद्रव्यानभिधाने हेतमाहकथमिति, आकाशादिषु अविद्यमानं कारणद्रव्यं कथमभिधीयेत-विद्यमानस्यैवाभिधानसंभवादित्यर्थः / कारणद्रव्यस्याकाशादिष्वविद्यमानतायां हेतुमाह- अविद्यमानतेति, आकाशादीनां नित्यानामवयवलक्षणस्य कारणद्रव्यस्य प्रमाणेनानुपलब्ध्यैवाऽविद्यमानता असत्त्वं सिद्धमित्यन्वयः / अत्र " अभिधीयते " इत्यत्र ' अभिधीयेत ' इतिपाठो युक्तः / 'आकाशप्रदेशः' इत्यत्राभिधेयं जिज्ञासते-किमिति / उत्तरमाह-संयोगस्येति, एतद् व्याचष्टे- परिच्छिन्नेनेति, एतदपि व्याचष्टे- अव्याप्येति, परिच्छिन्नेन द्रव्येण= मेघादिप्रदेशेनाकाशस्य यः संयोगः स आकाशव्यापको न भवतीति तादृशसंयोगाभिप्रायेणैव 'आकाशप्रदेशः' इत्युच्यते, तत्= परिच्छिन्नद्रव्येणाकाशसंयोगस्य यदव्यापकत्वं तदेवास्य- आकाशस्य कृतकद्रव्येण सादृश्यमस्तीत्यन्वयः / कृतकद्रव्याव्यापकत्वमाह-न हीति, यथाऽऽमलकयोः संयोगो नामलकव्यापकस्तथाकाशसंयोगोपि नाकाशव्यापक इति कृतकसादृश्यमाकाशे सिद्धं सामान्यकृता ताशसादृश्यकता च भक्तिः= 'आकाशप्रदेशः / इत्युपचार इति गौण इति मुख्यस्य कृतकवदुपचारस्य नित्येषु न व्यभिचार इति तेनाऽनित्यत्वाव्यभिचारिणा मुख्येन कृतकवदुपचारेण शब्दस्यानित्यत्वं सिध्यतीत्यर्थः / अन्यत्सर्वं पूर्वमुक्तमेव / एवं परिच्छिन्नद्रव्येणात्मसंयोगस्यात्मव्यापकत्वाभावात् कृतकसामान्येन 'आत्मप्रदेशः / इत्युच्यते इति गौण एव न मुख्य इति नात्मन्यपि कृतकवदपचारो वस्ततो वर्तते येनानित्यत्वव्यभिचारी स्यादित्याह- अनेनेति / संयोगवदिति- यथोक्तप्रकारेण संयोगस्य व्यापकत्वं नास्ति तथा शब्दादेराकाशव्यापकत्वं बुद्धयादीनां चात्मव्यापकत्वं नास्ति अणुत्वमपि नास्तिइन्द्रियग्राह्यत्वादित्यनित्यत्वं मध्यमपरिमाणादपि सिद्धमित्यर्थः / शब्दे च यः कृतकवदुपचारः स न भाक्त इत्याह- परीक्षिता चेति, शब्दतत्त्वम्= शब्दस्वरूपमेव तीव्र मन्दं च भवतीति यथार्थेन कृतकवदुपचारेण शब्दस्यानित्यत्वं यदुक्तं तत सिद्धमित्यर्थः।। नन्वाकाशात्मानौ निष्प्रदेशौ किं वा शब्दे शब्दत्वं वर्तते इति सूत्राकारेण कि नोक्तमिति जिज्ञासते- कस्मादिति / अत्र- “कतमस्मिन्नर्थे ? निष्प्रदेशमाकाशं निष्प्रदेश आत्मा इत्येतस्मिन्नथें, शब्दसंतानप्रतिपादने वा" इति वार्तिकम् / उत्तरमाह- शीलमिदमिति, शीलम्= सौशील्यम् / अधिकरणेषु= स्थलेषु / अव्यवस्थाप्यमानं चेदं पक्षद्वयं नावधार्यते, अत्र- " द्वौ पक्षौ न व्यवस्थापयतीति भाष्यस्यार्थ:- निष्प्रदेशत्वमात्मादीनां शब्दसंतानं च साक्षादाचक्षाणः सूत्रकारः पक्षं व्यवस्थापयेत् न तु